________________
१६४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। व्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिद्धेश्च । ननु पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यव. हितपूर्ववर्तितयैव हेतुत्वमुक्तं तत् कथमिह पर्यायप्रकृतिकशुद्धर्जुसूत्रनयविचारे क्रियमाणं कृतमेवेत्यस्योपपादनाय तेषां कार्यसहवर्तितयैव हेतुत्वं वदतां न पूर्वापरविरोध इति चेत् ? सत्यम्-तत्र पूर्वक्षणानामु. त्तरोत्तरक्षणहेतुत्वस्य विवक्षितस्य पौर्वापर्यनियमेनैवोपपत्तेः, अत्र तु व्यवहारोपगृहीतं घटादिकिश्चित्काल. स्थायिकार्यमादाय तत्र क्रियाजन्यत्वं शुद्धर्जुसूत्रनयेन विचार्यत इति कार्यसहवर्तितयैव तद्धेतुत्वकल्पनाद् विरोधगन्धस्याप्यभावात्, अत एव यत्र शुद्धपर्यायाणां कार्य-कारणभावश्चिन्त्यते, यथा-केवलदर्शना'वधिकक्षणेषु केवलज्ञानावधिकक्षणानाम् , तत्र पौर्वापर्यगर्भ एव हेतुहेतुमद्भावो न तु कार्यसहवर्तितयैव, .सर्वक्षणानामेकक्षणैकशेषताप्रसङ्गादिति सुदृढमवधारणीयम् ।। • अथ · क्रियमाणम्' इत्यत्र वर्तमानत्वमानशोऽर्थः, 'कृतम्' इत्यत्र चातीतत्वं निष्ठार्थः, तत्र वर्तमानत्वं विद्यमानकालवर्तित्वम् , अतीतत्वं च विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम् , विद्यमानत्वं च तत्तकृतमिति युक्तमित्याशयेनाह-कारणाभावस्यैवेति- एक्कारेण कारणाव्यवहितोत्तरसमयत्वाभावसामग्युत्तरसमयत्वाभावसामध्यभावादेः कार्याभावव्याप्यत्वस्य व्यवच्छेदः । शङ्कते- नन्विति । तत् तर्हि । तेषां कारणानाम् , पर्यायनयसामान्यविवारे अव्यवहितपूर्ववर्तित्वेन कारणत्वमुक्तं पर्यायनयविशेषर्जुसूत्रनयविचारे तु कार्यसहवृत्तितया कारणवमित्युच्यते इति कथं न पूर्वापरग्रन्थविरोधोऽर्थात् पूर्वापरग्रन्थविरोधः स्यादेवेति मुकुलितोऽर्थः । समाधत्ते- सत्यमिति- यथा भवतो. द्भावितं तथैवोक्तमस्तोत्यर्थः। एवमपि न पूर्वापरग्रन्थविरोध इत्याह-तत्रेति-पर्यायनयविचार इत्यर्थः, अविरलक्रमण क्षणिकसन्ततिसिद्धये पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणं प्रति हेतुत्वं यद् विवक्षित तत् कार्य-कारणयोः पौर्वापर्यनियमेनैवोपपत्तिपद्धतिमेतीत्यतोऽव्यवहितपूर्ववर्तितया कारणत्वं पर्यायनयवि वारे पूर्वमुक्तमित्यर्थः । अत्र तु शुद्धर्जुसूत्रनयविचारे पुनः । व्यवहारोपगृहीतं व्यवहारनयस्वीकृतम्। आदाय आश्रित्य । तत्र घटादिकार्ये । तद्धेतुत्वकल्पनात् घटादिकार्य प्रति क्रियाया हेतुत्वकल्पनात् , घटादिकार्ये घटादिकरणक्रिया घटादिकार्यसहवृत्तितया हेतुरिति यदा घटकरणक्रिया तदा घटोत्पत्तिः, येवोत्पत्तिः सेव स्थितिः, तत्कालयोरभेदात्, क्रियाऽन्यदा नास्तीति कार्यमप्यन्यदा न विद्यत इत्यतः क्षणिकत्वं सिध्यतीत्याशयेन कार्यसहवृत्तितया ऋजुसूत्रनये हेतुत्वमुच्यत इति भिन्नाभिप्रायप्रवृत्तयोः पूर्वोत्तरग्रन्थयोर्न विरोध इत्याशयः । अत एवेति- यत एव क्षणिकसन्ततिसिद्धये पूर्वक्षणानामुत्तरक्षणं प्रति कारणत्वमुपेयते तत एवेत्यर्थः । यथेति- केवलज्ञान-केबलदर्शनोपयोगयोः क्रमिकत्वेन पूर्व केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलदर्शनान्तरितक्रमिककेवलज्ञानसन्तति-केवल ज्ञानान्तरितक्रमिककेवलदर्शनसन्ततिसिद्धये केवलदर्शनावधिकक्षणेषु- केवलदर्शनात्मकक्षणेषु क्षणमात्रस्थायित्वात् केवलदर्शनस्य क्षणत्वं तथा केवलज्ञानस्यापि, क्षणानां तदात्मकत्वादेव तदवधिकत्वम् , यद्यपि केवलदर्शनमवधिरुत्तरतया यस्य क्षणस्य स केवलदर्शनावधिकः केवलदर्शनाव्यवहितपूर्वक्षणः, एवं केवलज्ञानमवधिरुत्तरतया यस्य क्षणस्य स केवलज्ञानावधिक इत्येवमप्यत्र व्युत्पत्तिः सम्भवति तथापि तथा विवक्षायां न किञ्चित् प्रयोजनम् । केवलज्ञानावधिकक्षणानां केवलज्ञानात्मकक्षणानाम् , क्षणत्वेनोत्कीर्तनं च शुद्धपर्यायत्वप्रतिपत्तये, तया च शुद्धपर्यापात्मककेवलदर्शन केवलज्ञान कार्यकारणभावचिन्तनस्थले इत्यर्थः । तत्र केवलज्ञान केवलदर्शनयोः । केवलज्ञान केवलदर्शनयोः कार्यसहवर्तितया कार्यकारणभावाभ्युपगमे यदेव केवलदर्शनं तदेव केवलज्ञानं यदेव केवलज्ञानं तदैव केवलदर्शनमित्येक क्षणमात्ररूपतापत्तौ क्रमिककेवलज्ञान-केवलदर्शनसन्तत्युच्छेदः प्रसज्यत इत्याह-सर्वक्षणानामिति ।
. ननु तत्तदर्थोपस्थित्यनुकूलव्यापारपर्यवसितप्रयोगाधारकाललक्षणवर्तमानकालवर्तिकृतिविषयत्वलक्षणक्रियमाणत्वाश्रये तत्त. दर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकालवर्तिध्वंसप्रतियोगिकाललक्षणातीतकालवृत्तिकृतिविषयत्वस्यासम्भवेन क्रियमाणं कृत. मित्यत्रान्वयस्यैवानुपपत्तिरिति शङ्कते- अथेति । तत्र वर्तमानत्वाऽतीतत्वयोर्मध्ये । लिप्यच्चारणादिसाधारणमितिइयं लिपिरतदक्षरे सङ्केतितति लिपिग्रहणे तत्तदक्षरस्मरणे तत्तदक्षरसमूहात्मकपदस्मृतितस्तत्तदर्थोपस्थितिर्भवतीत्येवं परम्परया तत्तदर्थोपस्थितिप्रयोजकत्वेन लिप्यां तत्तदर्थोपस्थित्यनुकूलव्यापारत्वम् , उच्चार्यमाणश्च शब्दो ज्ञायते, तज्ज्ञानाच्च तत्संकेतितस्यार्थस्य स्मरणमित्येवं परम्परया तत्तदर्थोपस्थितिप्रयोजकत्वेनैवोच्चारणे तत्तदर्थोपस्थित्यनुकूलव्यापारत्वमित्यस्योभयसाधा