SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। न तु बोध इति चेत् ? न- व्यवहर्तव्यज्ञाने सति सत्यां चेच्छायां व्यवहारे आधिक्यताऽनपेक्षणात् , अन्यथाऽभावज्ञानेऽपि प्रतियोग्यपेक्षा न स्यात् , तद्व्यवहार एव सप्रतियोगिकत्वस्थितेः । अथ 'दी? दण्डः' इति ज्ञानं चक्षुःसन्निकर्षमात्राज्जायत एव, 'अमुकापेक्षया दीर्घः' इति दीर्घत्वत्वावान्तरजात्यवगाहिज्ञान एव चावधिज्ञानापेक्षेति चेत् ? न- इस्वत्वेन ज्ञाने दीर्घत्वेन ज्ञानस्यैवापेक्षां विनाऽनुपपत्तिः, तद्वदिहापि परद्रव्यादिनाऽसत्त्वेन ज्ञाने स्वद्रव्याद्यपेक्षयैव सत्त्वज्ञानमिति प्रतिपत्तव्यम् । अवच्छेदकानवगाहिनस्तु अनवधारणरूपत्वादेवानुपयोगः । द्विहस्तादिमात्रेऽनावृतैकहस्तावच्छेदेन महत्त्वप्रहस्तु देशापेक्षयैवेति न तस्य निरपेक्षत्वम् , अत एवाऽऽवरणापगमे स्कन्धापेक्षया परिमाणे द्विहस्तत्व. आहेऽपि तावदवच्छेदेन हस्तत्वग्रहस्य नाप्रामाण्यम् , देश-स्कन्धभेदेनोभयोपपत्तेः । एतेन, मूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावानार्द्धनिखातवंशादेर्द्विहस्तादिपरिमाणग्रह इति प्राच्यनैयायिकानां प्रलापो निरस्तः, यावति भागे नाऽऽवरणं तावति भागे परिमाणस्य ग्रहादेव, स्कन्ध व्यवहर्तव्यज्ञानस्य सापेक्षत्वत एव व्यवहारस्य सापेक्षत्वं नान्यथेति समाधत्ते-नेति । 'आधिक्यतानपेक्षणाद्' इति स्थाने 'अधिकानपेक्षणाद्' इति पाठो युक्तः तस्य व्यवहर्तव्यज्ञानव्यवहारेच्छाव्यतिरिक्तानपेक्षणादित्यर्थः । अन्यथा व्यवहर्तव्यज्ञानस्यानपेक्षत्वेऽपि व्यवहारस्य सापेक्षत्वाभ्युपगमे । तद्वयवहार एव अभावव्यवहार एव, अभावज्ञानं प्रतियोगिज्ञानमन्तरेणैव भवतीत्यभावो न सप्रतियोगिकः, किन्त्वभावव्यवहार एव प्रतियोगिज्ञानमभावज्ञानं चापेक्षत इति तस्यैव सप्रतियोगिकत्वं स्यादित्यर्थः । दीर्घत्वप्रकारकं ज्ञानं न नियतावध्यपेक्षम् , अवधिज्ञानमन्तरेणापि 'दी? दण्डः' इति ज्ञानस्य चक्षुस्सन्निकर्षमात्रादुत्पत्तेः, किन्त्वमुकापेक्षया यद् दीर्घत्वत्वं दीर्घत्वत्वव्याप्यसामान्यम् , तत्प्रकारकदीर्घत्वविशेषविशेष्यकज्ञान एवावधिज्ञानं कारणमिति तत्रैवावधिज्ञानापेक्षेति शङ्कते-अथेति । ह्रस्वत्वस्य दीर्घत्वविरुद्धतया तद्रूपेण दण्डज्ञाने सति नापेक्षामन्तरेण 'दी? दण्डः' इति ज्ञानं सम्भवतीति दीर्घत्वप्रकारकज्ञानेपि नियतावधिज्ञानापेक्षत्वमेवेति समाधत्ते-नेति । तद्वत् नियतावधिज्ञानापेक्षदीर्घत्वप्रकारकज्ञानवत् । इहाऽपि सदसदालकवस्तुज्ञानेपि । नन्ववच्छेदकानवगाह्यपि वस्तुज्ञानं भवत्येवेति न तत्रावधिज्ञानापेक्षत्यत आह-अवच्छेदकानवगाहिनस्त्विति-तादृशज्ञानं भवतु नाम, न ततः सत्त्वादेरवधारणमिति न स्पष्टबोधः स इति स्पष्टबोधोऽपेक्षां विना न सम्भवतीति प्रतिज्ञायां न तेन किञ्चित् क्षुण्णमित्यभिसन्धिः । अनुपयोगः वस्तुसद्धावुपयोगो न भवति, तत्तत्प्रकारेण वस्तुसिद्धयर्थं च यज्ज्ञानं मृग्यते तद् अवच्छेदकावगाह्येव भवतीति । द्विहस्तादिमात्रे द्विहस्तादिप्रमाणे वस्तुनि, आदिपदात् त्रिहस्तादेर्ग्रहणम् । देशापेक्षयैवेतीति-द्विहस्तप्रमाणे यादृशं महत्त्वं ततो विलक्षणमेवैकहस्तप्रमाणगतं महत्त्वम्, तच्च देश-देशिनोः कथञ्चिद् भेदाद् देशे वर्तमानं देशिन्यपि वर्तत एव, परन्तु दशिन एकदेशावच्छेदेनाऽऽवरणमन्यदेशावच्छेदेनानावरणमित्यनावृतो य एकहस्तप्रमाणो देशस्तदवच्छेदेन तादृशमहत्त्वग्रहणं देशापेक्षयैवेतीति । तस्य महत्त्वग्रहस्य त निरपेक्षत्वमित्यर्थः । अत एव द्विहस्तप्रमाणे वस्तुनि अनावृतकहस्तावच्छेदेन महत्त्वग्रहस्य सापेक्षत्वादेव । तावदवच्छेदेन एकहस्तमितदेशावच्छेदेन । देशतिदेशापेक्षयैकहस्तमितत्वं स्कन्धापेक्षया द्विहस्तमितत्वमित्येवं देश-स्कन्धभेदेनैकस्मिन् वस्तुन्येकहस्तत्व-द्विहस्तत्वोभयोरपि सम्भवेन तत्र द्विहस्तत्वग्रहस्यक हस्तत्वग्रहस्यापि प्रामाण्यसम्भवादित्यर्थः । - 'एतन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः, प्राच्यनैयायिकानां मते द्विहस्तमिते वस्तुनि द्विहस्तपरिमाणमेव, नैकहस्तपरिमाणम्, तद्गतद्विहस्तपरिमाणग्रहे च भूयोऽवयवावच्छेदेन चक्षुस्संयोगो हेतुरित्यर्द्धनिखातवंशादेरुक्तकारणाभावान्न द्विहस्तपरिमाणप्रहः एकहस्तपरिमाणं तु तत्र नास्त्येवेति न तद्गतपरिमाणग्रह इत्याशयः । एतेन इत्यतिदिष्टमेव निरासहेतुमाहयावति भाग इति । परिमाणस्य तद्वस्तुगतस्य निरावृतदेशावच्छिन्नस्यैक हस्तपरिमाणस्य । ननु भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावेऽपि तत्परिमाणग्रहणं यापेयते तर्हि अर्द्धनिखातवंशादेरेकहस्तग्रहणवद् द्विहस्तपरिमाणग्रहणमपि स्यादित्यत आह-स्कन्धपर्याप्तति । 'तत्पर्याप्तावच्छेदक' इति स्थाने 'तत्पर्याप्यवच्छेदक' इति पाठो युक्तः, स्कन्धे परिमाणस्य
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy