SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २२१ ध्येयम्, इति-एवं समासद्वयशुद्धिमान् शब्दनयः प्राह, न चैवं धर्मे धर्मो वा प्रदेशो नोद्रव्यमित्यपि स्यादनिर्धारितसामान्यैकव्यक्तिविधेयतायामेव नोशब्दप्रयोगात्, धर्मास्तिकायाद्यकव्यक्तनिर्धारिताया एव विधेयत्वादिति ध्येयम् ॥ ६ ॥ ब्रूते समभिरूढस्तु, भेदाप्तेर्नात्र सप्तमी। देश-प्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् ॥ ६१ ॥ नयामृत०-ब्रूत इति । समभिरूढनयस्तु 'धर्मे प्रदेशः' इत्यादिसप्तमीसमासं [ न ] ब्रते, तथाप्रयोगे ‘कुण्डे बदरम्' इत्यादेरिव भेदाप्तेः- भेदबुद्धिप्रसङ्गात् , ' घटे घटस्वरूपम् ' इत्यादी कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकबोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वात् ; तत्पुरुषे पदलक्षणा. सत्त्वात् कर्मधारये चाभेदस्य संसर्गविधयैव लाभात् तदभावेन लाघवादेव कर्मधारयपक्षः समभिरूढ. नयेनाश्रीयत इत्यपरे । मुक्तिरिति निर्गलितोऽर्थः। इतीति मूलस्य विवरणम्-एवमिति - अमुना प्रकारेणेत्यर्थः । समासद्वयशद्धिमान सप्तमीतत्पुरुष-कर्मधारयलक्षणसमासद्वयमाश्रित्य धर्मास्तिकायप्रदेशादिशब्दार्थाभ्युपगन्तृत्वलक्षणा या शुद्धिस्तद्वान् । नन्वेवं सकलद्रव्येकदेशविवक्षितधर्मास्तिका यात्मकद्रव्यात्मकत्वस्य धर्मास्तिकायप्रदेशे प्रतिपादनाय धर्मास्तिकाये प्रदेशे नोद्रव्यमिति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो नोद्रव्यमिति कर्मधारयेण वाऽभिलापोऽपि कर्तव्यकुक्षिमास्कन्देदित्याशय प्रतिक्षिपति-न 'चैवमिति । धर्म धर्मास्तिकाये। धर्मो वा धर्मास्तिकायो वा। निषेधहेतुमुपदर्शयतिभनिर्धारितेति- 'जीवे प्रदेशो जीवो वा प्रदेशः' इत्यत्र 'स्कन्धे प्रदेशः स्कन्धो वा प्रदेशः' इत्यत्र च जीव मान्यस्य वा यकव्यक्तिः, अनिर्धारिताया एव तस्या विधयताया, न त्वस्मिन् जोवे प्रदेशोऽयं जीवः प्रदेश इत्येवं निर्धारितामा जीवव्यक्तर्विधेयता, नवास्मिन् स्कन्धे प्रदेशोऽयं स्कन्धः प्रदेश इत्येवं निर्धारिताया स्कन्धव्यकेर्विधेयतेति तस्यामेवानिर्धारितसामान्यकव्यक्तिविधेयतायां सत्यां नोजीयो नोस्कन्ध इत्येवं नोशब्दप्रयोगादित्यर्थः । धर्मास्तिकायेति- धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेश इत्यादौ तु द्रव्यसामान्यस्य या धर्मास्तिकायादिलक्षणैकव्यक्तिस्तस्या निर्धारिताया एव विधेयता, न तु द्रव्यसामान्यवाचिद्रव्यशब्देन तस्या उपादानं येनानिर्धारितायास्तस्य विधेयता स्यादिति निर्धारितसामान्यैकव्यक्तिविधेयत्वादेव नोद्रव्यमित्येवं न तत्र नोशब्दप्रयोग इत्यर्थः ॥ ६॥ प्रदेशविषये समभिरूलै सम्भूतयोर्मन्तव्योपदर्शकमेकषष्टितमपद्यं विवृणोति- ब्रत इतीति। 'धर्म प्रदेश इत्यादि। इत्यत्रादिपदाद 'अधर्म प्रदेशः, आकाशे प्रदेशः, जीवे प्रदेशः, स्कन्धे प्रदेशः' इत्यस्य सङ्ग्रहः । कथं सप्तमीतत्पुरूषसमासं प्रकृते समभिरूढनयो नाभ्युपगच्छतीत्यपेक्षायामाह- तथा प्रयोग इति-धर्मे प्रदेश इत्यादिप्रयोग इत्यर्थः । कुण्डे बदरमित्यादेरिवेति- कुण्डे बदरमिति सप्तम्यन्तकुण्डपदसमभिव्याहृतबदरपदाद् यथा बदरे कुण्डभेदबुद्धिस्तथेत्यर्थः। भेदाप्तेरिति मूलस्य विवरणम्- भेदबुद्धिप्रसङ्गादिति- प्रदेशे धर्मास्तिकायादेमेंदबुद्धिप्रसङ्गादित्यर्थः । सप्तमीतत्पुरुषे कर्मधारये वाऽभ्युपगच्छति भवान् प्रदेशे धर्मास्तिकायादेरभेदमेवेति तद्भङ्गः स्यादिति साम्प्रतनयं प्रति समभिरूढनयस्याक्षेपः, यद्यप्यभेदेऽपि सप्तमीप्रयोगो भवति यथा घटे घटवरूपमित्यादौ नहि घटखरूपं घटाद् भिन्नमिति तथापि तत्र संसर्गतयैवाभेदो भासते न प्रकारतयेति प्रकारतयाऽभेदभानार्थ कर्मधारयसमास एवाश्रयणीय इत्याह- 'घटे घटस्वरूपम्' इत्यादाविति। धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इति सप्तमीतत्पुरुषस्य धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयस्य च विग्रहवाक्यत्वस्वरूपे भेदेऽपि समस्तस्वरूप भेदाभावात् तयोरर्थभेदप्रतिपत्तये तत्पुरुषे पूर्वपदस्य खशक्यार्थसम्बन्धिनि लक्षणा, कर्मधारये तु पूर्वपदशक्यार्थस्याभेदसम्बन्धेनैवोत्तरपदार्थेऽन्वय इति तत्र लक्षणाऽभावेन लाघवात् कर्मधारय एवं समभिरूढनयेनाभ्युपेयत इति केषाश्चिन्मतमुग्दर्शयति-तत्पुरुषे इति । 'पद लक्षणासत्त्वात्' इत्यस्य स्थाने 'पूर्वपदलक्षणासत्त्वात् ' इति पाठो युक्तः। तदभावेन लक्षणाया अभावेन । 'लाघवादेव' इत्येवकारेणाभेदप्रकारकबोधार्थ कर्मधारयसमासाश्रयणस्य पूर्वमुक्तस्य व्यवच्छेदः, नामार्थयोरभेदसम्बन्धे.
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy