SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझहतो नयोपदेशः। ११९ एवं सामान्यलक्षणं विविच्य तद्विभागमाह अयं संक्षेपतो द्रव्य-पर्यायार्थतया द्विधा। द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः परम् ॥ १२ ॥ नयामृत-अयमिति-अयं सामान्यलक्षणलक्षितो नयः, सरूपतः अवान्तरभेदापरिग्रहेण, द्रव्य-पर्याय(यार्थ)तया द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा द्विप्रकारः, तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलत्वेनेत्थमेव मूलन यविभजनात् , तदाह वादी ___" तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दवढिओ अ पज्जवणओ अ सेसा विगप्पासिं ॥" [सम्मतौ का० १, गाथा-३ ]त्ति तत्रादौ द्रव्यार्थिकमतमाह-द्रव्यार्थिकस्य मते द्रव्यं तत्वं परमार्थसत् , अतः द्रव्यात् पृथग भिन्नं विकल्पसिद्धं गुण-पर्यायस्वरूपं तत्त्वं नेष्टम् , संवृतिसतोऽपि तस्य परमार्थतोऽसत्वादिति भावः ॥१२॥ एतदेवाह तिर्यगूर्ध्वप्रचयिनः पर्याया खलु कल्पिताः। सत्यं तेष्वन्वयि द्रव्यं कुण्डलादिषु हेमवत् ॥ १३ ॥ नयामृत-तिर्यगिति-तिर्यप्रचयिनः परस्परसगानाधिकरणत्वे सति परस्परभिन्नकालीना रक्त-अणुत्वस्थूलत्वादयश्च, उर्द्धप्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्नकालीना रक्तश्यामादयः संयोगो विभागादयश्च पर्यायाः, खलु निश्चितम् , कल्पिताः वासनाविशेषप्रभवविकल्पमणिप्रभाधर्मिकमणिबुद्धेर्मणिलक्षणवस्तुप्राप्तिजनकत्वेनेत्यर्थः फलतः प्रामाण्यमिति- संवादिप्रवृत्तिजनकत्वमेव फलतः प्रामाण्यम् , तच्च मणिप्रभायां मणिबुद्धौ समस्तीत्यर्थः । दान्तिके फलतः प्रामाण्यं दर्शयति-तथेति ॥ ११ ॥ द्वादशपद्यमवतारयति- एवमिति- उक्तप्रकारेण नयसामान्यलक्षणं प्रमाणादिव्यावृत्तमुपदर्य नयविभागं कथयति प्रन्थकार इत्यर्थः । विवृणोति - अयमितीति । ननु नैगम-सङ्ग्रह-व्यवहारर्जुश्त्र-शब्द समभिरूढवम्भूतभेदात् नयाः सप्तत्येवमन्यत्र सप्तधा नयविभागः कृतः, किमित्यत्र द्विधैव नयो विभज्यत इत्यत आह-तीर्थकरेति- तीर्थकरस्य जिनस्य यद् वचनमागमस्तस्य यः सङ्ग्रह-विशेषप्रस्तारः, संग्रहः सामान्यं द्रव्यमिति यावत् विशेषः पर्यायः, तयोः प्रस्तारः-विशेषेण प्रपञ्चः सामान्यप्रतिपादकविशेषप्रतिपादकवचनसन्दर्भः तस्य मूलत्वेन यानि द्रव्यात्मकसामान्यप्रतिपादकवचनानि तानि सर्वाणि द्रव्यार्थिकनयात् प्रवृत्तानि, यानि पर्यायात्मकविशेषप्रतिपादकवचनानि तानि सर्वाणि पर्यायार्थिकनयात् प्रवृत्तानीत्यतस्तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलं द्रव्यार्थिकः पर्यायार्थिकश्चेत्येवं निरुक्तमूलत्वेनेत्यर्थः। इत्थमेव द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा नय इत्येवं प्रकारेणैव । उक्तप्रकारेण मूलनयविभजने वादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनं संवादकतया दर्शयति-तदाहेति । तित्थयर० इति- " तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलव्याकरणी द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः"॥ इति संस्कृतम्। तत्र द्रव्यार्थिक पर्यायार्थिकभेदेन द्विधा विभक्त नये। आदौ प्रथमम् । 'पृथग' इति 'परम्' इत्यस्य विवरणम् , तस्य पर्यायकथनं — भिन्नम् ' इति । किं तदित्यपेक्षायामाह-विकल्पसिद्धं गुणपर्यायस्वरूपं तत्त्वमिति । कथं नेष्टमित्यपेक्षायामाह-संवृतिसतोऽपीति-संवृणोति स्वाकारेण बाह्यमिति संवृतिर्विकल्पात्मकं ज्ञानम् , तेन सतोऽपि यदैव ज्ञानं तदैव गुण-पर्यायस्वरूपमिति ज्ञानसत्त्वमेवास्य सत्त्वमित्येतावता संवृत्या सत्त्वमुपादाय गुण-पर्यायस्वरूपं संवृतिसदिति कथ्यते, तादृशस्यापीत्यर्थः । तस्य गुण-पर्यायस्वरूपस्य ॥ १२ ॥ त्रयोदशपद्यमवतार यति- एतदेवाहेति- द्रव्याद्भिन्नं गुणपर्यायस्वरूपं कल्पितमेव न परमार्थसदित्येव कथयतीत्यर्थः । विवृणोति-तिर्यगितीति । ये समानकालीना एकाधिकरणवर्तिनः पर्यायास्ते तिर्यक्प्रचयिनः पर्यायाः, ये तु विभिन्न
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy