________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
२५३
वतापि व्यवहारापरित्यागात्, साधकेन च " आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते" [गीता-अ० ६, श्लो० ३] इत्यादिवचनादेव समाधिसाधनत्वेन व्यवहारापरित्यागादित्याशङ्कयाह
परिणामे नयाः सूक्ष्मा, हिता नापरिणामिके ।
नवाऽतिपरिणामे च, चक्रिणो भोजनं यथा ॥ ७७॥ नयामृत-परिणाम इति । सूक्ष्मा:-सूक्ष्मार्था नयाः, परिणामे-ऐदंपर्यार्थश्रद्धायाम् , हिताः, न पुनरपरिणामिके-उत्सर्गकरुचौ पुरुष, नवातिपरिणामके-अपवादैकरुयो, स्तोकाच परिणामका बहवश्व [ ] इत्यादिस्मृतेः, सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति, “स यथाकामो भवति तत्कतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते " [ ] इत्यादिश्रुतिभ्यः " यद्यद्धि कुरुते कर्म तत्तत् कामस्य चेष्टितम् " [
1 इत्यादिस्मृतिभ्यश्च, न्यायाच- नहि सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शकः, तस्मात् सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ।" इति ।
___ व्याख्यातं चेदं शाङ्करभाष्यं ससपेण भाष्योत्कर्षदीपिकाकृता तच्चेदं- " किं प्रशस्तत्वाद्यावजीवं कर्मयोग एवानुठेय इत्याशङ्कायां ध्यानयोगाधिकारसंपत्तिपर्यन्तमवधिमभिप्रेत्य कर्मयोगस्य ध्यानयोगसाधनत्वप्रदर्शनेनोत्तरमाह- आरुरुक्षोरितियोगं ध्यानयोगमारुरुक्षोरारोदुमिच्छोनियोगेऽवस्थातुमसमर्थस्य, यत्तु योगं ज्ञानयोगमिति तन्न-ध्यानयोगस्यैव प्रक्रान्तत्वात्, कस्यारुरुक्षोः ? मुनेः कर्मफलसंन्यासिन इत्यर्थः, यत्त मुनेनिदिध्यासनाख्यज्ञानयोगवतः श्रवण मननक्रमेण योगमारुरुक्षोरिति, तन-निदिध्यासनवतः पुनः श्रमण-मननक्रमस्यानपेक्षणात्. तयोनिदिध्यासनार्थत्वात् . कर्मफलाभिसन्धि. रहितं कारणं साधनमुच्यते, तस्यैव पूर्व कर्मिणः पश्चाद योगारूढस्य प्राप्तध्यानयोगस्य उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढताया आत्मसाक्षात्कारनिर्विकल्पसमाधिपर्यन्तायाः साधनमुच्यते, एतेन योगमन्तःकरणशुद्धिरूपं वैराग्यम्, आरुरुक्षोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णाल्यागिनः कर्म कारणं योगारोहणे साधनमनुष्ठेयमुच्यते, योगारूढस्य योग पूर्वोकं प्राप्तवतस्तु तस्यैव शमः सर्वकर्मसंन्यास एवं कारणमनुष्ठेयतया ज्ञानपरिपाकसाधनमुच्यत इति प्रत्युक्तम् , ध्यानयोगस्यैवास्सिन्नध्याये वर्णनीयत्वेन तस्तक्षे श्लोकस्य सम्यगुपपत्त्या वर्णनीयार्थ श्रौतं विहायाश्रीतार्थवर्णनस्यानुचितत्वात् , " योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् । षष्ठ भारभ्यतेऽध्यायस्तस्य ख्यानाय विस्तरात् ॥" तत्र सर्वकर्मत्यागेन योग विधास्यस्त्याज्यत्वेन हीनत्वमाशङ्कय कर्मयोग द्वाभ्यां स्तुतवानिति स्वपूर्वप्रन्थादप्यस्मिन् तृतीयश्लोके ध्यानयोगवर्णनस्यावश्यकत्वात् , कदा योगारूढो भवतीत्युच्यत इत्युत्तरश्लोकमवतार्य "योगं समाधिमारूढो योगारूढ इत्युच्यते"। इति योगारूढशब्दार्थप्रदर्शनपरस्वप्रन्थतन्मूलविरोधश्च ॥३॥ कदा योगारूढो भवतीत्यपेक्षायामाह-यदेति- एतेन कीदृशोऽसौ योगारूढो यस्य शमः कारणमुच्यते इत्यत्राह-कः पुनर्योगारूढः ! इत्यत उच्यते इत्यापातनिकायमपि प्रत्युक्तम् , यदातदापदयोः प्रत्यक्षमुपलब्धर्भाष्योक्तपातनिकाया एव युक्तत्वात्, यदा यस्मिन् काले समाधीयमानचित्तो योगी इन्द्रियार्थेषु विषयेषु शब्दादिषु कर्मसु च नित्यादिषु प्रयोजनाभावबुद्धथा नानुषजते अनुषझं कर्तृत्वादिबुद्धि न करोतीत्यर्थः, यतः सर्वान् संकल्पान् विषयविषयकमनोवृत्तिभेदान् कामान् सर्वाणि कर्माणि चेति सर्वसङ्कल्पान् इहामुत्रार्थकामहेतून संन्यसितुं शीलमस्येति सर्वसंकल्पसंन्यासी तदा योगारूढः प्राप्तसमाधिरुच्यते ॥४॥ इति ।
विवृणोति-परिणाम इतीति । नयस्य सर्वस्य ज्ञानरूपत्वेन सूक्ष्मत्वं कस्यचित् कस्यचिच्च स्थूलत्वमिति स्वरूपतो न सम्भवतीत्यतः सूक्ष्मा इति मूलस्य विवरणं-सूक्ष्मार्था इति । परिणामे इति मूलस्य विवरणम्-ऐदम्पर्यायार्थभद्धायामिति- तात्पर्यविषयीभूतार्थविषयकश्रद्धायामित्यर्थः। हिता इष्टफलदायिनः। अपरिणामिके इति मूलं यथा. श्रुतार्थतया न सातिमझति, सर्वस्य पुंसः प्रतिक्षणं परिणमनस्वभावत्वेन पारिणामिकत्वस्य परिणामवत्त्वलक्षण सम्भवादतः प्रकृतोपयोगिनं तदर्थमुपदर्शयति- उत्सर्गकरुचौ पुरुष इति- उत्सर्गे सामान्यशाने एकाऽद्वितीया रुचिः श्रद्धा यस्य स उत्सर्गकरुचिस्तस्मिन् पुरुषे, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः। मतिपरिणामे इति मूलमपि श्रूयमाणार्थपरतया न सङ्गच्छते, क्षणमपि वस्तु परिणामं नातिकामतीति परिणामातिकमलक्षणस्यार्थस्य, यो हि यस्य यदा परिणामः स तदा तस्य व्यापनभावलक्षणात्यन्तत्वसमकलित एवेति सर्वोऽपि पुरुषोऽतिपारिणामिक एवेति तस्यवच्छेद्यं न