SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २४६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां स गोपदेशः। प्रेक्षावदुपकारितयैवादौ निश्चयनयोपन्यासोऽस्माकं फलवान् भविष्यतीत्याशङ्कायामाह उन्मार्गकारणं पापा परस्थाने हि देशना । बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् ॥ ८१ ॥ नयामृत०-उन्मार्गेति । परस्थाने-स्वाधिकारिभिन्नाधिकारिणि निमित्ते, हि-निश्चितम् , देशना उन्मार्गकारणमिति हेतोः पापा, न खल्वपरिणतव्यवहारेषु मलिनवस्त्रेषु कुङ्कुमरागाधानवनिश्चय. नयदेशना शोभामावहति, न च बालादेमध्ये अन्ययोग्यं वचोऽन्यस्य भेषजवद्धितं किन्त्वनर्थकारि, तस्मादादौ निश्चयोबाहो नग्नानामनर्थावह एव, तदिदमुक्तं षोडशकप्रकरणे" बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनापि हि कर्तव्या तदनुसारेण ॥१॥ यद्भाषितं मुनीन्द्रः पापा खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥२॥ हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् । सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥३॥ एतद्विज्ञायैवं यथा शुद्धभावसम्पन्नः । विधिवदिह यः प्रयुत करोत्यसौ नियमतो बोधिम् ॥४॥"८१॥ नन्वनादिकालीनव्यवहारवासनाजनितमात्मशरीराभेदभ्रममुन्मूलयितुं प्रवृत्तेः, अस्मच्छाने आदी भिज्ञानाभिज्ञप्राणिनां हितावहः। इति एतस्मात् कारणात् । आदी प्रथमतः। “तदुपन्यासेन" इत्यस्य स्थाने " तदनुपन्यासेन" इति पाठो युक्तः, तस्य व्यवहारनयानुपन्यासेनेत्यर्थः । अन्यत् स्पष्टम् ॥ ८॥ एकाशीतितमपद्यमवतारयति-प्रेक्षावदुपकारितयैवेति । अस्माकं दिगम्बराणाम् । विवृणोति- उन्मार्गेतीति । परस्थाने इत्यस्य विवरणं- स्वाधिकारिभिन्नाधिकारिणि निमित्ते इति-स्वपदेनात्र देशनाया ग्रहणम् । देशना कथं पापा ? मुख्यतयाऽधर्मस्य गौणतयाऽधर्मकारणस्य च पापपदबोध्यत्वादत उन्मार्गकारणत्वेनाधर्महेतुत्वात् पापपदबोध्या सेत्याशयेनाह-उन्मार्गकारणमिति । हेतोरिति- यतोऽनधिकारिणि देशना उन्मार्गकारणमैतस्मात् कारणात् पापेत्यर्थः । सदृष्टान्तमनधिकारिणि निश्चयनवदेशनायाः शोभानावहत्वमावेदयति-नेति- अस्य 'आवहति' इत्यनेनान्वयः । खलु निश्चितम् , अपरिणतव्यवहारेविति- अज्ञातनयरहस्येष्वित्यर्थः, अस्य निश्चयनयदेशनायामन्वयः। मलिनेति-अत्य न्तमलिनेषु वस्त्रेषु कुङ्कमरागस्य-गगिद्रव्यकुखमरक्किन्न आधानं यथा शोभा नावहति तथेत्यर्थः । न चेत्यस्य हितमित्यनेन सम्बन्धः । बालादेरित्यत्रादिपदात् कुमार युव-वृद्धादेरुपग्रह । भेषजवदिति- यथा कुमारादियोग्यं भेषजं न बालादेहितं बालादियोग्यं च भेषजं न कुमारादेहित तथेत्यर्थः । किन्त्वनर्थकारि कुमारादियोग्यं भेषजं बालादिभ्यः प्रदत्तं तेषामनर्थकरम् । उपसंहरति-तस्मादिति । एतत्संवादकं षोडशकप्रकरणस्थपद्य चतुष्टयमुपदर्शयति-तदिदमुक्तमिति। बालादीति-गुरुणा देहिनामेवं बालादिभावं सम्यग् विज्ञाय तदनुसारेण सद्धर्मदेशनाऽपि कर्तव्या हीत्यन्वयः । तदनुसारेण बालाद्यनुसारेण, बालादिषु मध्ये यस्य या सद्धर्मदेशना योग्या तस्मिन् सा देशना गुरुणा विधेयेत्यर्थः । अन्यत् स्पष्टम् ।। यद्भाषितमिति- 'इति यद् भाषितम्' इति तृतीयपद्यान्तेतिना सह भाषितमित्यस्यान्वयः, खलु निश्चितम् , परस्थाने देशना पापा, भवगहने दारुणविपाकमेतदुन्मार्गनयनम् , यथा वायोहितमप्यौषधं तच्छ्लेष्मणोऽन्त्यन्तमहितम्, एवं बालाद्यपेक्षं सद्धर्मदेशनौषधमिति भाषितं मुनीन्द्रर्यदित्यन्वयः, भवगहने संसारकानने। दारुणविपाकं पर्यन्तेऽशुभफलकम् , वायोः वातव्याधिपीडितस्य, तत् औषधम् , श्लेष्मणः कफादिव्याधिपीडितस्य, एवं तथा, अन्यदुत्तानार्थम् ॥ पतदिति- यः शुभभावनापन्न एतदेवं विज्ञाय इह विधिवद् यथार्ह प्रयुङ्क्ते असौ नियमतो बोधि करोतीत्यन्वयः, बोधि सम्यक्त्वम् , अन्यत् स्पष्टम् ॥ ८॥ द्वपशीतितमपद्यमवतारयति-नन्वित्यादिना । अनादीति- अनादिकालिकी या व्यवहारवासना तया जनितमात्मशरीरयोरभेदभ्रम - तादात्म्यभ्रममुन्मूलयितुम्- अत्यन्तमुच्छेत्तुम् , “प्रवृत्तेः" इत्यस्य स्थाने "प्रवृत्ते" इति पाठो
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy