________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः |
तत्प्रसिद्धिश्च सामान्य-विशेषायुभयाश्रया।
तदन्यतरसन्यासे व्यवहारो हि दुर्घटः ॥ २१ ॥ नयामृत-तत्प्रसिद्धिश्च- लोकप्रसिद्धिश्च, सामान्य विशेषाधुभयाश्रया-सामान्यविशेष-नित्यानित्यत्व-भेदाभेदाधुभयावलम्बिनी, हि- यतः, तेषां मध्ये, अन्यतरस्य- एकस्यापि, सन्न्यासे-परित्यागे, व्यवहारो दुर्घटः, सामान्याद्यभावे अनुगतप्रतीत्यादेः, विशेषाद्यभावे च व्यावृत्त्यादिबुध्यादेरसम्भवादित्यर्थः । तथा च सामान्य विशेषोभयस्वीकर्तृजातीयैकदेशबोधत्वं नैगमत्वमिति लक्षणं लब्धम् । अथानेन स्वतन्त्रसामान्य विशेषोभयाभ्युपगमे कणादवद् दुर्नयत्वम् , शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं इत्यर्थः । लोकप्रसिद्धार्थोपगन्तृत्वलक्षणेऽर्थे तद्भवत्वशब्दो न मुख्यवृत्त्या प्रवर्तते तदधिकरणकभवनवत्त्वलक्षणार्थ एव तस्य मुख्यवृत्तेः सम्भवादन आह-पारिभाषिकमिति - जैनसिद्धान्तरहस्य जैस्तत्र सङ्केतितस्तद्भवत्वशब्दस्तेन लौकिकप्रभवत्वशब्दस्य या उक्कार्थे आधुनिकसङ्केतलक्षणा परिभाषा तद्विषय इत्यर्थः । तत् तत्प्रभवत्वमित्यों ज्ञातव्य इत्यर्थः ॥ २० ॥
लोकप्रसिद्धिरेव किमर्थाश्रयेसपेक्षायामे कविंशतितमं पद्यमाह-तत्प्रसिदिश्चेति । विवृणोति-तत्प्रसिद्धिश्चेति । अनुगतप्रतीत्यादेरित्यस्यासम्भवादित्यनेनान्वयः । 'सामान्यायभावे' इत्यत्रादिपदान्नित्यत्वा-ऽभेदादेरुपग्रहः । 'अनुगतप्रतीत्यादेः' इत्यत्रादिदात् प्रत्यभिज्ञानादेग्रहणम् । 'विशेषाद्यभावे' इयत्रादिपदादनित्यत्व भेदादेः परिप्रहः । 'व्यावृत्यादि' इत्यत्रादिपदाद् धंस-प्रागभावादेब्रहणम् । 'बुद्धयादेः' इत्यादिादाद् धंस-प्रागभाव-भेदादिप्रतीत्यादेः सङ्ग्रहणम् । तथा च सामान्यविशेषोभयाश्रया लोकप्रसिद्धि लोकप्रसिद्धार्थोपगन्तृत्वलक्षगनिगमप्रभवस्ववागमनय इति व्यवस्थितौ च । सामान्येति -एतेन नियत्वा-ऽनित्यत्रोभ पस्त्रीकर्नृजातीयैकदेशबोधलं भेदा-ऽभेदोभयस्वीकर्तृजातीयैकदेशप्रभवत्वमित्यादिकमपि नैगमलक्षणमवसे यम् , जातिघटितलक्षणकरणाद् यो नैगमविशेषो नित्यत्वं प्रधानतयाऽवगाहते अनित्यत्वमेव वा प्रधानतयोररीकरोति भेदमेव वा प्रधानतयाऽभ्युपैति अभेदमेव वा तथा खीकरोति सामान्यमेव विशेषमेव वाऽभ्युपैति, तेषु सर्वेषु सामान्योभ यस्त्रोकर्तृत्वस्य नित्यत्वानित्यत्वोभयस्त्रीकर्तृत्वादेरभ वेऽपि न क्षतिः, या नैगमव्यक्ति: सामान्य विशेष चाभ्युपैति सा सामान्य-विशेषोभयस्वीकी तद्वत्तियत्वावान्तरजातिगमत्वजातिस्तद्वान् एकदेशविषयको बोधोऽखिल एव नथात्मा बोधस्तत्वं सर्वेषु नयेषु वर्तत इति लक्षणसमन्वयः; नयत्व जातिमादाय सङ्ग्रहादि. नयेष्वतिव्याप्तिवारणाय जातियत्वावान्तरजातित्वेन प्रवेशनीया, न तु सामान्य-विशेषोभयस्वीकर्तृमात्रवृत्तित्वेन जातिप्रवेशः समुचितः, तथा सति नैगमत्व जातेरपि सामान्य-विशेषोभ यस्वीकनै गमव्यक्तिव्यतिरिक्तनित्यत्वा-ऽनित्यत्वोभयस्वीकर्तृनैगमव्यक्तिवृत्तित्वेन सामान्य-विशेषोभयस्वीकर्तृमात्रवृत्तित्तस्याभावेनासङ्गहः प्रसज्यतेति बोध्यम् , नयत्वावान्तरत्वं च नयत्वव्याप्यत्वमात्रमिह विवक्षितं न तु नयत्वव्याप्यत्वे सति नबत्वाव्याप्याव्याप्यत्वं नैगमत्वावान्तरजातेस्रहणेऽपि क्षत्यभावात्, नयत्वव्याप्यत्वमपि नयत्वन्यूनवृत्तित्वमेवात्राभिमतं न तु नयत्वाभाववदवृत्तित्वरूपम् , तेन नयत्वस्य नयत्वाभाववदवृत्तित्व. लक्षणनयत्वव्याप्यत्वस्य सत्त्वेऽपि न तदादाय नयान्तरेष्वतिव्याप्तिः, नयत्वन्यूनवृतित्वमपि नयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेव विवक्षितं न तु नयत्वसमानाधिकरणत्वे सति नैगमत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वरूपम् , सामान्यविशेषोभयस्वीकर्तृवृत्तित्वस्य जातिविशेषणतयोपात्तत्वेन तत एव नयावृत्तिज तेर्ग्रहणासम्भवात् , इत्थं च यत्किञ्चिन्नयावृत्ति. सामान्यविशेषोभयस्वीकर्तृवृत्तिजातिमदेकदेशविषयकबोधत्वं नैगमत्वमित्येवमपि नैगमनयलक्षणाभिधानं युक्तमेव, यत्किञ्चिन्नया. वृत्तित्वाभाव देव नयत्वजातेस्रहणासम्भवात् , 'शाब्दबोधविशेषा एवं नयबोधाः' इत्यस्य 'श्रुतप्रमाणपरिच्छिन्नार्थेकदेशावगाह्यभिप्रायविशेषो नयः' इति नयसामान्यलक्षणानुगमनबलादादरणे श्रुतत्वस्य ज्ञानत्वव्याप्यजातेरपि निखिलनयवर्तिन्या यत्किञ्चिन्नयावृत्तित्वाभावादेव ग्रहणासम्भवान्न तामादायातिप्रसक्तिः, प्रमाणभात्रवृत्तिप्रमाणत्वजातेयसामान्यावर्तिन्याः सामान्य विशेषोभयस्वीकर्तृप्रमाणवर्तिन्या यत्किञ्चिन्नयावृत्तित्वेन सङ्ग्रहेऽपि तजातिमान् वस्तुबोध एव न त्येकदेशबोध इत्येतावतैव तामुपादायापि नातिव्याप्तिः, एतत्पक्षे मतिज्ञानत्वं नयवृत्त्ये। न तामुपादायाप्यतिव्याप्तिः, यदि चैकदेशावगाहिमतिज्ञानविशेषोऽपि नय इति मतिज्ञानत्वमपि नयवृत्ति भवति, तच्च श्रुतात्मकन यज्ञानावृत्त्यपोति तदुपादानेन मति ज्ञानविशेषे नयान्तरेऽतिव्याप्तिरिति भवति परीक्षकाणां मतिस्तदा नयवाभाववदवृत्तित्वरूप नयत्वव्याप्यत्वमेव जातावुपादेयम् , नयत्ववारणाय च नयत्व