________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः।
१६७
विशिष्य विश्रान्तिरिति चेत् ? न-अन्ततो धातुपदत्वादिनापि तदनुगमस्य कर्तुं शक्यत्वात् , अथान्यत्राऽप्येकपदोपात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव प्रत्ययार्थकालान्वयो व्युत्पत्तिवैचित्र्यात्, न च पचत्यपि भाविकृतिप्रागभावमाद्यकृतिध्वंसं चादाय • पक्ष्यति, अपाक्षीत्' इति प्रयोगप्रसङ्ग इति वाच्यम् , आद्यकृतिप्रागभाव-चरमकृतिध्वंसयोर्भविष्यदतीतप्रत्ययार्थत्वादिति नोक्तदोष इति चेत् ? न-'जानाति'इत्यादौ धात्वर्थ एव प्रत्ययार्थकालान्वयदर्शनात् । अस्तु वा, तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयोऽयोग्यत्वात् , परपम्परासम्बधेन तत्र तदन्वयोपपत्तिरिति चेत् ? न-विद्यमानघटे इति नियमस्य सामान्यतः सम्भवेन तद्भङ्गप्रसङ्गः कृत्प्रत्ययार्थवर्तमानत्वा-ऽतीतत्वयोः कृत्प्रत्ययार्थोत्पत्तावन्वयस्योपगमे स्यादेवेत्यर्थः। ननु क्रियमाणं कृतमित्यत्र कृतिर्धात्वर्थ एवेति तत्रानश-निष्ठाप्रत्ययार्थवर्तमानत्वा-ऽतीतत्वयोरन्वयः, अन्यत्र तु कृतिः प्रत्ययार्थ इति प्रत्ययार्थ एव तत्र प्रत्ययार्थवर्तमानत्वाऽतीतत्वयोरन्वयः, एकप्रत्ययोपस्थाप्ययोरपि कृतिकालयोरन्वयोऽनुभवानुरोधादुपगम्यते, तथा च यत्र धात्वर्थः कृतिस्तत्र धात्वर्थ एव प्रत्ययार्थकालान्वयः, यत्र तु प्रत्ययार्थः कृतिस्तत्र प्रत्ययार्थे प्रत्ययार्थकालान्वय इति व्युत्पत्तिवैचित्र्याभ्युपगमे न कश्चिद् दोष इति शङ्कते- अथेति । अन्यत्रापि कृत्यर्थकधानुव्यतिरिक्तधातुस्थलेऽपि । ननु कृत्यर्थकधातुस्थले धात्वर्थे प्रत्ययार्थकालान्वये निर्णीते तदन्यधातुस्थलेऽपि धात्वर्थ एव प्रत्ययार्थ कालान्वयः समुचितः, एकत्र निर्णीतः शास्त्रार्थोऽन्यत्रापीति न्यायादिति न प्रत्ययार्थे प्रत्ययार्थंकालान्वय इत्यत आह- एकपदोपात्तत्वप्रत्यासत्येति- सन्निकृष्टेऽन्तरङ्गेऽन्वये सम्भवति विप्रकृष्ट बहिरङ्गे नान्वय इत्यपि नियम इति प्रत्ययार्थः कृतिः कालश्च यत्र तत्र धात्वर्थे एकपदोपात्तत्वलक्षणप्रत्यासत्तिविकलत्वाद् बहिरङ्गः, प्रत्ययार्थे चोक्तप्रत्यासत्तिसमन्वितत्वादन्तरङ्ग इति तत्रैव प्रत्ययार्थकालादेरन्वयः, यत्र तूकप्रत्यासत्तिशालिनि नान्वयः सम्भवति तत्र विप्रकृष्टेऽपि पदान्तरोपस्थापितार्थे पदान्तरोपस्थापितार्थस्यान्वयः स्वीक्रियत एवेत्येवं व्युत्पत्तिवैचित्र्याश्रयणे न कश्चिद् दोषः, दृश्यते चैवकारात्मकैकपदोपस्थापितयोरप्यन्ययो-र्व्यवच्छेद योरन्वय इति तथा कल्पना नादृष्टचरीत्याशयः । ननु यद्यन्यत्रैकपदोपात्तत्वप्रत्यासत्तिबलात् प्रत्ययार्थ एव कृतौ प्रत्ययार्थवर्तमानत्वादेरन्वयस्तदा पाकानुकूलवर्तमानकृतिमत्यपि देवदत्तादावुत्तरकाले पाककृतिर्भविष्यतीति ‘पक्ष्यति देवदत्तः' इति प्रयोगः स्यात् , पाकानुकूलायाः प्रयोगाधारकालवृत्तिप्रागभावप्रतियोगित्वलक्षणभविष्यत्त्ववत्याः कृतेवदत्ते भावात् , एवं तत्र पूर्वकाले पाकानुकूला कृतिरासीदपीति 'अपाक्षीद् देवदत्तः' इत्यपि प्रयोगः स्यात्, पाकानुकूलायाः प्रयोगाधारकालवृत्तिध्वंसप्रतियोगित्वलक्षणातीतत्ववत्याः कृतेरपि भावादिति प्रत्ययाथै कृतौ प्रत्ययार्थकालान्वयो न युक्त इत्याशङ्कामुद्भाव्य प्रश्नयिता प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । निषेधे हेतुमाह-आद्यकृतीति- तत्पाकानुकूलकृतिध्वंसाधिकरणक्षणावृत्तित्वं तत्पाकानुकूलकृतावाद्यत्वम् , तत्साक नुकूलकृतिप्रागभावानधिकरणक्षणवृत्तित्वं तत्र चरमत्वं बोध्यम्, तथा च पचति देवदत्ते तदानीं 'पक्ष्यति देवदत्तः' इति न प्रयोगः, तादृशप्रयोगकालवृत्तित्वस्याद्यकृतिप्रागभावेऽभावात् , एवं तदानीम् 'अपाक्षीद् देवदत्तः' इत्यपि न प्रयोगः, तादृशप्रयोगकाले चरमकृतिध्वंसस्याभावादिति । समाधत्ते-नेति- यदभिमतं प्रश्नकर्तुः कृत्यर्थकधातुव्यतिरिक्तधातुस्थले प्रत्ययार्थकृती प्रत्ययार्थकालान्वय इति तन्न समीचीनम् , जानातीत्यत्र ज्ञाधातुः कृत्यर्थको न, किन्तु ज्ञानार्थक एव, तथा च कृत्यर्थकधातुव्यतिरिक्तधातुः स भवति न च तत्र धातूत्तरप्रत्ययस्याख्यातस्य कृतिरों येन तत्र प्रत्ययार्थकालस्यान्वयः सम्भाव्येतापि, आख्यातस्य तत्र कृत्यर्थत्वमभ्युपेत्याख्यातार्थे कृतौ वर्तमानत्वस्याख्यातार्थस्यान्वय इति न च कल्पयितुं शक्यम् , तथा सति तदानीं घटज्ञानविरहिण्यपि देवदत्ते घटज्ञानार्थ यतमाने देवदत्तो घटं जानातीति प्रयोगः स्याद् घटविषयकज्ञानानुकूलवर्तमानकालीनयत्नवत्त्वस्य देवदत्ते सद्भावादित्यगत्या धात्वर्थ एव ज्ञाने प्रत्ययार्थकालान्वय इति कृत्यादिस्वार्थ एव प्रत्ययार्थकालान्वय इति नियमो भग्न एवेत्यर्थः । यदि च कथमपि व्युत्पत्तिवैचित्र्याद् 'नष्टो घटः, नश्यन् घटः' इत्यादौ प्रत्ययार्थोत्पत्तावेव प्रत्ययार्थकालस्यान्वय उपेयते, एवमप्यतीताया वर्तमानाया वा नाशोत्पत्तघटेऽन्वयोऽयोग्यत्वान सम्भवतीति तादृशप्रयोगानुपपत्तिः स्यादित्याह- अस्तु वेति । कथमित्याक्षेपे, न कथञ्चिदित्यर्थः । ननु नाशोत्पत्तिः स्वाश्रयनाशप्रतियोगित्वलक्षणपरम्परासम्बन्धेन घटेऽन्वेतुमर्हत्येवेत्याशङ्कते-परम्परासम्बन्धेनेति-स्वाश्रयप्रतियोगित्वसम्बन्धेनेत्यर्थः। तत्र घटे । तदन्वयोवपत्तिः नाशोत्पत्त्यन्वयसम्भवः । प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमस्वमिति नजसमभि-.