________________
१२०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । सिद्धाः, अपारमार्थिका इति यावत् , तेषु कल्पनारूढेषु पर्यायेषु, अन्वयि व्यापकतया प्रतीयमानम् , द्रव्यं सत्यम् , कुण्डलादिषु नानाकाश्चनपर्यायेध्वन्वीयमानहेमवत् , अयं भावः-यथा शुक्तौ रजतभ्रान्ती बाधावतारानन्तरं रजताभावमानेऽपि तत्र शुक्त समानत्वात् शुक्तेः सत्यत्वं रजतस्य चासत्यत्वं तथा कुण्डलाद्यभावभानेऽपि हेम्नो भानात् कुण्डलादिपर्यायाणामसत्यत्वं हेमद्रव्यस्य च सत्यत्वम् , एवमन्यत्रापि भावनीयमिति । नन्वेवं भ्रमाधिष्ठानत्वमेव सत्यत्वं भ्रमविषयत्वं चासत्यत्वमित्यागन्तुं अत्र चासत्यत्वम्, प्रत्यक्षाप्रतीयमानेषु पर्यायेष्वव्यापकम् , एवं तत्र तदसत्त्वरूपसत्यत्वमपि तेष्वव्यापककालीना एकाधिकरणवर्तिनः पर्यायास्ते ऊर्ध्वप्रचयिन इति क्रमेण निदर्शन पदर्शनपुरस्सरं दर्शयति- तिर्यक्प्रचयिन इति । अणुत्व-स्थूलत्वादयश्चेति- आमलकमाम्रापेक्षयाऽणु बदरीफलापेक्षया स्थूलं चेत्येकदैवाणुत्वस्थूलत्वादयः पर्याया अपेक्षाभेदेनैकत्र वर्तन्त इत्यभिसन्धिः । पर्यायेषु द्रव्यस्य सत्त्वे आधारत्वान्यथानुपपत्त्या पर्यायाणां सत्त्वं स्यादत आहकल्पनारूढेष्विति- आधारतया कल्पनाविषया एव ते न वस्तुत आधारत्वमिति मूलाभिसन्धिः। द्रव्यस्य पर्यायव्यापकत्वे द्रव्यव्याप्याः पर्याया: सन्त एव स्युरित्यतः 'अन्वयि' इत्यस्य 'व्यापकतया प्रतीयमानम्' इति विवरणम् , कल्पनारूढानां पर्यायाणां वस्तुतोऽसतामपि व्यापकतया प्रतीयमानं द्रव्यमित्यर्थः । कल्पनारूढेषु पर्यायेषु व्यापकतया प्रतीयमानस्य द्रव्यस्य सत्यत्वे निदर्शनमाह-कुण्डलादिष्विति । भावार्थमावेदयति-अयं भाव इति । बाधावतारानन्तरं नेदं रजतमिति शुक्तौ रजतत्वबाधानन्तरम् । 'रजताभावभानेऽपि' इत्यस्य स्थाने 'रजतभानाभावेऽपि' इति पाठो युक्तः, यथाश्रुतपाठस्तु न युक्तः, यतो बाधस्यैव रजताभावज्ञानरूपतया रजताभावभानस्य बाधकालीनतया तत्र बाधावतारानन्तरमिति विशेषणं न सुसङ्गतं स्यात् , तत्र रजतं यदि सत्यं स्यात् तदा पूर्वमिव बाधानन्तरमपि मासेत, न च तदानीं रजतं भासत इति तन्न सत्यमित्याशयः । तत्र बाधानन्तरकाले, अथवा 'रजताभावभानेऽपि' इत्यपि पाठः सम्यग् , यथा बाधकाले रजताभावो भासते तथा तदनन्तरकालेऽपि रजताभाव एव भासते, न तु रजतमतो न रजतस्य सत्यत्वम् । कुण्डलाद्यभावभानेऽपीति- कटक-केयूराद्यवस्थाकाले कुण्डलाभावभानमेव भवति, न तु कुण्डलभानम्, सुवर्ण तु तदानीमप्यवभासत इति कुण्डलादिपर्यायःणामसत्यत्वं हेमद्रव्यरय च सत्यत्वमित्यर्थः, 'कुण्डलाद्यभावभानेऽपि' इत्यस्य स्थानेऽपि 'कुण्डलादिभानाभावेऽपि' इति पाठो युक्तः, कुण्डलाद्यभावभानकाले कुण्डलादिक न भासत इत्यत एव कुण्डलादीनामसत्यत्वं व्यवस्थापनीयम् , तच्च 'कुण्डलादिभानाभावेऽपि' इति पाठ एव सौसङ्गत्यमहतीति, पूर्ववद् वा स पाठोऽपि युक्ततया निभालनीयः । ननु शुक्तौ रजतस्य यथाऽसत्यत्वं तथा द्रव्ये पर्यायाणामसत्यत्वमित्येवं दृष्टान्त दार्टान्तिकभावा. वष्टम्भेन पर्यायाणामसत्यत्वं द्रव्यस्य सत्यत्वं यत् समार्थतं तेनेदं ज्ञायते- यदुत, भ्रमाधिष्ठानत्वं सत्यत्वं भ्रमविषयत्वं चासत्यत्वमिति, तथा चोक्तरूपमसत्यत्वं भ्रान्तप्रत्यक्षे ये पर्यायाः प्रतीयन्ते तत्रैव स्यात् , ये च पर्याया नास्मादृशां प्रत्यक्षसमधिगम्यास्तेऽपि बहवः सन्ति तेषु न स्यात् , एवं ये यत्र न सन्ति तेषामेव तत्र ज्ञानं भ्रमः, पर्यायास्तु द्रव्ये सन्त्येवेति न तत्र तज्ज्ञानं भ्रमः ये च प्रत्यक्षेण न प्रतीयन्ते तेषु तत्र तदसत्त्वमेव तदसत्यत्वमित्यपि पर्यायेषु प्रत्यक्षाप्रतीयमानेषु न स्यादेव, तेषां द्रव्ये सत्त्वेन तदसत्त्वस्याभावादिति शङ्कते-नन्वेवमिति । 'अत्र चासत्यत्वं प्रत्यक्षप्रतीयमानेषु' इत्यस्य स्थाने 'एतच्चासत्यत्वं प्रत्यक्षाप्रतीयमानेषु' इति पाठो युक्तः । एतच्चासत्यत्वं भ्रमविषयत्वलक्षणमसत्यत्वं पुनः 'प्रत्यक्षाप्रतीयमानेषु' इत्यनेनैतत् कथितं भवति-यदि प्रत्यक्षप्रतीयमानत्वं तेषु स्यात् तदैतद् वक्तुं शुक्तौ रजतप्रत्यक्षवद् द्रव्ये तेषां प्रत्यक्षं भ्रम इति प्रत्यक्षात्मकभ्रमविषयत्वमुपादायोक्तलक्षणमसत्यत्वं तेषु स्यादपि, यदा प्रत्यक्षेण न प्रतीयन्त एव ते तदा नोक्तस्वरूपमसत्यत्वं तेष्विति । ते च पर्याया द्रव्ये वर्तन्त एवेति तत्र तदसत्त्वरूपमसत्यत्वमपि तेष्वव्यापकमित्याह-एवमिति । 'तदसत्वरूपमसत्यत्वमपि' इत्यस्य स्थाने 'तदसत्त्वरूपमसत्यत्वमपि' इति पाठो युक्तः । समाधत्ते-नेति । 'सत्यरजतस्यापि' इत्यस्य स्थाने 'असत्यरजतस्यापि' इति पाठो युक्तः, तत्र तद. सत्त्वमात्रमविशेषितमसत्यत्वं न द्रव्यार्थिकनयेऽभ्युपगम्यते, तथा सति शुक्तौ यद्रजतं प्रतीयते तच्छुक्तिरजतपदप्रतिपाद्यं प्रातिभासिकरजतमिति गीयते, तस्यासत्यरजतस्यापि प्रतिभासकाले यदा प्रतीयते तदानीं सत्ताभानेन शुक्तौ तस्य प्रतिभासकाले सत्त्वमेवेत्युक्तलक्षणमसत्यत्वं तस्य न स्यात्, किन्तु कालत्रयसत्त्वमेव सत्यत्वं द्रव्यार्थिकनये, तदभाव एव