________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
1
मित्यन्त्रान्वयस्यैवानुपपत्तिरिति चेत् ? न-स्थूलव्यवहारव्युत्पत्तेरन्यापोहशब्दार्थवादिना निश्चयेनानादरणात्, अन्यथारम्भकाल इव तत्पूर्वकालेऽप्येकस्थूलकालसम्भवेन पचतीति प्रयोगप्रसङ्गात् न च व्यवहारमात्राद् वस्तुसिद्धिरपि, अन्यथा ' पुरुषो व्याघ्रः ' इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसङ्गात् । किन, एवं 'नष्टो घटः, नश्यन् घटः' इत्यादिप्रयोगव्यवस्थायां तव का गतिः ? नाशस्योक्तातीतत्वायोगात्, नष्टेऽपि घटे विद्यमाननाश प्रतियोगित्वाच्च; अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पावान्वेतीति न दोष इति चेत् ? न - उक्त नियमभङ्गप्रसङ्गात् धातुत्व-प्रत्ययत्वादेर्नानात्वात् तन्नियमस्य निश्चयनयेनानादरणादनभ्युपगमात् कथं निश्चयनयः स्थूलव्यवहारव्युत्पत्तिं नाभ्युपैतीत्यपेक्षायामन्यापोह शब्दार्थवादिनेति तद्विशेषणमुपात्तम्, सामान्यस्यानुगतस्य वस्तुभूतस्य वृत्तिविकल्पतोऽभावात् स्वलक्षणस्य सङ्केतव्यवहार कालाननुगामिनः सङ्केतकरणानास्पदत्वात् कल्पितोऽन्यापोहो विकल्पात्मा शब्दार्थः, न च तत्र शब्दस्य सङ्केत करणाच्छन्दार्थत्वं किन्तु शब्दाद् विकल्पलक्षणोऽन्यापोहो जायत इति शब्दजन्यत्वाच्छन्दार्थत्वम् उक्तं च- " विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि " [ ] ॥ १ ॥ एवं च यस्माच्छब्दाद् यथाविधो विकल्प उत्पद्यते तथाविधविकल्पं प्रति तस्य शब्दस्य कारणत्वम् तथा विकल्पात्माऽन्यापोहस्तस्य शब्दस्यार्थं इत्येवंवादिना निश्चयेन स्थूलव्यवहारोपादनप्रत्यलव्युत्पत्तेरनादरणादित्यर्थः । यदि च स्थूलकालमेकमुपादायारम्भसमये पचतीति प्रयोगस्तथाभूतकालवृत्तिपाककृतिमानित्यर्थपरतयोपपाद्यते तर्हि पाकारम्भसमयपूर्वका लादारभ्य पाकनिष्पत्तिसमयपर्यन्तस्थायिस्थूलकालमुपादाय तदात्मक वर्तमानकालवृत्तिपाककृतिमानित्यर्थपरतया पाकारम्भसमयात् पूर्वकालेऽपि पचतीति प्रयोगः प्रसज्येतेत्याह- अभ्यथेति- स्थूलव्यवहारव्युत्पश्याश्रयणस्य निश्चयनयेऽभ्युपगमे स्त्वित्यर्थः । तत्पूर्वकालेऽपि आरम्भकालपूर्वकालेsपि । अन्यथा व्यवहारमात्राद् वस्तुसिद्धयुपगमे । प्रत्ययार्थस्य वर्तमानकालवृत्तित्वस्यातीतकालवृत्तित्वस्य वा निरुतस्य धात्वर्थेऽन्वयाभ्युपगमे परस्यानिष्टमावेदयति- किञ्चैवमिति । उक्तातीतत्वेति- विद्यमानध्वंसप्रतियोगि कालवृत्तित्वलक्षणावीतत्वेत्यर्थः । ननु नाशः पूर्वकालोत्पन्न इदानीमप्यनुवर्तत इति यदा विनष्टो घट इति प्रयुज्यते तत्काल एव तथा प्रयोगा• धारत्वाद् विद्यमानकालस्तदानीं विद्यमानस्तत्पूर्वकालध्वंसो विद्यमानध्वंसस्तत्प्रतियोगिकाल: पूर्वकालस्तद्वृत्तित्वं घटनाशे समस्तीति नोकातीतत्वायोग इति चेत्, मैवम् यतो यथाश्रुतातीतत्वग्रहणे स्थिरपदार्थवादिमते भावमात्रस्य प्रयोगकाले सतस्तत्कालवृत्तिध्वंसप्रतियोगिपूर्वकालवृत्तित्वेनातीतत्वं प्रसज्येत, अतस्तत्र वर्तमानकालावृत्तित्वे सतीत्यपि विशेषणं देयम्, तथा च पूर्वजातोऽपि घटनाश उत्तरकाले सर्वदैव वर्तत इति तस्य वर्तमानकालावृत्तित्वस्याभावेन न तत्सहित विद्यमानध्वंसप्रतियोगिकालवृत्तित्वलक्षणातीतत्वसम्भव इति, एवं च ' नष्टो घट:' इति प्रयोगः पूर्ववृत्तनाशप्रतियोगिनि घटे जायमानो नोपपद्येतेत्यर्थः । पूर्ववृत्तनाश प्रतियोगिघटमुपादाय ' नश्यन् घटः' इति प्रयोगो न भवति सोऽपि स्यात्, विद्यमाननाशप्रतियोगित्वस्य घटे सद्भावादित्याह - नष्टेऽपीति । ननु ' नष्ट:' इत्यत्र कृतः कप्रत्ययस्यातीतत्वमुत्पत्तिश्चार्थ इति तत्रो - त्पत्तावतीतत्वस्योत्पत्तेश्च नाशे धात्वर्थेऽन्वय इत्यतीतोत्पत्तिमन्नाशप्रतियोगीति 'नष्टः' इत्यस्यार्थः, ' नश्यन् ' इत्यत्र च वर्तमानत्वमुत्पत्तिश्च शतृप्रत्ययार्थः, उत्पत्तौ वर्तमानत्वस्योत्पत्तेश्च धात्वर्थे नाशेऽन्वय इति वर्तमानोत्पत्तिमन्नाशप्रतियोगीति ' नश्यन् ' इत्यस्यार्थः तथा च ' नष्टो घटः, नश्यन् घट:' इति प्रयोगद्वयव्यवस्था सुसङ्गतेत्याशङ्कते - अथेति । तत्र नष्टो नश्यन्नित्यादौ समाधत्ते नेति । उक्तेति - ' तच्च वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति ' इति प्रन्येनार्थादुक्तो यो नियम:- प्रत्ययार्थस्यातीतत्वस्य वर्तमानत्वस्य वा धात्वर्थ एवान्वय इति, तस्य भङ्गप्रसङ्गात् इदानीं प्रत्ययार्थस्यातीतत्वस्य वर्तमानत्वस्य च प्रत्ययार्थेनैवान्वयस्योपगमादित्यर्थः । ननु सकलधातुगतं धातुत्वं सकलप्रत्ययगतं च प्रत्ययत्वमनुगतं नास्तीति न सामान्यत उपदर्शितनियमः किन्तु कृञ्चात्वर्थे कृञ्धातूत्तरानश्कप्रत्ययार्थं वर्तमानत्वातीतस्वातीतत्वादेरन्वय इति विशेषत एवोक नियम इति नशू - धातुस्थलेऽन्यथाऽन्वयोपगमेऽपि नोक्तनियमभङ्गप्रसङ्ग इत्याशङ्कते - धातुत्व-प्रत्ययत्वादेरिति । समाधत्ते-नेति । 'धातुपदत्वादिनापि' इत्यस्य स्थाने 'धातुपदवत्त्वादिनाऽपि इति पाठः सम्यग्, आदिपदात् प्रत्ययपदत्वादेरुपग्रहः, तथा च पाणिनिप्रभृतयो व्याकरणप्रणेतारो स्त्रादिषु सङ्केतितवन्तो धातुपदम्, आख्यातकृदादिषु च प्रत्ययः पदमिति पाणिन्यादिकृतसङ्केतविशेषसम्बन्धेन धातुपदवत्त्वं धातुत्वम् निरुक्कसङ्केत विशेष सम्बन्धेन प्रत्यय पदवस्वं प्रत्ययस्वमित्येवं धातुत्व-प्रत्ययत्वादेरनुगतस्य सम्भवेन तद्रूपेण धातु- प्रत्ययादेरनुगमनस्य सम्भवेन धात्वर्थे प्रत्ययार्थवर्तमानत्वादेरन्वय
१६६