________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिग्यां समलङ्कतो नयोपदेशः।
१६१
• नयामृत-पलालमिति । अत्र दहनादिक्रियाकाल एव तन्निष्ठाकाल इति दह्यमानादेर्दग्धत्वाद्य. व्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात् 'पलालं न दहत्यग्निः' इत्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते, विधिमुखस्तु व्यवहारोऽत्र · अपलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यति' इत्येवमाकार एव द्रष्टव्यः, अत एव-" सो समणो पवइओ" [ ] इति (सूत्रमपि सङ्गच्छते । नन्वेत )न्नये कृतकरणापरिसमाप्तिः, सिद्धस्यापि साधने करणव्यापारानुपरमादिति चेत् ? न-कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः; न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वं तादृशानामेव तेषां कचित् घटोत्पत्त्यनन्तरमपि सम्भवे तदा तदुत्पत्तिप्रसङ्ग इति वाच्यम् , तत्सत्त्वेऽपि सूक्ष्म क्रियाविगमकल्पनात् ; न च तरिक्रयाया घटोत्पत्तेः प्राक् सत्त्वे रूपयोः क्रिया-निष्ठयोः । अत्रार्थे ऋजुसूत्राभिमतान्तराभिहितविषये। अन्यत् स्पष्टम् ॥ ३०॥
उक्तार्थसंवादकपरवचनं विवृणोति-पलालमितीति । अत्र ऋजुसूत्रनथे । दहनादिक्रियाकाल एव दहनादिसाध्यावस्थाकाल एव । तन्निष्ठाकालः दहनादिसिद्धावस्थाकालः। ननु दहनादेरुत्पद्यमानावस्थारूपदहनादिसाध्यावस्थाकाले 'दह्यते' इति प्रत्ययात् तदानीं वस्तुनो दह्यमानत्वम् , दहनादेर्निष्पन्नतावस्थारूपदहनादिसिद्धावस्थाकाले ‘दग्धः' इति प्रत्ययात् तदानीं वस्तुनो दग्धत्वमित्येवं तयोभैदे जाग्रति सति कथमैक्यावधारणं न्याय मित्यत आह-दह्यमानादेरिति-तथा चैतन्मते यदा 'दह्यते' इति प्रत्ययस्तदैव 'दग्धः' इत्यपि प्रत्यय इति यदा दह्यमानत्वं तदानीं दग्धत्वमपि समस्त्ये. वेति । यो हि दह्यमानाद्यवस्थस्तेनैव समं दहनादिक्रियाऽन्वेति, स च पलालादिखरूपतोऽन्य एव संवृत्त इति तेनान्वीय. माना दहनादिक्रिया न पलालादिनाऽन्वेतुमुत्सहते, यदाऽविचलपलालादिस्वरूपं तदा विक्रियाविशेषखरूपलक्षणा न दहनादि. क्रिया, यदा च सा न तदानीमविचलितपलालादिवरूपमित्येवं तयोभिन्न कालत्वेनान्वयस्यायोग्यत्वात् 'पलालंन दहत्यमिः' इत्यादयो निषेधमुखा एव व्यवहारा ऋजुसूत्रनये युज्यन्ते, न तु 'पलालं दहत्यग्निः' इत्यादयो विधिमुखा व्यवहारा इत्याह-तदवस्थेति- दह्यमानायवस्थेत्यर्थः। तत् किं विधिमुखा व्यवहारा न भवन्त्येवास्मिम् नये. भवन्ति यदि तर्हि कीदृशास्त इत्यपेक्षायामाह-विधिमुखस्त्विति । अत्र ऋजुसूत्रनये । 'संयत: प्रव्रजति' इत्येवं विधिमुखे व्यवहारे सूत्रखारस्यं दर्शयति- अत एवेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः। सो० इति- “स श्रमणः प्रव्रजितः" इति संस्कृतम् । क्रियाकाल-निष्ठाकालयोरभेददाथि परकीयाशङ्कां प्रतिक्षेप्तमुत्थापयति- नन्विति । एतन्नये क्रिया-निष्ठा. कालाभेदाभ्युपगन्तृनये । कृतकरणापरिसमाप्तिरिति-क्रियमागस्य कृतत्वाव्यभिचारार्थ यस्मिन् क्षणे यद् वस्तु क्रियते तस्य तदानीं कृतत्वमभ्युपेयम्, एवं च कृतस्य करणं खहस्तितमेव, तथा च करणव्यापारानन्तरं निष्पन्नस्यापि वस्तुनः क्रियमाणत्वस्योपपत्तये पुनरपि करणं तस्योपेयम् , तदानीमपि च कृतं तत् क्रियमाणमिति पुनरपि करणमास्थेयमित्येवं दिशाऽनवस्थानं स्यादित्यर्थः। अत्रैव हेतुमाह-सिद्धस्यापीति । साधने उत्पादने। समाधत्ते-नेति । क्रियोपरमेण करणव्यापारोपरमेण, यदर्थ करणस्य व्यापारस्तस्य निष्पत्तौ सत्यां तस्य स्वयमेवोपरम इत्यभीष्टे कार्ये उत्पन्ने सति करणपापारः खयमुपरत इति तद्रूपकारणाभावान्न कृतस्य करणमित्याशयः । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः। यादृशेति- चक्रभ्रमणादिलक्षणेत्यर्थः । पूर्व घटोत्पत्तितः प्राकाले। तादृशानामेव तादृशव्यापारवतामेव । तेषां दण्डादीनाम् । तदा घटोत्पत्त्यनन्तरक्षणे । तदुत्पत्तिप्रसङ्गः उत्पन्नस्यैव घटस्य पुनरुत्पत्तिप्रसङ्गः। निषेधहेतुमाहतत्सत्वेऽपीति-घटोत्पत्त्यनुकूलव्यापारवतां दण्डादीनां सत्त्वेऽपीत्यर्थः । सूक्ष्मक्रियेति- यादृशक्रियया दण्डादिव्यापारभावमापन्नयाऽवश्य घटाद्युत्पत्तिः सैव सूक्ष्मक्रियाशब्देनात्राभिप्रेता, तास्तदानीं विगमादेव न घटाद्युत्पत्तिप्रसङ्ग इत्यर्थः । ननु घटोत्पत्त्यनुकूला या सूक्ष्मक्रिया कल्प्यते सा यदि घटोत्पत्तेः प्राक्क्षणे वर्तते तदा तस्या घटोत्पत्तिव्याप्यायाः सद्भावतो घटोत्पत्तेरपि तदानीं सद्भावप्रसङ्गः, अथ सा घटोत्पत्तिप्राक्क्षणे न वर्तते तदा घटोत्पत्तिकारणत्वमेव तस्या न स्यादित्याशक्य प्रतिक्षिपति-न चेति- अस्य ' वाच्यम्' इत्यनेनान्वयः । तक्रियायाः घटोत्पत्तिनियतायाः सूक्ष्मक्रियायाः । ताऽपि घटोत्पत्तिप्राक्कालेऽपि । तत्सत्वप्रसङ्गः घटोत्पत्तिसत्त्वप्रसङ्गः। असत्वे च तस्याः सूक्ष्मक्रियाया
२१