________________
२९७
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । निम्बयोदाहः फलेपहिः
" सुदपरिचिदाणुभूदा मच्चस्स वि कामभोगबंधकधा ।
एगत्थस्सुवलंभो णवरि ण सुलभो विभत्तस्स ॥” [ समयप्राभृतम् ] इत्यादिवचनात् , अत एव बुधादिविकलेनेदं कस्यचिदेवादेयं प्रवचनपरमगुह्यमितीतरशास्त्रेभ्यो विशिष्यत इति चेत् ? तर्हि तादृशं समयप्राभृतादिकं हिङ्गुमरिचविक्रयकारिणां मुग्धवणिजामधीनं कुर्वद्भिर्भवद्भिः समीचीनं प्रवचनगुह्ममाघ्रातम्, कथं च पदार्थपरिज्ञानादिव्यवहारव्युत्पत्तो नैमिके द्रव्यसन्हादावप्यादौ निश्चयोपन्यासेन सूचिमुखे मुशलप्रवेशनं व्यवसाय आयुष्मतो नोपहासकरः ।, कथं वा लौकिकव्यवहारजनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारमुत्पादनस्यैवावसरप्राप्तत्वेन तमुलक्य युक्तः, तस्य निर्मिते इत्यर्थः, अस्मच्छास्त्रे दिगम्बरशास्त्रे, आदी व्यवहारनयोपन्यासात् पूर्वमेव, निश्चयोद्ाहः निश्चयनयोपन्यासः, फलेग्रहिः परिणामे फलप्रदः । उक्कार्थे समयप्राभृतादिवचनं प्रमाणयति-सुद० इति- 'सुतपरिचितानुभूता मर्त्यस्यापि कामभोगबन्धकथा । एकार्थस्योपलम्भो नवरं न सुलभो विभक्तस्य ॥” इति संस्कृतम् । अत एव दिगम्बरशास्त्रस्यात्मशरीराभेदभ्रमोन्मूलनार्थ प्रवृत्तस्यादौ निश्चयोद्राहस्य फलेप्रहित्वादेव, 'अत एवेदमितरशास्त्रेभ्यो विशिष्यते' इत्यन्वयः । “बुधादिविकलेनेदं” इत्यस्य स्थाने "बुद्धयाद्यविकलस्येदं " इति पाठो भवितुमर्हति, यथाश्रुतं तु न सङ्गतिमङ्गति, इदं दिगम्बरशास्त्रम्, बुद्धयाद्यविकलस्य कस्यचिदेव प्रमातुरादेयमुपादेयम्, प्रवचनपरमगुह्यं जैनराधान्तगूढरहस्यावेदकम्, इति एतस्मात् कारणात्, इतरशास्त्रेभ्यः दिगम्बरशास्त्रभिन्नशास्त्रेभ्यो जेनराधान्तरहस्यानावेदकेभ्यः, विशिष्यते विशिष्टं भवति । उक्तदिगम्बराशङ्का समाधत्ते-तहीति। तादृशं प्रवचनपरम गुह्यम् , हिङगुमरीचविक्रयकारिणामित्यनन मुग्धा वणिजोऽत्यन्तं शास्त्ररहस्यानभिज्ञाः स्वाधीनानां शास्त्रदलानां हिङ्गु-मरीचादि. परिवेष्टनकार्ये एवोपयोगं करिष्यन्ति, हिङगुमरीचादिक्रयकारिणश्च मुग्धा व्यवहारिणो बालविष्ठाद्यशुचिप्रमार्जनादिकर्मण्येव तेषामुपयोगं करिष्यन्ति, न तु तदधीनस्य समयप्राभृतादेः प्रवचनपरमगुह्यावदकत्वेन प्रव वनपामगुह्यत्वं ग्रहीष्यन्तीत्यावदितं भवति । भवद्भिः दिगम्बरैः, दिगम्बरस्य साधोः समयप्राभृतादिशास्त्रदलान्यपि स्वस्य सर्वथा निर्ग्रन्थत्वरक्षणाय परित्याज्यान्येवातस्तेषां मुग्धवणिगधीनत्वमावश्यकमेवेति । आघ्रातमित्यने नान्याधीनस्थ शास्त्रस्य सम्यगवलोकनं साभ्यासं न भवत्यत आपाततो निरीक्षणमेव न ततः प्रवचन गुह्यस्य सम्यगवसितिरित्यावेदितम् । कथं चेत्यत्त्य 'नोपहासकरः' इत्यनेनान्वयः । पदार्थेति- अस्य पदस्यायमर्थ इत्येवं यत् पदार्थपरिज्ञानम् , आदिपदात् तजन्यं यद् विहितक्रियाद्याचरणं निषिद्धक्रियाद्यनाचरणं तत्प्रभृतेः परिग्रहः, तदात्मिका या व्यवहारव्युत्पत्तिः व्यवहारोपयोगिनी व्युत्पत्तिस्तत्र । "नैमिके" इति स्थाने " नैयमिके" इति पाठो युक्तः, नियमकारके इति तदर्थः। द्रव्यसङ्गहादी द्रव्यसङ्ग्रहादिग्रन्थेऽपि । आदी प्रथमतः। निश्चयोपन्यासेन निश्चयनयोपन्यासेन। "सुविमुखे" इत्यस्य स्थाने 'सूचीमुखे' इति पाठो युक्तः, फाटितवस्त्रखण्डादेर्योजनादिकर्मनिपुणाऽयोनिष्पन्ना सूची, तस्या मुखं- सूत्रप्रवेशनार्थ छिद्रम्, तदतिसक्ष्म भवति, तत्रातिसूक्ष्ममेव सूत्रं प्रयत्नेन प्रविशति, तत्रातिस्थूलस्य मुशलस्य प्रवेशनं न सम्भवति, यदि कस्यचिदतिमूढमतेः सूचीमुखे मुशलप्रवेशनव्यवसायो भवेत् स निष्फलत्वात् तस्योपहासकर एव भवति, तथा प्रथमतो निश्चयनयोपन्यासेनायुष्मतः-चिरंजीविनो दिगम्बरस्य, परोपकाराध्यवसाय उपहासकरः कथं नेत्यर्थः । "मुशलप्रवेशनं व्यवसाय" इत्यस्य स्थाने "मुशलप्रवेशनव्यवसाय” इति " मुशलप्रवेशने व्यवसाय” इति वा पाठो युक्तः । 'मायष्मता इत्युपादानेन मूर्खश्चिरं जीवतीति वचनात् तथा व्यवसायकतुर्दिगम्बरस्य मूर्खत्वं ध्वनितम् । कथं वेत्यस्य न क्रमविरुद्धतेत्यनेनान्वयः। 'व्यवहारमुत्पादनस्यैवा" इत्यस्य स्थाने "व्यवहारव्युत्पादनस्यैवा" इति पाठो युक्तः । तमुल्लल्य अवसरप्राप्तं लोकोत्तरव्यवहारव्युत्पादनमतिक्रम्य, प्रथमं लौकिकव्यवहारव्युत्पादनं ततस्तबनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारव्युत्पादनं तदनन्तरं निश्चयनयव्युत्पादनमित्येवं यः क्रमस्तद्विरुद्धता प्रथमतो निश्चयनयव्युत्पादने दिगम्बरस्य स्यादेवेत्यर्थः । नन्वनेकक्षणस्याप्यभ्युपगन्ता व्यवहारः, तत्रैकक्षणस्थित्यभ्युपगन्तृत्वं समस्त्येव, न कक्षणस्थितिमन्तरेणानेकक्षणस्थितिः सम्भवति, एकक्षणस्थितिस्त्वनेकक्षणस्थितिमन्तरेणापि सम्भवति, तथा चानेक