________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
प्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा कार्यतावच्छेदकताया न्यायसिद्धत्वात्, अत एव " जे एगं जाणइ से सव्वं जाणइ " [ आचाराङ्ग- श्रु० १, अ० ३, उ० ४, सू० १२२ ] इति पारमर्षवचनानुरोघोऽपि, एकवस्तुप्रहे तद्गतस्व-परपर्यायकुक्षिप्रवेशेन सर्वेषामेव ग्रहात्, अनुवृत्ति-व्यावृत्ति संबन्धपर्यालोचने तावत्प्रमाणस्यैव वस्तुनोऽनुभवात् । तदाह महावादी सम्मतौ
१४
एगदविअम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीयाऽणागयभूआ, तावइयं तं हवइ दव्वं " ॥ - [ सम्मतितर्क - का० १, गाथा - ३३ ] इति । नन्वेवं सर्वस्य सार्वज्ञ्यापत्तिरिति चेत् ? न- द्रव्यार्थिकतयेष्टत्वात् उक्तभगवद्वचन रुच्यनुवेधेन सम्यक् संपन्या चानतिप्रसङ्गात् ।
antra तथापि स्पष्टबोधः सत्त्वाऽसत्वादिप्रतिनियतधर्मप्रकारको बोधः सदसदाद्याकारको वा बोधः, सापेक्षः शाब्दस्थले नयापेक्षया जनितः, प्रत्यक्षस्थले चावध्यवच्छेदकादिज्ञानापेक्षः स्यात् । विद् ? दीर्घतादिवत् आदीयतेऽनेनेत्यादि ज्ञानम्, दीर्घता प्रत्यक्षवदित्यर्थः, यथा हि दण्डादिज्ञान काले तत्परिमाणग्रहेऽपि ‘अयमस्माद् दीर्घः' इति दीर्घत्वप्रकारकं ज्ञानं नियतावध्यपेक्षयैव, तथा सदसदात्मकवस्तुग्रहेऽपि सत्त्वादिप्रकारकं ज्ञानं स्वद्रव्यापेक्षयैवेत्यर्थः, 'अयमेतदपेक्षया दीर्घः' इतिवद् 'अयं स्वद्रव्याद्यपेक्षया सन्, परद्रव्याद्यपेक्षया चासन् ' इत्येव व्यवहारात् । नन्वेवं व्यवहार एव सापेक्षो
स्ववृत्तिधर्मेषु वर्तत इति तेन सम्बन्धेन तस्य व्यापिका विषयता यावद्घटधर्मावगाहिप्रत्यक्षस्यैवेति निरुक्त कार्यकारणभावाद् घटवृत्तियावद्धर्मावगाहि प्रत्यक्षं सिध्यतीति । अत एव तद्विषयको तासामान्योपयोगलक्षणसामान्यलक्षण प्रत्यासत्तिबलात् तद्गतसकलधर्मज्ञानसम्भवादेव । जे० इति " य एक जानाति स सर्वं जानाति " इति संस्कृतम् । तावत्प्रमाणस्यैव अनुवृत्त - व्यावृतसकलधर्मात्मकस्यैव ।
उक्तार्थे श्रीसिद्धसेनदिवाकर सूरिवचन संवादमाह - तदाहेति । एग० इति - "एकद्रव्ये ये अर्थ पर्याया वचनपर्याया वाऽपि । अतीतानागतभूतास्तावत्कं तद् भवति द्रव्यम् " ॥ इति संस्कृतम् । नन्वेकपदार्थज्ञस्योक्तदिशा सर्वपदार्थज्ञत्वाभ्युपगमे सर्वस्य सर्वज्ञत्वं स्यादिति शङ्कते - नन्वेवमिति । द्रव्यार्थाऽऽदेशात् सर्वस्य सर्वज्ञत्वमिष्टमेवेति समाधत्ते-नेति । उक्तभगवद्वचनेति - " जे एगं जाणइ से सव्वं जाणइ " इति भगवद्वचन श्रद्धासम्बन्धेनेत्यर्थः, यस्य चोक्तवचनश्रद्धा नास्ति समिध्यादृष्टिर्वस्तु एकमपि न जानात्येव, तस्य ज्ञानमज्ञानमेवेति न तस्य सर्वज्ञत्वप्रसक्तिरपीति । एतावता पूर्वार्द्ध व्याख्यातम् ।
अथोत्तरार्द्ध विवृणोति — यद्यप्येवमिति । 'सापेक्ष: ' इति किं सर्वत्रैकापक्ष एव ? उतास्ति तत्र विशेष: ? इत्यपेक्षायामाह - शाब्दस्थल इति 1 ' दीर्घतादिवद्' इत्यस्य विवरणम् - ' दीर्घता प्रत्यक्षवद्' इति, तद् यथा सम्पद्यते तथोपदर्शयितुम् ' आदि ' इत्यस्य ज्ञानरूपमर्थं निरूतिलभ्यमावेदयति - आदीयत इति । दृष्टान्त - दाष्टन्तिकयोः सापेक्षत्वमुपपादयति-यथा हीति । तत्परिमाणग्रहेऽपि दण्डादि परिमाणग्रहेऽपि । 'स्वद्रध्यापेक्षयैव' इत्यत्र ' स्वद्रव्याद्यपेक्षयैव ' इति पाठो युक्तः, आदिपदात् स्वक्षेत्रादीनां परद्रव्यादीनां चोपग्रहः, अत्रादिपदात् परद्रव्यादीनां ग्रहणादेव ‘सत्त्वादि’इत्यादिपदग्राह्या सत्त्वस्य यज्ज्ञानं तस्य सापेक्षत्वस्याप्युपपादनसम्भवेन न्यूनोक्तेर्व्युदासः । यथा यस्य ज्ञानं तथैव तस्य व्यवहार इति स्वद्रव्याद्यपेक्षया सत्त्वादिप्रकारकज्ञानाभावे स्वद्रव्याद्यपेक्षया सत्त्वादिव्यवहारो न स्यादिति तादृशव्यवहारान्यथानुपपत्त्यया तथा ज्ञानमावश्यकमिति दृष्टान्तावष्टम्भेन द्रढयति - अयमेतदपेक्षयेति । ननु सापेक्षतया दीर्घत्वादिर्व्यवह्रियत इत्येतावता दीर्घत्वादिव्यवहारस्य सापेक्षत्वमस्तु दीर्घत्वादिज्ञानस्य कुतः सापेक्षत्वमिति शङ्कते - नन्वेवमिति । व्यवहारो व्यवहर्तव्यज्ञानं व्यवहारेच्छां चापेक्षते, न तु तदतिरिक्तस्य कस्यचिद् व्यवहारेऽपेक्षेति व्यवहार कारणीभूतस्य