________________
२४८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
निश्चयव्युत्पादनस्य न क्रमविरुद्धता ?; न च व्यापकनिश्चयाभिधानोत्तरं व्यवहाराभिधानमेवात्र क्रमः, द्वयोरपि नयत्वेन भूमिक्रमानुरोधेनैवात्र क्रमाश्रयणात् , अन्यथा ह्यव्युत्पादितव्यवहारो दुष्प्राप्यव्युत्पत्तिकनिश्चयश्च शिष्यः फलसन्देहदोलाधिरोपणेन संसार एव भ्रामितः स्यात्, तदुक्तमन्यैरपि
" अज्ञस्याई प्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनिपातितः ॥ १ ॥" [ महोपनिषद् ५, १०५ ] इति । न च निश्चयाधिकारी प्रबुद्ध एव (न किं )त्वर्द्धप्रबुद्ध इति वाच्यम् , आपातनिश्चयश्रद्धाजनिते क्रियाऽऽलस्यवतोऽर्द्धप्रबुद्धत्वेऽपि संशयादित्यभिप्रायवानाह
ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः ।
निश्चयान्निश्चयं ते न जानन्तीति श्रुते श्रुतम् ॥ ८२॥ नयामृत०-य इति । ये ज्ञानमात्राभिमानिन:- ज्ञानमेवास्माकं सर्वा सामग्री सम्पादयिष्यतीति स्वेच्छाकल्पितसन्तोषवन्तः, क्रियाभ्यासे सीदन्ति ते निश्चयान्निश्वयं न जानन्ति, किन्तु शब्दाभिलाक्षणस्थित्युपगमोप्येकक्षणस्थित्युपगमः, एकक्षणस्थित्युपगमस्तु खत एकक्षणस्थित्युपगम इत्येवं निश्चयनयस्य व्याप. कत्वात् प्रथमतोऽभिधानं ततो व्यवहारनयस्याभिधानमित्येव क्रमः, तद्विरुद्धता च नास्त्येव दिगम्बरस्य प्रथमतो निश्चयाभिधाने इत्याशय प्रतिक्षिाति-न चेति। निषेधे हेतुमाह-द्वयोरपीति-निश्चयनय-व्यवहारनययोरपीत्यर्थः । भूमिक्रमानुरोधेनैव प्रथमतो ह्यनतिप्रयोजनो व्यवहारनयव्युत्पत्तिपात्रं भवितुमर्हति, ततो निश्चयनयव्युत्पादनयोग्यो भवतीति प्रथमतो व्यवहारनयव्युत्पत्याधानयोग्यत्वाद् व्यवहारनयभूमिस्ततो व्युत्पादितव्यवहारोऽसौ निश्वयव्युत्पत्त्याधानयोग्यत्वान्निश्चयनयभूमिरित्येवं भूमिक्रमानुरोधेन । अन्यथा भूमिकमानाश्रयणे। हि यतः। अव्युत्पादितव्यवहारः अविज्ञातव्यवहारनयमार्गः, अस्य 'शिष्यः' इत्यनेन सम्बन्धः। यावन्न व्यवहारनये व्युत्पन्नस्तावन्निश्चयनयव्युत्पत्तिको न भवितुमर्हतीति दुष्प्राप्यव्युत्पत्तिकनिश्चयश्चेति- दुष्प्राप्या प्राप्तुमशक्या व्युत्पत्तिर्यस्य स दुष्प्राप्यव्युत्पत्तिकः, दुष्प्राप्यव्युत्पत्तिको निश्चयो यस्य स दुष्प्राप्यव्युत्पत्तिकनिश्चयः, येन पुंसा निश्चयनयस्य व्युत्पत्तिः प्राप्तुं न शक्यते स इत्यर्थः, तथा च व्यवहारमार्गानभिज्ञो निश्चयनयमार्गानभिज्ञश्च शिष्यो निश्चयनयोपन्यासेन एतदुपन्यस्तफलं मयि भवि. ध्यति नवा निश्चयनयोपदिष्टकर्मण इदं फलं नवेत्येवं फलसन्देहलक्षणा या दोला तस्यामधिरोपणेन संसार एव भ्रामितः स्यात्, पुनर्जननं पुनमरणं पुनर्जन्मेत्येवं पुनः पुनः संसायव स्यान्न मुक्तिमासादयेदित्यर्थः ।
यो यदुपदेशायोग्यः स तदुपदेशतोऽनर्थमेवासादयति न तदुपदिष्ट फलमित्यत्र परवचनसंवादमाह- तदुकमन्यैरपीति। अक्षस्येति- विशेषतो विज्ञानरहितस्येत्यर्थः, तेन सर्वथा ज्ञानरहितत्वस्थ जीवमात्रेऽसंभवेऽपि न क्षतिः । 'सर्व ब्रह्म' इत्येत् प्रतिपाद्यं यथाश्रुतमपि यो न जानाति तस्योक्तवाक्येन श्रुतमात्रेण नेष्टं नवाऽनिष्टमुपजायते तथाविधरागद्वेषराहित्यादत
तमई प्रबद्धस्येति- शक्तयोक्तवाक्यप्रतिपाद्यं ज्ञातुं समर्थः, तदभिप्रेतार्थ नावधारयितुं प्रभुः, एतादृशोऽर्द्धप्रबुद्धो दर्शितवाक्येन सर्वस्य वस्तुनो ब्रह्मैकरूपत्वमवगत्यागम्यागमनाऽभक्ष्यभक्षणादिकं यथेष्टमनुतिष्ठेद्, अतस्तदुपदेशतः स महानरकेष्वेव पतितः स्यात् । स अज्ञोऽर्द्ध प्रबुद्धः, तेन सर्व ब्रह्मेत्युपदेशकी। न चेत्यस्य वाच्यमित्यनेनान्वयः । “जनिते क्रिया" इत्यस्य स्थाने "जनितक्रिया" इति पाठो युक्तः ।
विवृणोति- ये इतीति । ज्ञानमात्राभिमानिन इति मूलस्य विवरणं-ज्ञानमेवास्माकं सर्वो सामग्री सम्पाद. यिष्यतीति स्वेच्छाकल्पितसन्तोषवन्त इति । क्रियाभ्यासे सीदन्ति ज्ञानमात्रेणैव सम्भृतसामग्रीकेणानायासमेव मुक्तिफलं भविष्यत्यस्माकमतः कष्टैकफलिका संयमाराधनादिका क्रिया नाचरितव्येति तदा वरणे क्लिश्यन्तः क्रियां नाचरन्त्येव, ते ज्ञानमात्राभिमानिनः, निश्चयात् वस्तुतः परमार्थत इति यावत्, निश्चयं निश्चयनयरहस्यम् । तत् किं प्रकारान्तरेण निश्चयं ते जानन्ति येन निश्चयादिति विशेषणमुपात्तमिति पृच्छति-किन्विति । उत्तरयति-शन्दा.