________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
कल्प्यतां लाघवात् इति चेत् ? न- तृणादेः फूत्कारादिसहकारिनिय मानुपपत्तेर्मणिफूत्कारादिनापि वह्नयाद्युत्पत्तिप्रसङ्गात्, तथा च फूत्कारादिजन्यविजातीयवह्नौ तृणत्वादिना हेतुत्वस्यावश्यकत्वात्, न च तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति न तन्नियमानुपपत्तिः, तर्हि तृणत्वादिना तृणादीनामहेतुत्वेऽकारणत्वेनैव सामयिकशक्तिविशेष कल्पनप्रसङ्गात्, तथाभूताभावविशेषस्यैव वा तत्रौचित्यान्नायमपि ।
जातिभेदस्यानुभविकत्वादेव तत्तदवच्छिन्ने तृणत्वादिना हेतुत्वमित्यन्ये, वह्नित्वावच्छिन्ने विलक्षणो
३७१
ܕܕ
कूलशक्त्या । लाघवादिति - तथाभूता शक्तिरेकैवेत्यनेक जाति कल्पनाऽपेक्षयैकशक्तिकल्पने लाघवादित्यर्थः । फूत्कारह तृणादेव वह्नयुत्पत्तिर्निर्मन्थन सहकृतादरणेरेव वह्नयुत्पत्तिः सूर्यकिरण संयोगसह कृतान्मणेरेव वह्नयुत्पत्तिरिति तृणादेः फूत्कारायेव सहकारीति नियमो न भवेत्, फूत्कारादीनां वह्नयनुकूलशक्तिमत एव सहकारित्वेन फूत्कारसचिवारण्यादितोऽपि वह्निरुत्पयेते ति समाधत्ते - नेति । तथा च वहिं प्रत्येकशक्तिमत्वेन तृणादीनां कारणत्वस्य कल्पयितुमशक्यत्वे च । फूत्कारादीत्यादिपदान्निर्मन्थन र विकिरणसंयोगयोरुपग्रहः, तृणत्वादिनेत्यत्रादिपदादरणित्वमणित्वयोरुपग्रहः एवं च फूत्कारजन्य विजातीयवर्द्धि प्रति तृणत्वेन तृणस्य, निर्मन्थनजन्यविजातीयविद्धिं प्रति अरणित्वेनारणेः, तरणिकिरणप्रतिफलनजन्यविजातीय वहिं प्रति मणिवेन मणेश्च हेतुत्वस्याssवश्यकत्वादित्यर्थः । ननु तृणफूत्कारसंयोगे निर्मन्थनारणिसंबन्धे तरणिकिरणमणिसंयोगे च वह्ननुकूलशक्तिरेकोपेयते, तादृशशक्तिमखेन तृणफूत्कारसंयोगादीनां वद्धिं प्रति कारणत्वे नोक्तदोषप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति । न तन्नियमानुपपत्तिः न सहकारिनियमानुपपत्तिः । यत् कारणं तत् कार्यानुकूलशक्तिमत् यच्च न कारणं न तत् कार्यानुकूलशक्तिमदिति कार्यकारणेषु कार्यानुकूलशक्तेरिव कार्याकारणेषु कार्याननुकूलशक्तेरपि स्वसमय सिद्धायाः कल्पनं स्याद्, एवं च तृणत्वादिना तृणादीनां वह्निकारणत्वाभावे तेष्वकारणत्वेन स्वसमयसिद्धस्य शक्तिविशेषस्य कल्पनं प्रसज्येतेति समाधत्ते - तर्हीति । तथाभूतेति तृणफूत्कारसंयोगभिन्नत्वे सति अरणिनिर्मन्थनसम्बन्धभिन्नत्वे सति तरणिकिरणसंयोगभिन्नो यस्तद्भिन्नत्वरूपान्यतमत्वात्मकाभावविशेषस्यैव वा तत्र तृणफूत्कार संयोगादिषु वह्निकारणतावच्छेदकतया कल्पनौचित्य प्रसङ्गादित्यर्थः । भवत्वन्यतमत्वेनैव कारणत्वं किं नश्छिन्नमित्यत आह- नायमपीति - अन्यतमत्वेन कारणत्वमपि न सम्भवति, अन्यतमत्वस्य भेदकूटावच्छिन्न भेदरूपतया तत्र कूटत्वस्यैकविशिष्टापरत्वात्मकत्वेन विशेष्य-विशेषणभावे विनिगमनाविरहादन्यतमत्वस्यानेकरूपतया तदवच्छिन्नकारणत्वस्याप्यनेकत्वप्रसङ्गादित्यर्थः । एवं च वह्नित्वावान्तरजातित्रयस्य प्रत्यक्षसिद्धस्यैव तृणादिजन्यतावच्छेदकत्वमिति विजायतीयवह्नित्वावच्छिन्नं प्रति तृणत्वेन विजातीयवह्नित्वावच्छिन्नं प्रति अरणित्वेन, विजातीयवहित्वावच्छिन्नं प्रति मणित्वेन कारणत्वमित्येवं कार्यकारणभावत्रय कल्पनमेव ज्याय इत्याहवह्नौ जातिभेदस्येति । अन्ये इति - उदयनाचार्याः, तथा च तन्द्रथ:- “ फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात्, दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो नितरां च कारीषः । यस्तु तं नाकलयेत् स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपपन्नम् एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात्, यस्य दहनापेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः, एतेन व्यतिरेको व्याख्यातः तथा च कार्यानुपलब्धिलिङ्गभङ्ग स्वभावस्याप्यसिद्धेर्गतमनुमानेनेति चेत् ? प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः, अस्माकं तु यत्सामान्याकान्तयोर्ययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः, तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः, किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकं तृणादीनां विशेष एव नियतत्वादिति चेत् ? तेजोमाशोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः, इयमेव सामग्री गुरुत्ववद् द्रव्यसहिता पिण्डितस्य, इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्, तत्रापि जलं प्राप्य दिव्यम्, पार्थिवं प्राप्य भौमम्, उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयमिति । " अनन्तर मुल्लिखिते उदयनाचार्य प्रन्थ एव " इयमेव तेजोगत मुद्भूतस्पर्शमपेक्ष्य इत्युक्तया प्राचीननैयायिकानामुदयनाचार्य प्रभृतीनामेव मतमेतत् यदुत - वह्नित्वावच्छिन्ने विलक्षणोष्णवत्तेजः कारणमिति, युक्तं चैतत्, अन्यमतोपदर्शने वह्नित्वावान्तरवैजात्यवच्छिने तृणत्वादिना कारणत्वोपदर्शनेऽपि वनित्वावच्छिन्ने
दहनम्