________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१६५
Sone
.
.
..
प्रयोगाधारत्वम् , प्रयोगत्वं च तत्तदर्थोपस्थित्यनुकूलव्यापारत्वं लिप्युञ्चारणादिसाधारणं तदादेर्बुद्धिस्थत्ववल्लडादेः शक्यतावच्छेदक(क) तत्तत्कालानुगमकम् , तच्च वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति, धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेर्हेतुत्वात् , अत एव नातीतघटज्ञानाश्रये 'घटं जानामि' इति प्रयोगप्रसङ्गः, न चैवमारम्भसमये पचतीति प्रयोगो न स्यात् तदा कार्या( पाका )भावादिति वाच्यम् , स्थूलकालमादाय तत्समाधानात्, तस्मात् क्रियमाणं कृतरण्यम् । तदादेरिति- यथा च 'घटोऽस्ति तमानय, पटोऽस्ति तं पश्य' इत्यादौ तच्छब्देन घटत्व पटत्वादिना घटपटादीनां बोधोपपत्तये तच्छब्दस्य घटत्व-पटत्वादिकं प्रवृत्तिनिमित्तम् , तदनुगमकं च बुद्धिस्थत्वम् , बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेऽपि न नानार्थत्वं प्रवृत्तिनिमित्तोपलक्षकस्य बुद्धिस्थत्वस्यकत्वात् , तथा प्रकृतेऽपि लडादेः शक्यतावच्छेदकवर्तमानकालाद्यनुगमकं तत्तदर्थोपस्थित्यनुकूलव्यापाराधाराकालत्वप्रविष्टनिरुकव्यापारत्वमिति लिपिकालोञ्चारणकालत्वादिना भेदेऽपि न नानार्थत्वमित्याशयः । आनश्प्रत्ययार्थस्य वर्तमानत्वस्य निष्ठार्थस्य चातीतत्वस्य धात्वर्थ एवान्वय इत्यत्र हेतुमुपदर्शयति-धातूत्तरेति-विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधं प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितिः कारणम् , तथा च प्रकृते क्रियमाणमित्यत्र धातूत्तरानश्प्रत्ययजन्यवर्तमानकालप्रकारकबोधो वृत्तित्वसम्बन्धेन वर्तमानकालप्रकारककृतिविशेष्यको विशेष्यतासम्बन्धेन कृतौ भवति तत्र कृञ्धातुजन्या कृतित्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नकृति निष्ठविशेष्यतानिरूपिकोपस्थितिर्विशेष्यतासम्बन्धेन वर्तत इति भवत्युक्तकार्यकारणभावात् तत्र कृतित्वावच्छिन्न विशेष्य काधैयत्वसम्बन्धेन वर्तमानकालप्रकारकशाब्दबोधः, एवं कृतमित्यत्र धातूत्तरकप्रत्ययजन्यातीनकालप्रकारकबोधो वृत्तित्वसम्बन्धेनातीतकालप्रकारककृतिविशेष्यको विशेष्यतासम्बन्धेन कृतावुत्पद्यते, तत्र कृञ्धातुजन्या कृतित्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नकृतिनिष्ठविशेष्यतानिरूपिकोपस्थितिवर्तत इत्यतस्तत्र कृतित्वावच्छिन्नविशेष्यकाधेयत्वसम्बन्धेनातीतकालप्रकारकशाब्दबोध इति । अत एवेति- विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे विशेष्यतासम्बन्धेन धातुजन्योपस्थितेः कारणत्वमित्येवं कार्यकारणभावबलाद् धात्वर्थ एवं प्रत्ययार्थस्य कालस्यान्वयादेवातीतघटज्ञानाश्रयः पुमान् 'घटं जानामि' इति न प्रयुड़े, घटविषयकवर्नमानज्ञानाश्रयो. ऽहमित्येव ततो बोध उपजायेत, अतीतघटज्ञानाश्रये च घटविषयकवर्तमानज्ञानाश्रयत्वस्याभावान्न तथा प्रयोगप्रसन्न इत्यर्थः । ननु यदि प्रत्ययार्थकालस्य धात्वर्थ एवान्वयस्तदा पाको यदाऽऽरभ्यते तदानीं पाकस्याभावान्न तदानीं पाकस्य वर्तमानकालवृत्तित्वमिति तदानीं पचतीति प्रयोगो न स्यात् , धात्वर्थे पाके वर्तमानकालवृत्तित्वस्य बाधा दित्याशक्ष्य प्रतिक्षिपति-न चैवमिति । आरम्भसमये पाकारम्भसमये, पाकं कर्तुमुद्यतस्येन्धनाग्निसंयोजन-चूलिहको. परिपाकपात्रस्थापन तद्गतजलप्रक्षेपादिकाल इति यावत् । निषेधे हेतुमाह- स्थूलकालमिति- चूल्हिकोपरिपाकपात्राद्यारोपणसमयादारभ्य तण्डुलाद्योदनादिभावनिष्पत्तिसमयमभिव्याप्य स्थितं स्थूलकालमुपादाय तदात्मकवर्तमानकालवृत्तिपाकक्रियानुकूलकृतिमत्त्वस्य पाककर्तरि सद्भावात् तदर्थकः पचतीति प्रयोग: पाकारम्भसमयेऽप्युपपद्यत इत्यर्थः । यदा च क्रियमाणमित्यत्र वर्तमानकालवृत्तित्वस्यानशोऽर्थस्य कृतमित्यत्र निष्ठार्थस्यातीतत्वस्य च कृतावेव धात्वर्थेऽन्वयस्तदा क्रियमाणं कृतमिति वाक्यात तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकाललक्षणवर्तमानकालवृत्तिकृतिविषयस्तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकालवृत्तिध्वंसप्रतियोगिकालवृत्तिकृत्तिविषय इत्येवं बोधः क्रियमाणे कृतत्वान्वयायोग्यत्वान्न सम्भवतीत्युपसंहरतितस्मादिति । धात्वर्थे प्रत्ययार्थकालान्वयमुपपाद्य क्रियमाणं कृतमित्यत्रान्वयानुपपत्तिर्या भवता दर्शिता सा तदा सङ्गता स्याद् यदि धात्वर्थे प्रत्ययार्थकालान्वय इत्येव व्यवतिष्ठत, परं तथोपगमे आरम्भसमये पचतीति प्रयोगानुपपत्ति तत्र स्थूलव्यवहारव्युत्पत्तिसमाश्रयणेन स्थूलकालमुपादाय स्थूलकाललक्षणवर्तमानकालवृत्तिपाकानुकूलकृतिमानित्यर्थकत्वेन पवतीति प्रयोगोपपादनं तदा शोभेत यदि स्थूलव्यवहारव्युत्पत्तिर्भवेत् , न चैवम् , अन्यापोहशब्दार्थवादिना निश्चयेन शुद्धर्जुसूत्रेण स्थूलव्यवहारव्युत्पत्तेरनादृतत्वेन तदधीनाभ्युपगमविषयस्य स्थूलकालस्यैवाभावात् , व्यवहारमात्रं तु न वस्तुसिद्धिनिबन्धनम् , व्यवहारस्य वस्तुसिद्धिनिबन्धनत्वे पुरुषो व्याघ्र इति व्यवह्रियमाणप्रयोगात् पुरुषस्यापि व्याघ्रत्वं प्रसज्येतेत्यतः कालवृत्तिताविशेषरूपस्य मिष्ठार्थस्य वर्तमानत्वेन सहाविरोधमभ्युपेत्य क्रियमाणं कृतमित्यत्रान्वयः स्वीकरणीय इति समाधत्ते-नेति । स्थूलेतिस्थिरपदार्थाभ्युपगन्तृत्वेग स्थूलो यो व्यवहारनयस्तस्य स्थूलव्यवहारोपपादनाय या व्युत्पत्तिस्तस्या निश्चयेन ऋजुसूत्रा