________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
-
गता:-पर्यायार्थिकाः, ऋजुसूत्रादयश्चत्वारः पर्यायार्थिका वादिनः, शब्दादयत्रय एव च क्षमाश्रमणानामिति निर्गलितोऽर्थः । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा उक्तम् " उजुसुयस्स एगे अणुवउत्ते एग दवावस्सयं पुहत्ते णेच्छइ [ अनुयोगद्वारसूत्र- १४ ] इति सूत्रं विरुध्येतेति सैद्धान्तिकाः । तार्किकानुसारिणस्तु अतीता-ऽनागत-परकीय भेद-पृथक्वपरित्यागाजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीय. वर्तमानवस्तुन एवोपगमानास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नाश्यासद्घटितभूतभावि. पर्यायकारणत्वरूपद्रव्यत्वाभ्युपमोऽपि, अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः शब्दनयेष्यतिप्रसङ्गात् । उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् , पर्यायार्थिकेन मुख्यमते इति निर्गलितार्थ दर्शयति-ऋजुसूत्रादय इति । नगमादयस्त्रयो द्रव्यार्थिकाः शब्दादयस्त्रयः पर्यायाथिका इत्यत्रोभयेषामपि सम्प्रतिपत्तिः, केवलमृजुसूत्रे पर्यायार्थिकत्वं तार्किका अभ्युपगच्छति, सैद्धान्तिकास्तु तत्र द्रव्यार्थिकत्वमभ्युपयन्ति, तत्र क्षणिकपर्यायमात्राभ्युपगन्तुर्कजुसूत्रस्य पर्याय र्थिकत्वं बुद्धिपथमारोहति, द्रव्यार्थिकत्वं तु तस्य कथं सैद्धान्तिकैराश्रितमित्यपेक्षायामाह-ऋजुसूत्र इति। 'उक्तम्' इत्यस्य 'सूत्रम्' इत्यनेनान्वयः। सूत्रमुल्लिखति- उजु. इति"ऋजुसूत्रस्यैकोऽनुपयुक्त एकं द्रव्यावश्यकं पृथक्वं नेच्छति" इति संस्कृतम्, इदं सूत्रं द्रव्यावश्यकाभ्युपगन्तृत्वमृजुसूत्रस्य प्रतिपादयति, तस्य विरोष ऋजुत्रस्य द्रव्यर्थिकत्वानभ्युपगमे इति ऋजुसूत्रस्य द्रव्यार्थिकत्वमुक्तसूत्रानुरोधादभ्युपगन्तव्यमिति सैद्धान्तिका वदन्तीत्यर्थः । ननूक्तसूत्रं तार्किकाणामपि मान्यमैवेति कथं द्रव्यार्थिकत्वं तस्य तार्किका नाभ्युपगच्छन्तीत्यत आह- तार्किकानुसारिणस्त्विति । अतीतेति- अतीतादीनां परित्यागस्तदनभ्युपगम एव । यद्यतीतादय ऋजुसूत्रेण परित्यज्यन्ते तर्हि तत्परित्यागस्तेन किमुपेयते इत्यपेक्षायामाह-स्वकार्येति-अतीतो विनष्टत्वादनागतस्तदानीमभावात् परकीयधनादिकं परतन्त्रत्वान्न स्वकार्यसाधकं किन्तु स्वकार्यसाधकं स्वकीयं वर्तमानमेव वस्त्विति स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवं ऋजुसूत्रेणाभ्युपगमादित्यर्थः । नास्येति- अस्य ऋजुसूत्रस्य, 'तुल्यांशलक्षणद्रव्यं गोत्वादितिर्यक्सामान्य समानाकारपरिणतिलक्षणम् , ध्रुवांशलक्षणद्रव्यं मृत्पिण्डशरावोदञ्चनाद्यनुगतं कालत्रयानुगामि मृद्व्यम् ' इत्युक्तद्रव्यद्वयस्याभ्युपगमो न, तथा च निरुक्तद्रव्याभ्युपगन्तुर्नयस्यैव द्रव्यार्थिकत्वम्, निरुक्तद्रव्याभ्युपगन्तृत्वाभावाजुसूत्रस्य न द्रव्यार्थिकत्वमित्यर्थः । अत एव स्वकी यवर्तमानवस्तुमात्राभ्युपगन्तृत्वादेव । 'नाश्य' इति स्थाने 'नास्य' इति पाठो युक्तः, अस्य ऋजुसूत्रस्य, भूत-भाविनोवर्तमान कालेऽसत्त्वादसद् यद् भूतं भावि च तद्धटितं यद् भूतपर्यायकारणत्वरूां यच्च भाविपयोयकारणत्वरूपं द्रव्यत्वं तस्याभ्युपगमोऽपि नेत्यर्थः । अध्रवेति-अध्रव अनित्या ये धर्मास्तेषामाधारभूतो यो वस्त्वंशस्तदात्मकद्रव्यमपि ऋजुसूत्रस्य न विषय इत्यर्थः । यद्यध्रवधर्माशद्रव्यविषयकत्वमृजुसूत्रस्याभ्युपगम्य द्रव्यार्थिकत्वं तदा शब्दनयेषु शब्दसमभिरूढैवम्भूतेषु तथाभ्युपगमतो द्रव्यार्थिकत्वं प्रसज्यतेत्यर्थः, तदेवं यद् यद् द्रव्यपदेन व्यपदिश्यते तस्य सर्वस्य न ऋजुसूत्रविषयत्वमिति द्रव्यमात्रविषयकत्वाभावाहजुसूत्रस्य न द्रव्यार्थिकत्वमित्याशयः । ऋजुसूत्रस्य द्रव्यार्थिकत्वानभ्युपगमे "उजुसूयस्स." इति सूत्रविरोधः सैद्धान्तिकैर्य उद्भाव्यते तं परिहरति-उकसूत्रं त्विति-'अनुपयोगो द्रव्यम् ' इति वचनादनुपयोग एव द्रव्यम् , तमुरादाय वर्तमानावश्यकपर्याय एवं द्रव्यपदस्योपचारो गौणवृत्तिः, ततोऽद्रव्येऽपि वर्तमानावश्यकपर्याये द्रव्यपदप्रयोगस्तेन ऋजुसूत्रस्य वास्तविकद्रव्यविषयकत्वाभावेन द्रव्यार्थिकत्वाभावेऽपि वर्तमानावश्यकपर्यायानुपयोगरूपोपचरितद्रव्यविषयकत्वं सम्भवतीति नोकसूत्रविरोध इत्यर्थः। ननूक्तलक्षगद्रव्यविषयकत्वमपि पर्यायार्थिकस्य तस्य कथम् ? तत्त्वे पर्यायार्थिकत्वमेव तस्य न स्याद् द्रव्याप्रतिक्षेपकत्वादित्यत आह-पर्यायार्थिकेनेति । 'मुख्यद्रव्यपदार्थस्यैव' इत्येवकारेणोपचरितद्रव्यपदार्थस्य व्यवच्छेदः, तेनोपचरितद्रव्यपदार्थाप्रतिक्षेपकत्वेऽपि पर्यायार्थिकत्वस्य न हानिः । ननु अन्यविषयकानुपयोगो नान्यस्य द्रव्यम्, नहि घटानुपयोगो द्रव्यपटः, किन्तु घटविषयकानुपयोगो घटद्रव्यमिति, तथा च 'एकोऽनुपयुक्तः' इत्यत्र वर्तमानाव. श्यकपर्यायविषयकानुपयोग एव 'अनुपयोग' इत्यनेनाभिमतः, द्रव्यावश्यकमपि वर्तमानावश्यकपर्यायविषयकानुपयोग इति, तथा चाथैक्याद् यथा घटो घट इत्येवमुद्देश्य-विधेयभावो न भवति तथा प्रकृतेऽप्यथै क्यादुद्देश्य-विधेयभावानुपपत्तिः