________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतो नयोपदेशः।
१४९
द्रव्यपदार्थस्यैव प्रतिक्षेपात् । यदि चैवमपि ' एकानुपयुक्त एक द्रव्यावश्यकम् ' इत्यत्रानुपयोगस्य विषयनियन्त्रितत्वेनार्थक्यादुदेश्य-विधेयभावानुपपत्तिरिति विभाव्यते, यथा द्रव्यावश्यकपदं द्रव्यावश्यकत्वेन व्यवहर्तव्यम् , पर विवरणपरतया चैतत् योजनीयमिति न कश्चिद् दोष इत्यालोचयामः ॥ १८ ॥ उक्तानुभयनयभेदानेव विशिष्य लक्षयितुं नामग्राहं सहामि
------ नैगमः सङ्ग्रहश्चैव व्यवहारर्जुसूत्रको । रावदारमत्रको।
... शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते ॥१९॥ नयामृत-नैगम इति स्पष्टा, ते-मूलनयप्रभेदाः ॥ १९ ॥ तत्रादौ नैगमलक्षणमाह
निगमेषु भवो बोधो, नैगमस्तत्र कीर्तितः।
तद्भवत्वं पुनलोकप्रसिद्धार्थोपगन्तृता ॥ २०॥ नयामृत-निगमेविति-निगमेषु- लोकेषु भवो बोधो नैगमनयः, तत्र- तेषु मध्ये कीर्तितः, तद्भवत्वं च तदाश्रयेणोत्पत्तिकत्वम् , ज्ञानरूपस्य नयस्यात्मन्येव शब्दरूपस्य च भाषावर्गणायामेवोत्पत्तेः, किन्तु लोकप्रसिद्धार्थोपगन्तृता- लोकप्रसिद्धार्यकस्वीकर्तृत्वम् , पारिभाषिकं तदित्यर्थः ॥ २० ॥ स्यादित्यत आह- यदि चैवमपीति । एवमपि अनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचाराद् द्रव्यावश्यकमित्येवं सम्भवेऽप। 'एकानुपयुक्तः' इत्यस्य स्थाने 'एकोऽनुपयुक्तः' इति पाठो युक्तः । विषयनियन्त्रितत्वेन प्रतिनियतविषयघटितमूर्तिकत्वेन । अर्थैक्यात् य एव एकोऽनुपयुक्त इत्यस्यार्थः स एव एकं द्रव्यावश्यकमित्यस्याप्यर्थ इत्यर्थेक्यात् । 'यथा द्रव्यावश्यकपदम्' इत्यस्य स्थाने 'दा द्रव्यावश्यकपदम् ' इति पाठो युक्तः,
व्यम, परं' इत्यस्य स्थाने 'व्यवहर्तव्यपरम्,' इति पाठो युक्तः, 'चैतत्' इत्यस्य स्थाने 'वैतत्' इति पाठो युक्तः, तथा च एकोऽनुपयुक्तवर्तमानावश्यकपर्यायो द्रव्यावश्यकत्वेन व्यवहर्तव्य इत्येवमनुपयुक्त-द्रव्यावश्यकपदयोरक्याभावादुद्देश्य-विधेयभावः सम्भवति । या अथवा । 'एकं द्रव्यावश्यकम् ' इत्यस्य विवरणम्- 'एकोऽनुपयुक्तः' इति, यथा'पचति' इत्यस्य 'पाकं करोति' इति वित्रियमाणस्य विवरणेन सहाथैक्यमनुकूलतामेवावति, अर्थभेदे विवरण वित्रिय. माणभावस्यैवाभावादित्येवमभ्युपगमे न कश्चिद् दोष इत्येवं यशोविजयोपाध्याया वयमालोचयाम इत्यर्थः। 'आलोचयामः, इत्युक्त्या मदेकपरिशीलितोऽयमभिनवः पन्था मदन्थाध्ययनाटुभिरेवासादयितुं शक्यो नान्ये नेत्यर्थोऽभिव्यज्यते ॥१८॥ ___एकोनविंशतितमं पद्यमवतारयति- उक्तानिति । यद्यपि य एव मूल कारः स एवात्र बृत्तिकारस्तथापि मूलकर्तृतो भेदमेव विवरणकरगवेलायामात्मनि वृत्तिकारो मनुते, तेन 'सगृहामि' इत्यस्य स्थाने 'सङ्गलाति' इति पाठो युक्तः । श्लोकार्थस्य स्पष्टत्वान्नात्र विवरणं वितन्यत इत्याशयेनाह- नैगम इति स्पष्ट इति ॥ १९॥ ..विंशतितमं पश्यमवतारयति-तत्रेति- उक्तेषु सप्तसु मध्य इत्यर्थः । विवृणोति-निगमेवितीति। तेषु मध्ये नैगमादिनयेषु सप्तसु मध्ये। तद्वत्वं निगमभवत्वम् । न तदाश्रयेणोत्पत्तिकत्वं न लोकाश्रयेगोत्पत्तिमत्त्वम् , लोकाधिकरणकोत्पत्तिमत्त्वं नेति यावत् । तद्भवत्वं च' इति स्थाने 'तद्भयत्वं न' इति पाठ एव समुचितः, तमवलम्ब्यायमर्थ उपदर्शितः। निषेधे हेतुमाह-ज्ञानरूपस्येति-नयो हि ज्ञानरूपः शब्दरूपश्च, तत्र ज्ञानरूपस्य नयस्यात्मन्येवाधिकरणे उत्पत्ते., शब्दरूपस्य च नयस्य भाषावर्गणात्मकाधिकरण एवोत्पत्तेः, लोकेष्वधिकरणेषु कस्यापि नयस्योत्पत्तेरभावालो काधिकरणकोत्पत्तिमत्त्वलक्षणं लोकोद्भवत्वं नयस्य न सम्भवतीत्यर्थः । तर्हि किं तद्भवत्वमिति पृच्छतिकिन्विति । उत्तरयति- लोकप्रसिद्धार्थोपगन्तृतेति- अस्य मूलस्य विवरणम् - लोकमसिद्धार्थस्वीकर्तृत्वमिति- लोकप्रसिद्धो यः सामान्यात्मा विशेषात्मा च परस्परं भिन्नोऽर्थस्तत्खीकर्तृत्वम् , तच अस्मिन् नये स नयो नैगम