________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तदितरा इति स्त्ररूपतो बलवानपि निश्चयनयः स्तोकानामुपकारकत्वाद् बहूनां चापकारकत्वाञ्चक्रवर्तिभोजनमिव फलतोऽनर्थनिबन्धनमिति भावः ॥ ७७ ॥
आमे घटे यथा न्यस्तं जलं खघटनाशकृत् ।
9
तथाऽपरिणते शिष्ये, रहस्यं नयगोचरम् ॥ ७८ ॥
२४४
नयामृत० - आमे घट इति - स्पष्टम् ॥ ७८ ॥
पृथक्त्वे नाधिकारस्तन्नयानां कालिकते । अधिकारस्त्रिभिः प्रायो, नये व्युत्पत्तिमिच्छताम् ॥ ७९ ॥
नयामृत०- - पृथक्त्व इति । तत् तस्मात् कारणादू बहूपका रोद्देशेनैव देशनायाः प्रवृत्तेः, सूक्ष्मनयानां च बह्वनुपकारकत्वात् कालिकश्रुते पृथक्त्वे - अनुयोगचतुष्टयपृथक्करणे सति, नयानां सर्वेषां नयानामधिकारो नास्ति योजनायामिति शेषः, किं सर्वथैव नाधिकारो ? नेत्याह- त्रिभिः - नैगम-सङ्ग्रहव्यवहारैर्नयैः प्रायोऽधिकारो व्युत्पत्तिमिच्छतां - शिष्याणां हितमिति शेषः, तथा च पारमर्षम् -
" एएहिं दिट्ठीवाए परुवणा सुत्तअत्थकहणाय ।
इह पुण अन्वगमो अहिगारो तीहि उ भगति ॥ " [ आवश्यके गा० ७६० ]॥ पृथक्त्वे ह्यविभागस्यैनैर्यः सूचनामात्रसन्निविष्टैः मूढनयिकं श्रुतमिति न तत्र सर्वनयविवेचनाधिकारः, अपृथक्त्वे तु बहूनां शिष्याणां परिणामकत्वात् तद्धितो बहुत्वेन विभागस्थैर्नयैरमूढनये सूत्रे सर्वनयव्युत्पादनमासीदेवेति भावः । तदुक्तं
विद् विद्यते इति स्वरूपोपरञ्जके तस्मिन् विशेषणे सति यत्रापि पुरुषे हितावहत्वं सूक्ष्मार्थनयानां सोऽपि पुरुषोऽतिपारिणामिक एवेति निषेधार्थस्य चाघटमानत्वात् प्रकृतोपयोगिनं तदर्थमाह- अपवादैकरुचाविति विधायकं शास्त्रं सामा न्यशास्त्रं तथार्थसङ्कोचकरणाय यद्विशेषशास्त्रं तदपवादशास्त्रं तदर्थे एकाऽद्वितीया रुचिः श्रद्धा यस्य सोऽपवादैकरुचिस्तस्मिन् पुरुषेऽपि, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः । परिणामकानां स्वल्पत्वात् तदुपकारकत्वेऽपि स्वरूपतो बलवतो निश्चयनयस्य बहूनामपरिणामकानामतिपारिणामिकानां चापकारकत्वाच्चक्रवर्तिभोजनस्येवानर्थ हेतुत्वमिति फलतो न शुद्धत्वं तस्य किन्तु व्यवहारस्यैव फलतः शुद्धत्वमित्याह- स्तोकाश्चेति । " तदितराः" इत्यस्य स्थाने " तदितरे " इति पाठः । परिणामकभिन्ना अपरिणामका अतिपरिणामकाश्च ॥ ७७ ॥
ऐदम्पर्यायार्थविषयक श्रद्धा शून्ये शिष्ये निश्चयनयविषयगोचर उपदेशोऽनर्थहेतुरित्येतत्प्रतिपादकमष्टसप्ततितमपयं स्पष्टार्थत्वान्न विवरणार्हमित्याह- आमे घट इति स्पष्टमिति ॥ ७८ ॥
कालिकश्रुते व्याख्यायां निश्चयनयस्य नाधिकारो व्यवहारनयस्य त्वधिकार इत्यावेदक मे कोनाशीतितमपद्यं विवृणोतिपृथक्त्व इतीति । तदिति मूलस्य विवरणं तस्मात् कारणादिति । तस्मात् कारणादित्यनेन किमुक्तं भवतीत्यपेक्षायां तस्यैव विशिष्य स्वरूपमुपवर्णयति- बहूपका रोद्देशेनैवेति- बहूपका रोद्देशेनैव देशनायाः प्रवृत्तेः सूक्ष्मनयानां च बह्वनुपकारकत्वादित्येतस्मात् कारणादित्यर्थः । कालिकधुते इति प्रसिद्धत्वान्न व्याख्यातम् । पृथक्त्वे इति मूलस्य विवरणम् - अनुपयोगचतुष्टयपृथक्करणे सतीति । नयानामित्यस्य वित्ररणं सर्वेषां नयानामिति । कुत्राधिकारो नास्तीत्यपेक्षायां योजनायामिति शेषः, योजनालक्षणव्याख्याने सर्वेषां नयानामधिकारो नास्तीत्यर्थः । उत्तरार्द्ध ब्याख्यातुमवतारयति- किमिति । उक्तार्थे परमर्षिवचनं प्रमाणयति तथा चेति । एहि इति - "एहि दृष्टिवादे प्ररूपणा सूत्रार्थकथनाय । इह पुनरनभ्युपगमोऽधिकार स्त्रिभिस्तु भण्यते ॥ " इति संस्कृतम् । भावार्थमावेदयति-- पृथक्त्वे हीत्यादि । मूढनयिकं अविज्ञातनयकम् अनेन नयेनेदं श्रुतं प्रवृत्तमित्येवं न ज्ञायत इति । तत्र अविज्ञातनय के