________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पादनात् ; कृतमेव क्रिया जनयति, नाकृतमसत्वात् क्रियाजनितत्वाश्च कृतमित्यन्योऽन्याश्रय इति चेत् ? न-घटत्वादिनैव घटादिक्रियाजन्यत्वात् तत्र कृतत्वाप्रवेशादर्थादेव समाजात् कृतत्वोपपत्तेः, यदि च क्रियमाणं न कृतं तदा क्रियासमये कार्याभावात् ततः पूर्वं ततः पश्चाच कारणाभावात् तत्कार्य न भवेदेव; सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्वोपगमान्न दोष इति चेत् ? न - सामग्री समयस्यैव कार्यव्याप्यत्वापगमौचित्यात्, अन्यथा व्यवहितोत्तरकालेऽपि कार्योत्पत्तिप्रसङ्गात्, अव्यवहितोत्तरस्त्रप्रवेशे गौरवात्, द्वि- त्रिक्षणादिव्यवधानाभावनिवेशे विनिगमकाभावात् कारणाभावस्यैव कार्याभावमानस्य घटस्य निष्पन्नस्वरूपस्याकृतत्वाभावादेव कृतत्वमित्येतावतैव कृतस्य करणम्, यथा च नीलसामग्रीतो नीलस्य घटसामग्रीतो घटस्योत्पत्तौ सत्यां स घटो नीलघटोऽर्थादेव भवति, न तु नीलघटत्वस्य किश्चित्कारणनिरूपित कार्यतावच्छेदकत्वं तथा घटक्रियातो जायमानस्य घटस्य सत्त्वादेव नाकृतत्वमित्यकृतत्वाभावादेव कृतत्वम् कृतत्वं हि निष्पन्नक्रियखरूपत्वम्, तत्र निष्पन्नतांश - क्रियांशयोर्यज्जनकं तत एव तद् भवतीत्यर्थसमाजात् तदुत्पत्तिरिति समाधत्ते - नेति । तत्र क्रियाजन्यतावच्छेदककोटौ यदि च क्रियमाणस्य कृतत्वं नोपेयते तदा यदा क्रियाकाले कार्यमनिष्पन्नमेवमास्थेयमन्यथा.. निष्पन्नस्य तस्य कृतत्वं स्यादिति क्रियमाणस्य तदानीं कार्यस्य कृतत्वमिति स्वस्तितमेवेति विवादपर्यवसानम्, अनिष्पन्नत्वे चानिष्पन्नं च वस्तु न स्वस्वरूपतामचतीति क्रियासमये कार्याभाव:, क्रियासमयात् पूर्वं च क्रियारूपकारणस्यैवा भावः एवं क्रियासमयात् पश्चादपि कारणस्याभाव इति कदापि तत् कार्यं न स्यादतः क्रियमाणस्य कृतत्वं स्वीकर्तव्यमित्याह- यदि चेति । ततः क्रियासमयात् एवमग्रेऽपि । यदा स्त्रोत्तर समयत्वसम्बन्धेन सामग्री तदा कालिकसम्बन्धेन कार्योत्पत्तिरित्येवं सामग्री कार्योत्पत्योर्व्याप्यव्यापकभावस्याङ्गीकारात् सामभ्यव्यवहितोत्तरसमये कार्योत्पत्तौ न कश्चिद् दोषं इति शङ्कते - सामग्र्या इति । तदुत्तरेति - सामप्युत्तरेत्यर्थः । यदा सामग्री तदा कार्यमित्येव तयोर्व्याप्यव्यापकभावो न तु सामयुतर समयत्वस्य कार्यव्याप्यत्वमिति सामग्रीसमय एव कार्य न तु सामप्युत्तरसमय इति समाधतेनेति । अन्यथा सामभ्युत्तरसमयत्वस्य कार्यव्याप्यत्वाभ्युपगमे । व्यवहितोत्तरकालेऽपि सामग्रीव्यवहितोत्तरकालेऽपि अपिना सामप्यव्यवहितोत्तरकालस्योपग्रहः, सामप्युत्तरकालत्वस्य सामग्रीव्यवहितोत्तरसमये सामप्यव्यवहितोत्तरसमये च सत्त्वेन तदुभयत्र कार्योत्पत्तौ सत्यामेव सामम्युत्तरत्वस्य कार्यव्याप्यत्वं सम्भवति, अन्यथा व्यभिचारेण सामप्युत्तरत्वस्य कार्यव्याप्यत्वमेव न भवेदिति सामप्युत्तरसमयमात्र एवं कार्यजनिः स्यादित्यर्थः । ननु यदा स्वाव्यवहितोत्तरत्वसम्बन्धेन सामग्री सामग्र्यव्यवहितोत्तरसमयत्वं वा तदा कार्यमित्येवं व्याप्तेरुपगमात् सामप्यव्यवहितोत्तरसमय एवं कार्यं न सामग्रीव्यवहितो - तरसमय इत्यत आह- अव्यवहितोत्तरत्वप्रवेशे गौरवादिति- प्रकारविधया व्याप्यकोटौ व्याप्यतावच्छेदकसंसर्ग को टौ वाऽव्यवहितोत्तरत्वप्रवेशे गौरवप्रसङ्गादित्यर्थः । कि, सामम्यनन्तरं द्विक्षणव्यवधाने यदि कार्य जायते तदा तत्र द्विक्षण • व्यवधाने ऽप्यव्यवहितत्वसम्पत्तये त्रिक्षणादिव्यवधानाभावो निवेश्यः यद्येकक्षणव्यवधान एव कार्यमुत्पद्यते तदा द्विक्षणादिव्यवधानाभावो निवेश्यः, एवं त्रिक्षणव्यवधानेऽपि यदि कार्य जायते तदा चतुःक्षणादिव्यवधानाभावो निवेश्यः, न च सामग्रीक्षणभिन्नक्षणे कार्योत्पादे सामप्युत्तरद्वितीयक्षण एवं सामप्युत्तरतृतीयक्षण एव कार्य जायत इत्यायुपगमे विनिगमकं किञ्चिदिति विनिगमकाभावात् सर्वस्यापि द्वि- त्रिक्षणा दिव्यवधानादेरभावस्य निवेशेऽपि गौरवं सामध्य व्यवहितोत्तर समयस्वस्य कार्यव्याप्यत्वपक्षे इत्याह- द्वि-त्रिक्षणादीति । पर्यायनये एकं कुर्वदूपात्मकं तत्कार्यकारणं यदा तदा कुद्वपात्मकं तत्कार्यकारणान्तरमप्यवश्यमेव समस्तीति कारणे सत्यवश्यमेव कार्यमिति सामय्याः कार्यव्याप्यत्वकल्पनापेक्षया कारणस्यैव कार्यव्याप्यत्वं लाघवात्, तत्रापि यदा कारणं तदा कार्यमित्येव व्याप्तिर्न तु कारणोत्तरसमये कार्यनिति तथा च कारण समय एव कार्यम्, यथा च कारणे सत्यवश्यं कार्यमिति नियमः तथा कारणाभावे सत्यवश्यं कार्याभाव इत्यपि नियम एव, कारणस्य कार्य समव्याप्यत्वेन कारणाभावस्यापि कार्याभावसमव्याप्यत्वम् तेन कारणस्य कार्यव्याप्यत्वे कारणाभावस्य ब्याप्याभावरूपत्वेन कार्यरूपव्यापकाभावस्य व्यापकत्वमेव, तथा च व्यापकस्य तस्य सत्त्वेऽपि नावश्यं व्याप्यस्य कार्याभावस्य सत्वमित्युकेर्ना विकाशः, इत्थं च कारणाभावस्य कारणोत्तरकाले सवेन तदानी कार्याभावस्यैव सत्त्वं न कार्यस्येति कार्य-कारणयोरेककालत्वमेवेति क्रियारूपकारणकाले नियमेन कार्यस्य सत्त्वान्निष्पन्नत्वमपि तस्येत्यतः कृतत्वमपीति क्रियमाणं
१६३