________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
" मूढनइ सुअं कालियं तु न णया समोअरंति इह ।
अपुहत्ते समोआरो नत्थि पुहत्ते समोआरो॥" [ आवश्यके गा० ७६२ ] त्ति । यद्यप्याचार्यविनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनमैदंयुगीनानामप्यविरुद्धमेव । तदुक्तं" णत्थि नएहिं विहूणं सुत्तं अत्थो अ जिणमए किंचि ।
आसज्जउ सोआरं गए णयविसारओ बूया ॥" [विशेषावश्यके गा० २२७७ ] इति । तथापि निखिलपर्षदनुपकारित्वेन बहूनामपरिणामातिपरिणामजनकत्वेन चोक्तरीत्या सूत्रे सूक्ष्मनयोपन्यासो न क्रियत इत्यविरोधः ॥ ७९ ॥
तेनादौ निश्चयोग्राहो नग्नानामपहस्तितः । __ रसायनीकृतविषप्रायो सो न जगद्धितः ॥ ८० ॥ नयामृत-तेनेति । तेन-सूत्रोक्तरीत्युलङ्घनस्य कृतान्तकोपावहत्वेन, आदौ निश्चयोद्बाहोनिश्चयनयोपन्यासो, नग्नानां-दिगम्बराणामपहस्तितो-निराकृतः, न-यतोऽसौ निश्चयनयोपन्यासो निखिलनयैकवाक्यतापादकतात्पर्यार्थोषधेन रसायनीकृतविषप्रायस्तदवबोधवतः कस्यचिदेव हितो न तु जगद्धितो, जगद्धितश्च नयो व्यवहार एवेत्यादौ तदुपन्यासेन निश्चयमुपन्यस्तवतां दिगम्बराणामप्राप्तकालत्वादयो बहवो दोषाः ।। ८० ॥ श्रुते। तद्धितः बहुशिष्यहितः। सर्वनयविवेचनाधिकारः, अस्यैव स्पष्टीकरण- बहुत्वेनेत्यादि । अमूढनये विज्ञातनयके, अनेन नयेन इदं सूत्रं प्रवृत्तमनेन च नयेनेदं सूत्रं प्रवृत्तमित्येवं विज्ञातनयके इति यावत् । उकार्थेऽपि परमर्षिवचनसंवादमाह- तदुक्तमिति । मूढनइअं० इति - " मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्ति इह । अपृथक्त्वे समवतारो नास्ति, पृथक्त्वे समवतारः । इति संस्कृतम् । ऐदंयुगीनानामपीत्यपिकारेणान्युगीनानां विनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनं हितमित्यत्र किमु वक्तव्यमित्यर्थस्यानेडनम् । उक्तार्थे परमर्षिवचनसंवादमाह-तदकमिति । णस्थि० इति- " नास्ति नयैर्हि विहीनं सूत्रमर्थश्च जिनमते किञ्चित् ? आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥” इति संस्कृतम् । तथापि उक्तदिशा सर्वनयव्युत्पादनस्याविरुद्धत्वेऽपि । अन्यत् स्पष्टम् ॥७९॥
दिगम्बराणां प्रथमतो निश्चयनयोपन्यासस्यायुक्तत्वावेदकमशीतितमपद्यं विवृणोति-तेनेतीति । तेनेत्यस्य विवरणंसूत्रोकरीत्युल्लनस्य कृतान्तकोपावहत्वेनेति- कृतान्तः- सिद्धान्तः, सिद्धान्तविरुद्धत्वेनेति तदर्थः, सिद्धान्तस्य यमवाचककृतान्तशब्देनोपन्यासात् यं प्रति यमः कुपितः स नश्यत्येव एवं सिद्धान्तविरुद्धो निश्चयनयस्यादावुपन्यासोऽपि भग्न एव, ना, रक्षितुं प्रमाणं प्रभवतीत्यर्थः । आदी व्यवहारनयोपन्यासात् पूर्वमेव । निश्चयोहाह इति मूलस्य विवरणं-निश्वयनयोपन्यास इति । नग्नानामित्यस्य विवरणं-दिगम्बराणामिति । अपहस्तित इत्यस्य विवरणंनिराकृत इति । अत्र हेतुप्ररूपकमुत्तराद्धमित्यावेदनाय यत इति। "न- यतो" इत्यस्य स्थाने "यतो" इति पाठः समुचितः । असाविति मूलस्य विवरण-निश्वयनयोपन्यास इति । उक्तटीकानुसारात् “प्रायो सो" इत्यस्य स्थाने पद्ये "प्रायोऽसौ" इति पाठः सम्यग् । विषस्य रसायनीकरणं कस्यचिदौषधस्य संयोजनया भवति, किमौषधमित्याकावानिवृत्तये टीकायां पूरित-निखिलनयकवाक्यतापादकतात्पर्यार्थोषधेनेति । तदवबोधवतः निखिलनयकवाक्यतापादकतात्पर्यार्थावबोधवतः। यः खलु निश्चयनयावलम्बनेनावेदितस्योपदेशस्याभिप्रेतार्थमवगच्छति स एव निखिलनयानां परस्परमविरोधमवगन्तुं प्रभुरिति तस्य निश्चयनयोपन्यासो रसायनीकृतविषतुल्यत्वाद्धितो न तु निश्चयनयावलम्ब्युपदेशाभिप्रेतार्थमजानतां नयानामेकवाक्यत्वाभावमेवावगच्छतां जनानां निश्चयनयोपन्यासो हित इत्याहन तु जगद्धित इति, एवं च जगद्धितश्व व्यवहार एव व्यवहारनयावलम्ब्युपदेश एव जगतां सर्वेषां तात्पर्या