________________
१६८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
'न नष्टो घटः' इति प्रयोगानापत्तेः, वृत्त्यनियामकस्य सम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वात् ; उत्पत्तेर्धात्वर्थे तस्य च प्रातिपदिकार्थेऽन्वयान्न दोष इति चेत् ? न-नामार्थ-धात्वर्थयोः साक्षाद्भेदसम्बन्धेनान्वयायोगात्, अन्यथा 'तण्डुलं पचति' इत्यत्रापि कर्मत्व संसर्गेण प्रातिपदिकार्थस्य धात्वर्थेऽन्वयप्रसङ्गात् ; अभेदेन निपातान्यनामार्थप्रकारकबोधे समान( विशेष्यत्वप्रत्यासत्या निपातप्रत्ययान्यतरजन्योपस्थितेहेतुत्वात् , नामार्थप्रकारकधात्वर्थ )विशेष्यकबोधासम्भवेऽपि धात्वर्थप्रकारकनामार्थविशेष्यकबोधः प्रकृतेऽनपाय एवेति चेत् ? न- 'चैत्रः पाकः' इत्यादौ कर्तृत्वादिसंसर्गेण पाकादेश्चैत्रादावन्वयाबोधाय धात्वर्थप्रकारकबोधेऽपि निपात-प्रत्ययान्यतरजन्योपस्थितेहेतुत्वान्तरकल्पनावश्यकत्वात् । व्याहृतयादृशवाक्याद् येन सम्बन्धेन यद्वत्त्वं यत्र प्रतीयते नसमभिव्याहृततादृशव क्यात् तत्सम्बन्धावच्छिन्नतनिष्ठप्रतियोगिताकाभाववत्त्वं तत्र प्रतीयत इति नियमेन ‘नष्टो घटः' इत्यत्र स्वाश्रयप्रतियोगित्वसम्बन्धेनातीतनाशोत्सत्तेघटेऽन्वयाभ्युपगमे 'न नष्टोः घट' इत्यत्र स्वाश्रय प्रतियोगित्वसम्बन्धावच्छिन्नातीतनाशोत्पत्तिनिष्ठप्रतियोगिताकाभाववान् घट इत्येवमेवान्वयबोधस्योपगन्तव्यत्वेन वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वपक्षे स्वाश्रयप्रतियोगित्वस्य वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धया तद्वत्त्वबोधनासम्भवेन विद्यमानघटे 'न नष्टो घटः' इति प्रयोगो नोपपद्यतेति समाधत्ते-नेति । ननु 'नष्टो घटः' इत्यत्रातीतोत्पत्तिमन्नाशप्रतियोगी घट इत्येवमन्वयबोधो भवति, स च प्रत्ययार्थातीतकालान्वितप्रत्ययार्थोत्पत्तेर्नशधात्वर्थे नाशे तस्य च प्रतियोगितया प्रातिपदिकार्थे घटेऽन्वयस्योपगमादुपपादयितुं शक्य इत्याशङ्कतेउत्पत्तेरिति । तस्य च धात्वर्थस्य पुनः । नामार्थ-धात्वर्थयोः साक्षादभेदातिरिक्तसम्बन्धेन नान्वय इति नियमाद् धात्वर्थस्य नाशस्य प्रतियोगित्वलक्षणाभेदातिरिक्तसम्बन्धेन नामार्थे घटेऽन्वयासम्भवादिति समाधत्ते-नेति । 'तण्डुलं पचति देवदत्तः' इत्यत्र धात्वर्थस्य पाकस्य प्रत्ययार्थकृतिद्वारा स्वानुकूलकृतिमत्त्वरूपपरम्परासम्बन्धेन नामार्थे देवदत्तेऽन्वयात् साक्षादिति । स्तोकं पचतीत्यत्र स्तोकरूपनामार्थस्य साक्षादेवाभेदसम्बन्धेन धात्वर्थे पाकेऽन्वयाद् भेदसम्बन्धेनेति- अस्याभेदातिरिक्त सम्बन्धेनेत्यर्थः । अन्यथा नामार्थ-धात्वर्थयोः साक्षाद्भेदसम्बन्धस्योपगमे । प्रातिपदिकार्थस्य द्वितीयाविभक्तिप्रकृतितण्डुलरूपनामार्थस्य । धात्वर्थ पच्धात्वर्थे पाके । ननु नामार्थस्य तण्डुलस्य कर्मत्वसंसर्गेण धात्वर्थे पाकेऽन्वयो न भवतीत्येतदर्थ विशेष्यतासम्बन्धेन भेदसम्बन्धावच्छिन्ननिपातान्यनामार्थनिष्टप्रकारताकशाब्दबोधं प्रति विशेष्यतासम्बन्धेन निपातप्रत्ययान्यतरजन्योपस्थितिः कारणमित्येव कल्प्यते, ‘नष्टो घटः' इत्यत्र तु न नामार्थप्रकारकधात्वर्थविशेष्यकशाब्दबोधः, किन्तु धात्वर्थनाशप्रकारकनामार्थघटविशेष्यकशाब्दबोध एव, तस्य च निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वान्निरुक्तकारणाभावेऽपि नानुपपत्तिरिति शङ्कते- अथेति । 'अभेदेन' इति स्थाने 'अथ अभेदेन' इति पाठो युक्तः । 'घटः पटो न' इत्यत्र नपनामाथभेदस्य स्वरूपसम्बन्धेन घटेऽन्वयात् स्वरूपसम्बन्धावच्छिन्ननपनामार्थभेदनिष्ठप्रकारताकबोधस्य विशेष्यतासम्बन्धेन घटरूपनामार्थे उत्पादात् तत्र निपातप्रत्ययान्यतरजन्योपस्थितेर्विशेष्यतासम्बन्धेनाभावाद् व्यभिचार इति तद्वारणाय निपातान्येति-नाम्नो विशेषणम् , तथा चोक्तभेदप्रकारकबोधस्य कार्यतावच्छेदकानाक्रान्तत्वान्न व्यभिचारः, 'घटो न' इत्यादौ निपातजन्योपस्थितेः 'घटम् ' इत्यादौ प्रत्ययजन्योपस्थितेः सत्त्वान्न व्यभिचार इत्येतदर्थ कारणकोटौ निपातप्रत्ययान्यतरत्वेन निपातप्रत्यययोरुपादानम् । प्रकृते 'नष्टो घट:' इत्यादौ । चैत्रः पचतीत्यादौ चैत्ररूपनामार्थस्य स्वकर्तृकत्वसम्बन्धन पाकरूपधात्वर्थेऽन्वयस्य विशेष्यतासम्बन्धेन भेदसम्बन्धेन नामार्थप्रकारकबोधे विशेष्यतासम्बन्धेन निपातप्रत्ययजन्योपस्थितेः कारणत्वकल्पनेन वारणेऽपि कर्तृत्वसम्बन्धेन पाकप्रकारकबोधस्य निरुक्त कार्यतावच्छेदकधर्मानाकान्तस्य विशेष्यतासम्बन्धेन चैत्ररूपनामार्थे उत्पत्तेर्वारणाय भेदसम्बन्धेन धात्वर्थप्रकारकबोधं प्रत्यपि समानविशेष्यत्वप्रत्यासत्त्या निपात-प्रत्ययान्यतरजन्योपस्थितेहेतुत्वं स्वीकरणीयमेव, तथा च 'नष्टो घटः' इत्यादौ नश्धात्वर्थस्य नाशस्य प्रतियोगितासम्बन्धेन घटरूपनामार्थेऽन्वयो न सम्भवतीति समाधत्ते-नेति । 'चैत्रः पाक इत्यादी' इत्यस्य स्थाने "चैत्रः पचतीत्यादौ" इति पाठो युक्तः । धात्वर्थप्रकारकबोधेऽपि विशेष्यतासम्बन्धेन धात्वर्थप्रकारकबोधेऽपि । ननु 'नष्टो घटः' इत्यादौ नशधातो शप्रतियोगिनि लक्षणा, लक्ष्यार्थस्य च नाशप्रतियोगिनोऽभेदसम्बन्धेन घटरूपनामार्थेऽन्वयः, यद्यपि ‘पदार्थः पदार्थेनान्वेति, न तु पदाथैकदेशेन ' इति व्युत्पत्ते शप्रतियोगिरूपपदार्थकदेशे नाशे कृत्प्रत्ययार्थस्योत्पत्तेनान्वयः सम्भवति, तथाऽपि क्वचित् पदार्थकदेशेऽपि पदार्थान्वयः स्वी