________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलईतो नबोपदेशः ।
धिकरणताग्रहे विरोधाभावात् । अवच्छेदकरूपानुपस्थितौ कथमवच्छेथकारणतामहः कारणताया ससम्बन्धिकपदार्थत्वेन तत्प्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादिति चेत् ? न- " अयं घटः" इति समवायप्रत्यक्ष व्यभिचारात् । अथ येन समवायत्वादिना रूपेण ससम्बन्धिकता तेन रूपेण तत्प्रत्यक्षे तस्य हेतुत्वान्न व्यभिचार इति चेत् ? न- तथापि ससम्बन्धिकतावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वमित्यत्र सम्बन्धिमात्रवृत्तित्वस्यैवावच्छेदकपदार्थत्वात् , प्रकृते च इयं वहिव्यक्तिस्तृणजन्येति कारणताप्रत्यक्ष. स्यापि तृणकार्यताश्रयमात्रवृत्त्यैतद्वद्वित्वप्रकारकज्ञानसाध्यत्वसम्भवात् , यद्वा इयं वहिव्यक्तिस्तृणजन्येति प्रत्यक्षस्यैतद्वतित्वावच्छिन्नकार्यतावगाहित्वेऽप्यवच्छेदकत्वांशे भ्रमत्वेऽपि कार्यतांशे प्रमात्वान कोऽपि दोषः । अथान्वय-व्यतिरेकाग्रहाप्रकारकजात्या कार्यत्वकल्पनाऽनौचित्यात् तथाभूतशक्त्या कारणत्वमेव ससम्बन्धिकपदार्थप्रत्यक्षे सम्बन्धि ज्ञानस्य कारणत्वादवच्छेदकरूपसम्बन्धिज्ञाने सत्येवावच्छेद्यकारणत्वग्रहो नान्यथेत्यवच्छेदक. धर्मानुपस्थितौ कारणत्वग्रहो न सम्भवतीत्याशङ्कते- अवच्छेदकरूपानुपस्थिताविति । समाधत्ते-नेति- अयं घट इति प्रत्यक्षे घटत्वप्रकारकेदंविशेष्यके समवायोऽपि संसर्गतया भासत इति समवायस्यापि तत् प्रत्यक्षं भवति, न च ततः प्राग घटत्वेन घटस्य सम्बन्धिनः प्रत्यक्षं समस्ति यत् कारणं भवेदिति सम्बन्धिप्रत्यक्षमन्तराऽपि ससम्बन्धिकसमवायज्ञानस्य भावेन व्यभिचारान्निरुक्ककार्यकारणभावस्यासम्भवादित्यर्थः। नन्वयं घट इति प्रत्यक्षे समवायः संसर्गतयैव भासते न नित्यसम्बन्धत्वलक्षणसमवायत्वेन, निरुक्तसमवायत्वेनैव च तस्य ससम्बन्धिकपदार्थत्वमतस्तेन रूपेण तत्प्रत्यक्षत्वावच्छिन्नं प्रत्येव सम्बन्धिज्ञानस्य हेतुत्वादयं घट इति प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचार इत्याशङ्कते- अथेति । तेन रूपेण समवायत्वेन रूपेण । तत्प्रत्यक्षे समवाय प्रत्यक्षे। तस्य सम्बन्धिज्ञानस्य । समाधत्ते-नेति । तथापि उक्तप्रकारेण कार्यकारणभावाश्रयणेनायं घट इति समवाय प्रत्यक्षे व्यभिचारपरिहारेऽपि । “ससम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन" इत्यस्य स्थाने “ससम्बन्धिकतावच्छेदकप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन" इति पाठो युक्तः। सम्बन्धिमात्रेति- तथा च ससम्बन्धिपदार्थवृत्तिप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धिवृत्तिप्रकारकज्ञानत्वेन कारणत्वमित्यत्रैवोक्त कार्यकारणभावपर्यवसानम् , सम्बन्धत्वस्य ससम्बन्धिसमवायमात्रवृत्तित्वाभावात् संसर्गस्य संसर्गतयैव भानम् , तद्विशेषणस्य विशेषणत्वमेव न प्रकारत्वमिति सम्बन्धत्वस्यायं घट इति प्रत्यक्ष प्रकारत्वाभावात् ससम्बन्धिकसमवायमात्रवर्तिनः समवायत्वस्यापि तत्र प्रकारत्वाभावादयं घट इति समवाय प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वात् तत्र व्यभिचारः परिहृत एव भवति । वह्निणयोः कार्यकारणभावे तृणनिष्ठकारणताया आश्रयतया सम्बन्धि तृणं निरूपकतया वहिव्यक्तिर्न तु वह्निमात्रं व्यभिचारेण तृणनिष्ठकारणताया वहिनात्रनिरूपितत्वाभावात् , एवं च निरुक्तकारणताप्रत्यक्षमियं वहिव्यक्तिस्तृणजन्येत्याकारकं तस्य तृणकार्यताश्रयवहिव्यक्तिरूपसम्बन्धिमात्रवृत्त्येतद्वहित्वप्रकारकज्ञानजन्यत्वेन व्यभिचाराभावादित्याह-प्रकृते चेति । इयं वह्निव्यक्तिस्तृणजन्येति वह्नि-तृणयोः कार्यकारणभावप्रत्यक्षं तृणत्वावच्छिन्नकारणतानिरूपितैतद्वहित्वावच्छिन्नकार्यतावती वहिव्यक्तिरियमित्याकारकत्वेन तृणनिरूपितवहिनिष्ठकार्यतायामेतद्वदित्वावच्छिन्नत्वस्याभावेऽप्येतद्वह्नित्वावच्छिन्नत्वस्यावगाहनात् तदंशे भ्रमत्वेऽप्येतद्वहिव्यक्तौ तृणनिरूपितकार्यतायाः सत्त्वात् तदंशे प्रमात्मकमेव, तस्य च वह्निनिष्ठतद्वयक्तित्वप्रकारकज्ञानजन्यत्वमस्त्येवेति न कश्चिद् दोष इति कल्पान्तरमाह-यद्वेति । ननु तृणसत्त्वे एतद्वहिसत्त्वं तृणाभावे एतद्वयभाव इत्येवमन्वय-व्यतिरेकग्रहो नात्र सम्भवति, एतदहिव्यतरपूर्वत्वेन तस्याः कदाचिदपि पूर्व तृणतोऽभावाद् वड्यन्तरस्य तृणान्तरात् पूर्व भावेऽपि तत्रैतद्वह्नित्वस्याभावादिति नैतदहित्वेन तृणत्वेन कार्यकारणभावग्रहः सम्भवति, तृणजन्यवहिमात्रवर्तिवहित्वावान्तरजातेश्च नान्वय-व्यतिरेकग्रहप्रकारत्वमिति न तया कार्यकारणभाव. कल्पना युक्तेति तृणा-ऽरणि-मणिष्वेका बलयनुकूला शक्तिरस्ति, तयैव तृणादीनां वहित्वावच्छिन्नं प्रति कारणत्वमिति तृणनिष्ठनिरुक्तशक्त्यवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकं वहित्वमेवेत्यारेकते-अथेति । " अथान्वयव्यतिरेकाग्रहाप्रकारकजात्या" इत्यस्य स्थाने " अथान्वय-व्यतिरेकप्रहाप्रकारजात्या" इति पाठो युक्तः, तथाकल्पनाऽनौचित्यं चाप्रत्यक्षीभूतस्य बहित्वावान्तरजातित्रयस्य कल्पने गौरवादेव । तथाभूतशक्त्या अन्वय-ध्यतिरेकग्रहाप्रकारीभूततृणारणिमण्यनुगतवयनु