________________
३७२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
ष्णस्पर्शवत्तेजः कारणमिति नव्याः, तेजस्त्वेन तत्र हेतुत्वम् , व्यणुकात्मकवह्नौ तृणत्वादिना, त्रसरेण्वादि. निष्ठवैजात्यावच्छिन्ने व्यणुकादिनिष्ठवह्नित्वेनेत्येतस्मात् कचिदेकान्तेन कचिच्च विकल्पेन, दण्डवादिना घटादौ तृणत्वादिना च वह्निविशेषादौ कारणतायुक्तागमबलात् तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽऽवश्यकीति नानुपायवादः श्रेयानिति नैयायिकादयः। ----
वयं तु ब्रूमः- तन्तोरेव पटो न कपालादेरिति, कुन इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे . किं हेतुविषये, उत नियामकविषये ? उभयत्रापि किं धालम्बने, उत धर्मालम्बने ? आद्य-तन्तु.
जन्यकपालाजन्यपटे स्वभावो हेतुरित्यागतम् , स च स्वात्मैवेत्यात्माश्रयः, द्वितीयेऽपि स एव दोषः स्वस्य स्वनियामकत्वासम्भवात् , भेदगर्भनियामकस्यैव जिज्ञासितत्वाच्च, न तृतीयः- धर्महेतोरजिज्ञासि.
कस्यचित् कारणस्यानुपदर्शनाद् वह्नित्वावच्छिन्ने किं कारणमित्याकाङ्खायास्तन्मतेऽनिवृत्तः, तस्मादन्यमतमेवैतत् । तथा च "मित्यन्ये" इत्यस्य स्थाने “मिति । अन्ये" इति पाठः "कारणमिति" इति स्थाने “ कारणमिति।" इति पाठः । "नव्याः," इत्यस्य स्थाने “ नव्यास्तु" इति पाठेन भाव्यम् , तस्य तेजस्त्वेनेत्याद्याग्रिमग्रन्थे समन्वय इति बोध्यम् । तत्र वह्नित्वावच्छिन्ने । तृणत्वादिनेत्यनन्तरं हेतुत्वमित्यनुषज्यते, एवमग्रेऽपि, तेजस्त्वावान्तरजातेः परमाण्वात्मकतेजस्थनुपगमान्न द्वयणुकात्मकवह्नौ परमाणुनिष्ठवह्नित्वेन कारणत्वसम्भव इति व्यणुकात्मकवह्नौ तृणवादिना हेतुत्वमङ्गीकृतम् । त्रसरेण्वादिनिष्ठेति-व्यणुके तेजस्त्वावान्तरवह्नित्वजातिः सम्भवतीति तद्रूपेण व्यणुकात्मकवह्वेनसरेण्वात्मकवहिगतवैजात्यावच्छिन्नं प्रति कारणत्वं सम्भवतीति । उपसंहरति-तस्मादिति । “नेत्यतस्मात्" इत्यस्य स्थाने " नेति, तस्मात्" इति पाठो युक्तः । क्वचिदेकान्तेनेति-घटादौ दण्डादेर्दण्डत्वादिना यत् कारणत्वं तदेकान्तेन, न हि दण्डादिकमन्तरेण कस्यापि घटादिजातीयस्य सम्भव इति, वह्निविशेषादौ तृणस्वादिना तृणादेयत् कारणत्वं तद् विकल्पेन, तृणाद् वा मण्यादितो वा वह्निविशेषादेः सम्भव इति । "कारणतायुक्तागम" इत्यस्य स्थाने "कारणता युक्ता, आगम" इति पाठो युक्तः। तत्वज्ञानत्वेनेति-मोक्षं प्रति तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽवश्यमभ्युपेयेत्यर्थः। इति एतस्मात् कारणात् । अनुपायवादः नियतिवादिनां स्वभावादेव कार्यमात्रमुपजायते न कस्यचित् किञ्चित् कारणमिति तत्त्वज्ञानादिकमन्तरेणापि मोक्षो भविष्यत्येवेति न तदर्थमायासो विधेय इत्यनुपायवादो न श्रेयान् न युक्त इति नैयायिकादयो वदन्तीत्यर्थः । -
स्वयं नियतिवादखण्डनमुपदर्शयति-वयं त्विति- स्याद्वादिनोऽस्मदादय इत्यर्थः। “रिति, कुत" इत्यस्य स्थाने "रिति कु" इति पाठो युक्तः । कि हेतूविषये इति-तन्तोरेव पटो न कपालादेरिति कस्माद्धेतोरिति हेतुविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेवेति हेतुविषयकमुत्तरमित्येवं प्रश्नोत्तरे किं हेतुविषये इत्यर्थः, उत नियामक विषये इति- तन्तोरेव पटो न कपालादेरिति कस्मानियामकादिति नियामकविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेव नियामकादित्येवं किं नियामकविषये प्रश्नोत्तरे इत्यर्थः । उभयत्रापि हेतुविषयप्रश्नोत्तरयोर्नियामकविषयप्रश्नोत्तरयोश्च । आधे धालम्बने हेतुविषये प्रश्नोत्तरे इति प्रथमपक्षे। आगतम उत्तरस्वरूप प्राप्तम् । धालम्बनपक्षे स्वमेव भावः स्वभाव इत्येतत्पक्षे व्युत्पत्त्या स्वभावः स्वमेव भवेत् , तथा च स्वस्मादेव भवतीति, न चैकस्यैव पौर्वापर्यनियतकार्यकारणभावः संभवत्यात्माश्रयश्चात्र दोष इत्याह- स चेति स्वभावश्चेत्यर्थः । द्वितीयेऽपि धालम्बने नियामकविषये प्रश्नोत्तरे इति द्वितीयपक्षेऽपि । स एव आत्माश्रय एव, यथाऽऽत्माश्रयात् स्वं न स्वस्य हेतुस्तथाऽऽत्माश्रयात् स्वं न स्वस्य नियामकमित्याह-स्वस्येति । जिज्ञासितविषयत्वात् प्रश्नस्य नहि स्वं स्वनियमकारीति स्वभिन्ननियमकारिणो जिज्ञासितत्वात् तद्विषयकप्रश्नस्योत्तरं स्वभिन्ननियामकविषयकमेव भवितुमर्हतीति निरुक्कोत्तरस्य स्वात्मनियामकगोचरस्य न तथात्वसम्भव इत्याह- मेदगर्भेति। न तृतीय इति धर्मालम्बने हेतुविषयप्रश्नोत्तरे इति तृतीयपक्षोऽपि न युक्त इत्यर्थः । निरकनिषेधेऽपि पूर्वोक्तमेव हेतुमुपदर्शयति-धर्महेतोरिति । नापि चतुर्थ इति - धर्मालम्बने नियामकविषये प्रश्नोत्तरे इति