________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो न्योपदेशः ।
३७३
तत्वात् , नापि चतुर्थः- पटे तन्तुजन्यत्व-कपालाजन्यत्वधर्मशालित्वस्य तत्स्वभावनियम्यत्वे निरूपकत्वेन स्वस्यैव प्रवेशात् । एतेन तत्तत्प्रकारकेश्वरेच्छा-ज्ञानरूपाया नियतेर्नियामकत्वमपि पामराभ्युपगतं निर. स्तम् । तस्मात् स्वभावो नाम स्वहेतुस्तस्मादुक्तधर्मशालित्वमित्येव व्याख्यातुमुचितम् । तावद्धर्मावच्छिन्न. तव्यक्त्युपपत्तौ तावद्धर्मविशिष्टतन्निरूपितभव्यतानुप्रवेशेनैव तद्धेतोळप्रियमाणत्वादि(त्वा)नादित्वा(च)वध्यवधिमत्प्रवाहस्यानवस्थादिदोषाननुपातात् । अयमेव जैनानां तथाभव्यत्वहेतुताप्रवादः, एतदनभ्युपगमे च तीर्थकरा-ऽतीर्थकर-प्रत्येकबुद्ध-बुद्धबोधितादिसिद्धकार्यभेदः कथमुपपादनीयः, तत्रान्यपुष्कलहेत्व. भावात् , अथेयं चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वा दिनापि कार्यता स्यादिति चेत् ? स्यादेव किं नः
चतुर्थपक्षोऽपि न युक्त इत्यर्थः । तत्र हेतुमाह-पट इति । तत्स्वभावनियम्यत्वे पटगततन्तुजन्यत्व-कपालाजन्यत्वात्मकस्वभावनियम्यत्वे, नियम्यं- निरूप्यम् , नियामकं च-निरूपकम् , न च स्वमेव स्वस्य निरूपकम्, प्रकृते तु निरूप्यमेव निरूपकशरीरे प्रविष्टमिति निरूप्यत्वेन स्वस्यैव प्रवेशादात्माश्रयापातेन नेदमप्युत्तरं समीचीनमित्यर्थः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । एतेन नियामकशरीरप्रवेशप्रयुक्तनिरूपकत्वत आत्माश्रयापातेन । तत्तदिति- यथा पटे यत्तन्तु जन्यत्वकपालाजन्यत्वात्मकधर्मस्तत्प्रकारिका येश्वरेच्छा तत्प्रकारकं वा यदीश्वरज्ञानं तद्रूपायास्तदात्मिकाया नियतेर्नियामकत्वमपि घटगतोकधर्मत्य नियम्यस्य निरुक्तनियामकशरीरसन्निविष्टतया निरूपकत्वत आत्माश्रयप्रसङ्गदोषप्रस्तमतः पामराभ्युपगतं मुर्खकल्पविद्धन्मन्यस्वोकृतं खण्डितमवसेयमित्यर्थः। तस्मात् स्वभावादेव-स्वहेतुत एव पटे तन्तुजन्यत्वकपालाजन्यत्वधर्मशालित्वमिति हेतुहेतुमद्भावोऽस्मदायुपगतः श्रेयानिति निगमयति-तस्मादिति। तन्तुजन्यत्व-कपालाजन्यत्वादियावद्धर्मविशिष्टपटव्यक्तस्तथाभव्यत्वादेवोत्पाद इति तथाभव्यत्वहेतुताप्रवादं जनानां सङ्गमयति-तावद्धर्मावच्छिन्न तद्वयक्त्युपपत्ताविति- " तद्वयक्त्युपपत्तौ" इत्यस्य स्थाने " तद्वयक्त्युत्पत्तौ” इति पाठः सम्यग्, अस्य तद्धेतोाप्रियमाणत्वादित्यनेनान्वयः। तन्निरूपितेति- तत्सक्तिनिरूपितेत्यर्थः । भव्यताऽनुप्रवेशेनैवेति-नोकस्मात् कारणादेव कार्यमुपजायते किन्तु कारणकूटलक्षणसामग्रीत एव, अत एव नह्येक किश्चिजनक किन्तु सामग्री वैजनिकेति प्राचीनीयते, सामम्यां च कारणान्तरसन्निवेशवत् तावद्धर्मविशिष्टतद्यक्तिनिरूपितभव्यत्वमपि प्रविशतीत्येवं भव्यत्वानुप्रवेशेनैवेत्यर्थः । “दि(त्वा)नादित्या( द्य)वध्य" इत्यस्य स्थाने “दित्यनाद्यवध्य" इति पाठः सम्यक् , इति एतस्मात् कारणात् , अनाद्यवध्यवधिमत्प्रवाहस्यति- अवधिहेतुः, अवधिमत् कार्यम् , तयोः प्रवाहः-परम्परा, तथा अनादिश्चासाववध्यवधिमत्प्रवाहश्चानाद्यवध्यवधिमत्प्रवाहस्तस्येत्यर्थः, अनाद्यवध्यवधिमत्प्रवाहस्य तथाभव्यत्वादेव भावेन भव्यत्वस्वभावाद् भवतस्तस्यानवस्थादिदोषाननुपातात् , अनवस्थितस्वरूपे तस्मिन्ननवस्थामन्तरेण तथामव्यत्वमेवानुपपन्नमिति प्रामाणिकीयमनवस्था न दोषावहेत्यनवस्था या भावेऽपि तस्या न दोषरूपतेत्येवमनवस्थादिदोषाननुपातादित्यर्थः । अयमेव कारणकूटे तावद्धर्मविशिष्टतद्व्यक्तिनिरूपितभव्यत्वानुप्रवेशेन तद्धेतोस्तावद्धर्मावच्छिन्नतात्युत्पत्ती व्याप्रियमाणत्वमित्यभ्युप. गमवाद एव । एतदनभ्युपगमे च निरुक्ततथाभव्यत्वहेतुतावादानभ्युपगमे च । तीर्थकरेति- यस्तीर्थकरो भूत्वा सिद्धथति स तीर्थकरसिद्धः, यश्चातीर्थकर एव सिद्धयति सोऽतीर्थकरसिद्धः, एवमग्रेऽपि, तत्त्वज्ञानादितो मोक्षमासादयतां जीवानां योऽयं तीर्थकरसिद्धादिलक्षणकार्यभेदः स तथाभव्यत्वस्य कारणत्वस्वीकारमन्तरेण कथमुपपादनीयः, उपपादयितुमशक्य इत्यर्थः । तत्र हेतुमाह- तत्रेति-तीर्थकरसिद्धादिकार्यभेदे इत्यर्थः । अन्यपुष्कलहेत्वभावादिति- केवलज्ञानादिकारणकदम्बकं सर्वत्र समानमेव, किन्तु तथाभव्यत्वान्येव प्रतिनियतकार्यनिरूपितानि विभिन्नानि कारणानि, तत्प्रवेशत एव सामध्या अपि भेदः, तथाभव्यत्वस्य कारणत्वानभ्युपगमे तु तथामव्यत्वान्यस्य पुष्कलहेतोः सामग्रीलक्षणस्य कार्यविभेदकस्याभावादित्यर्थः। ननु कार्ये यावन्तो धर्माः सम्भवन्ति तावद्धर्मविशिष्ट कार्यव्यक्ति प्रति तथाभव्यत्वस्याभिहितस्वरूपस्य कारणत्वाभ्युपगमे तावद्धर्मावच्छिन्नत्वमपि कार्यतायां स्यात् , तथा च कुत्रचिद् घटे चैत्रावलोकितत्वं मैत्रनिर्मितत्वं नीलेतरत्वं घटत्वादिकं चास्तीति तावद्धविच्छिन्ना घटनिष्ठकार्यताऽऽपाद्यत इत्याशङ्कते- अथैवमिति । इष्टापत्तिरवात्र समाधानमित्याहस्यादेवेति- चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वादिना कार्यता स्यादेवेत्यर्थः। किनश्छिन्नं तथाभव्यत्वकारणत्ववादिनां