________________
१६२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलहतो मयोपदेशः ।
सदापि तदुत्पत्तिप्रसङ्गोऽसत्त्वे च कार्याव्यवहितपूर्ववृत्तित्वाभावेनाकारणत्वाऽऽपत्तिरिति वाच्यम् , कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपायाः कारणतायाः कार्यसहवृत्तितानियमात् , अत एव 'कुर्वदूपत्वमप्रामाणिकं बीजत्वादिना साङ्कर्याजातिरूपतदसिद्धेः' इति निरस्तम् । अथैवं चक्रभ्रमणाद्युपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटः १ यदि क्रियमाणः कृत एवेति चेत् ? न-घटजननव्यापाररूपायाः क्रियाया दीर्घकालत्वासिद्धेः, चरमसमय एव तदभ्युपगमात् , घटगतामिलाषोत्कर्षवशादेव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां घटं करोमीति व्यवहारात् , तदुक्तं महाभाष्यकृता"पइसमयकज्जकोडी-निरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकोडि थूलमइ! घडं मिलाएसि"॥
-[विशेषावश्यकभाष्यगाथा-२३१८ ] इति, कृतस्यैव करणे क्रियावैफल्यमित्यपि न रमणीयम्, क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपघटोत्पत्तिप्राक्कालेऽसत्वे पुनः। अकारणत्वापत्तिः तत्कार्याव्यवहितपूर्वकालवृत्तित्वमेव तत्कार्य प्रति कारणत्वमिति तस्याः क्रियाया घटोत्पत्त्यव्यवहितपूर्वकालवृत्तित्वाभावात् घटं प्रति कारणत्वं न स्यादित्यर्थः । प्रतिक्षेपहेतुमुपदर्शयति-कार्यव्याप्यतेति-- कारणस्य यत् कार्यव्याप्यत्वं यदा कारणं तदा कार्यम् ' इत्येवं प्रतीयमानं तच्च दण्डत्वादिना दण्डादेर्न सम्भवति दण्डत्वादिना दण्डादेः सत्त्वेऽपि घटादेरसत्वात् , किन्तु घटादिकुर्वदूपत्वात्मकपरिणामविशेषरूपेण, घटादिकुर्वद्रप. त्वात्मक परिणामविशेषविशिष्टदण्डादेर्यदा सत्त्वं तदानीं घटादेः सत्त्वस्यावश्यम्भावादिति तथाभूतव्याप्यत्वस्यावच्छेदको यः कुर्वद्रूपत्वात्मकः परिणामविशेषस्तद्रूपाया दण्डादिगतकारणताया घटादिकार्यसमकालवृत्तित्वस्यश्यम्भावान्न तथाभूतकारणतालक्षणकारणसूक्ष्मक्रियाया घटाद्युत्पत्तेः प्राक् पश्चाच्च सत्त्वमतो नोत्पत्तेः प्राक् पश्चाच्च घटाद्युत्पत्तिप्रसङ्गो नवा पूर्ववर्तित्वा. भावेऽप्यकारणत्वस्य प्रसङ्गः, तत्कार्यकाले तथाभूतपरिणाम सद्भावत एव कारणत्वस्य सम्भवादित्यर्थः। 'अत एव' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः, अत एव कुर्वद्रूपत्वात्मकपरिणामविशेषरूपकारणतायाः कार्यसहवृत्तित्वनियमादेव । साङ्कर्यादिति- बीजत्वाद्यभाववति मृदादिलक्षणकारणे कुर्वद्रूपत्वं कुर्वपत्वाद्यभाववति बीजादावकुर्वद्रूपत्वमित्येवं परस्परात्यन्ताभावसमानाधिकरणयोस्तयोः कुर्वपात्मके बीजादौ सामानाधिकरण न साङ्कर्यादित्यर्थः । तदसिद्धेः कुर्वदूपत्वासिद्धेः, जातिरूपतया कुर्वद्रूपत्वस्यानभ्युपगमादेव तद्रूपतया तदसिद्धिर्न दोषाय, कारणत्वग्राहकप्रमाणेन विषयीकरणादेव नाप्रामाणिकत्वं तस्येत्याशयः । नन्वाद्यचक्रभ्रमणादिक्रियाया आरभ्य चरमसमयकालीनघटजननानुकूलक्रियापर्यन्तं प्रतिसमयं घटजननं भवति क्रियमाणं कृतम्' इति पक्षे, तथा च चक्रभ्रमणप्रथमसमयादारभ्य चरमसमयपर्यन्तमभिव्याप्य यो घटजननव्यापारलक्षणदीर्घक्रियाकालस्तस्मिन् प्रथमसमयावच्छेदेनापि क्रियमाणो घटः कृत एवेति निष्पन्नखरूपस्य तस्य दर्शनं कुतो न स्यादित्याशङ्कते- अथैवमिति । घटजननव्यापारलक्षणा घटोत्पत्तिक्रिया चरमसमय एव, न प्रथमचक्रभ्रमणादिसमये, तदानीं मृन्मर्दनाद्यान्तरालिककार्यमेव क्रियते, 'घटो मे भवतु' इति योऽयं घटकर्तुरुत्कृष्टघटाभिलाषस्तदशादेव चरमसमयातिरिक्त. समयेऽपि 'घटं करोमि ' इति व्यवहारो भवति, न तु वस्तुगत्या तदानीं घटकरणमिति घटाभावादेव न तदानीं घटो दृश्यत इति समाधत्ते-नेति। तदभ्युपगमात् घटजननव्यापाररूपक्रियाऽभ्युपगमात् । उक्काथें महाभाष्यसंवादमाहतदुक्तमिति । पइसमय० इति - " प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकोटिं स्थूलमते । घटं लगयसि" ॥ इति संस्कृतम् । ननु घटादिक्रिया कृतमेव घटं करोति नाकृतम्, तथा च कृतं सिद्धमेव तत्करणेन नापूर्व किञ्चिन्निष्पद्यत इति तत्र न क्रिया साफल्यमञ्चतीत्याशङ्का प्रतिक्षिपति-कृतस्यैवेति । क्रियया यदा घटस्य निष्ठा भवति तदेव घटः कृत इत्युच्यते नान्यथेति कृतत्वसम्पादकतया क्रियायाः साफल्यं भवत्येवेति प्रतिक्षेपहेतुमुपदर्शयतिक्रिययवेति- एवकारेण क्रियातिरिक्तस्य निष्ठाजनकत्वव्यवच्छेदः । ननु यद्यकृतं क्रिया न जनयति किन्तु कृतमेव, यतः अकृतस्यासत्त्वेन करणव्यापारविषयत्वासम्भवात् , तॉन्योऽन्याश्रयोऽत्रोपतिष्ठते-क्रियाजनितत्वात् कृतत्वं समद्यते, कृतत्वाच्च क्रियाजनितत्वमित्याशङ्कते-कृतमेवेति । नाकृतम् अकृतं क्रिया न जनयति, असत्त्वात् अकृतस्य स्वरूपत एवासत्त्वेन क्रियाजनितत्वाभावात् । कृतत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वं नाभ्युपगम्यते, किन्तु घटत्वाद्यवच्छिन्नं प्रति घटादि. क्रियात्वेन कारणत्वमित्येवोपेयत इति क्रियाजन्यतावच्छेदककोटौ कृतत्वस्याप्रवेशानोक्तदिशाऽन्योऽन्याश्रयः, क्रियातो जाय