SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पर्याप्तपरिमाण हे तत्पर्याप्तावच्छेदक यावदवय वावच्छेदेनावरणाभावलक्षणयोग्यताया एव हेतुत्वे दोषाभावात् । कि, 'भूयोऽवयवावच्छेदेन' इत्यस्य कोऽर्थ : ? यावदवयव संन्निकर्षस्य कुत्राप्यसम्भवात्, अनेकतत्संयोगस्य चातिप्रसञ्जकत्वात् भूयोऽवयवावच्छिन्नत्वो पलक्षिताधारताविशेषस्य च देश-स्कन्धापेक्षावैचित्र्यमुखनिरीक्षकत्वादिति न किचिदेतत् । १६ यत् तु - " विषयतासंबन्धेन परिमाणसाक्षात्कारत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्व संबन्धेन तत्तदावारकसंयोगत्वेन प्रतिबन्धकत्वान्नार्द्ध निखात वंशादिपरिमाणग्रह, यद्वा, अर्द्धनिखातवंशादेर्महत्वादिकं गृहात एव, 'महानयं वंश:' इति प्रतीतेः, तदवान्तरवैजात्यं तु नानुभूयत इति तत्तद्वै जात्यग्रहं प्रत्यावारक संयोगस्य विरोधिता । न च निखाताऽनिखातसदृशवंशयोः सन्निकर्षदशायां तन्महत्वादिवृत्तिवैलक्षण्यानुभवाद् वैजात्यप्रत्यक्षं प्रत्यावारक संयोगानां प्रतिबन्धकत्वासंभव इति वाच्यम्, तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येव तेषां विरोधित्वात्, विशेष्यत्वं प्रतिबध्यतावच्छेदकः संबन्धः, स्वाश्रयमेव तत्त्वं या पर्याप्तिस्तदवच्छेदका यावन्तोऽवयवास्तदवच्छेदेनेत्यर्थः । भूयोऽवयवावच्छेदेन चक्षुः संयोगस्यावयविगतपरिमाणमहं प्रति कारणत्वं यत् परेणोच्यते तत्र 'भूयोऽवयवावच्छेदेन' इत्यस्य निर्वचनमेव प्रकृतानुगुणं न कर्तुं शक्यमित्याह-किश्चेति । यदि 'यावदवयवावच्छेदेन' इति तदर्थ उपवर्ण्यते तदसम्भवग्रस्तमेव सर्वथानाऽप्यवयविनि अन्तर्लीनमध्याद्यवयवा - वच्छेदेन चक्षुस्संयोगस्याभावादित्याह - यावदवयवेति । अनेकावयवचक्षुस्संयोग एव यदि भूयोऽवयवावच्छेदेन चक्षुस्संयोगः स तर्हि अर्द्धनिखातवंशादावपि समस्तीति । तत्परिमाणग्रहणापत्तिरित्याह- अनेकतत्संयोगस्य चेति- अनेकावयवचक्षुस्संयोगस्य चेत्यर्थः । यदि च भूयोऽवयवावच्छिन्नत्वोपलक्षितचक्षुस्संयोगाधारताविशेष उक्तशब्दार्थोऽभिमतः, स कार्यानुरोधेन कल्पनीयः स्यादिति देशविशेषापेक्षतादृशाधारताविशेषोऽन्यो यो हस्तावच्छेदेन तद्गतपरिमाणग्रहणे कारणम्, तदन्यश्च स्कन्धापेक्ष तादृशाधारताविशेषो यो द्विहस्तादिपरिमाणग्रहणे कारणमित्यर्द्ध निखातस्थले स्कन्धापेक्षतादृशाधारताविशेषाभावाद् द्विहस्तादिपरिमाणाग्रहणेऽपि देशविशेषापेक्षतादृशाधारताविशेषसद्भावाद् हस्तपरिमाणग्रहणं स्यादेवेत्यपेक्षासिद्धिर प्याय। तैवेत्याशयेनाह - भूयोऽवयवावच्छिन्नत्वोपलक्षितेति । अत्र नैयायिक धुरन्धरमथुरानाथमतं प्रतिक्षेप्तुमुपन्यस्यति - यत् त्विति । विषयतेति परिमाणविषयक साक्षात्कारो विषयतासम्बन्धेन परिमाणे उत्पद्येत तत्र तदाश्रयेण सहाऽऽवारकसंयोगोऽपि स्वाश्रयसमवेतत्वसम्बन्धेन वर्तत इति तादृशसंयोगस्य प्रतिबन्धकस्य समवधानदशायां तादृशसंयोगाश्रयसमवेतस्य परिमाणस्य न भवति प्रत्यक्षमित्यर्द्धनिखातवंशादिपरिमाणग्रहो नेत्यर्थः । अर्द्धनिखातवंशादेः परिमाणस्य साक्षात्कारो भवत्येवेति न तं प्रत्यावारकसंयोगस्य निरुकसम्बन्धेन प्रतिबन्धकत्वम्, किन्तु तत्परिमाणगतं यद् महत्त्वत्वावान्तरवैजात्यं तद् नानुभूयत इति तत्प्रत्यक्षं प्रत्येवाssवारकसंयोगस्य प्रतिबन्धकत्वमिति कल्पान्तरमाह - यद्वेति । तदवान्तरेति महत्त्वत्वव्याप्येत्यर्थः । 'न च' इत्यस्य वाच्यम् इत्यनेन सम्बन्धः, तस्य वैजातस्यैकस्य निखाताऽनिखातसदृशवंशद्वयपरिमाणद्वयवर्तिनः प्रतिबन्धकीभूतावारकसंयोगस्य स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन सम्बन्धिनो यथा निखातवंशगतपरिमाणगततया न प्रत्यक्षं तथानिखातवंशगतपरिमाणगततयापि प्रत्यक्षं न भवेत् भवति चानिखातवंशगतपरिमाणगततया प्रत्यक्षम्, अतो न तादृशवैजात्यग्रहं प्रत्यावारकसंयोगस्य प्रतिबन्धकतेति शङ्कार्थः । तादृशवैजातस्य प्रहं प्रति प्रतिबन्धकत्वाऽसम्भवेऽपि विशेष्यतासम्बन्धेन तादृशवै जात्यप्रकारकप्रत्यक्षं प्रति स्वाश्रयसमवेतत्वसम्बन्धेनाssवारकसंयोगस्य प्रतिबन्धकत्वं सम्भवत्येव, आवारकसंयोगो हि स्वाश्रयसमवेतत्वसम्बन्धेन निखातवंशवर्तिपरिमाण एवं समस्ति तत्र विशेष्यतासम्बन्धेन तादृशवैजात्यप्रकार कप्रकारकं नोत्पद्यते, अनिखातवंशवर्तिपरिमाणे तु स्वाश्रयसमवेतत्वसम्बन्धेनावारकसंयोगो नास्ति, ततस्तत्र विशेष्यता सम्बन्धेन निरुक्तवै जात्यप्रकारकप्रत्यक्षं स्यादेवेति निषेधे हेतुमुपदर्शयति- तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येवेति । तेषाम् आवरकसंयोगानाम् । 'स्वाश्रयमेव तत्त्वं च' इति स्थाने 'स्वाश्रयसमवेतत्वं च' इति पाठो युक्तः । ननु तादृशवैलक्षण्यप्रकारकप्रत्यक्षं
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy