________________
२२०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
एवम्-आदिना · अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे आकाश इति वा प्रदेश आकाशः ' इति द्रष्टव्यम् ॥ ५९॥
जीवे स्कन्धेऽप्यनन्ते, नोशब्दाद् देशावधारणम् ।
इति शब्दनयः प्राह, समासद्वयशुद्धिमान् ॥ ६०॥ नयामृत०-जीव इति । जीवे स्कन्धेऽपि- अपिश्चार्थः, जीवे स्कन्धे चानन्ते नोशब्दाद् देशावधारणं कर्त्तव्यम् , जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्यभिलापः कर्तव्य इत्यर्थः, धर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपता अनतिप्रसक्तेति तथोक्तिः, जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेश विवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्व-नोस्कन्धत्वोक्तिरिति कर्तव्य इत्यन्वयः । धर्म इति मूलस्य विवरणम् - धर्मास्तिकाय इति- अत्र धर्मास्तिकायपदस्य प्रदेशपदेन सप्तमी. तत्पुरुषे कर्मधारये वा समासे धर्मास्तिकायप्रदेश इति भवितुमर्हति, तत्र यद् 'धर्मास्तिकाय' इत्येवाभिधीयते तेनाभिलापेन धर्मास्तिकायस्यैकत्वात् तत्सम्बन्धी तदात्मको वा प्रदेशोऽप्येक एव तद्रप इति ज्ञापयति, तथा च धर्मास्ति. कायप्रदेशस्य धर्मास्तिकायत्वेन रूपेण निर्णयः साम्प्रताख्यशन्दनये इत्याशयः । एवम् उक्तरीत्या । मादिना ‘इत्यादि' इत्यत्रादिपदेन । अधर्म इति- अधर्मास्तिकाये प्रदेशोऽधर्मास्तिकाय इति सप्तमीतत्पुरुषेण, अधर्मास्तिकायश्चासौ प्रदेशोsधर्मास्तिकाय इति कर्मधारयेण वा निर्णयः, आकाशास्तिकाये प्रदेश आकाशास्तिकाय इति सप्तमीतत्पुरुषेण, आकाशास्तिकायश्चासौ प्रदेश आकाशास्तिकाय इति कर्मधारयेण वा निर्णयः कार्य इत्यर्थः ॥ ५९ ॥
धर्मास्तिकायस्याधर्मास्तिकायस्याकाशास्तिकायस्य चैकैकव्यक्तिरूपत्वात् तत्तत्प्रदेशस्याप्येकस्य तदात्मकत्वसम्भवेन धर्मास्तिकायप्रदेशो धर्मास्तिकायः, अधर्मास्तिकायप्रदेशोऽधर्मास्तिकायः, आकाशास्तिकायप्रदेश आकाशास्तिकाय इत्येवं वदितुं शक्यम् , जीव-पुद्गलस्कन्धयोश्वानन्तत्वादेकस्य कस्यचित् तत्प्रदेशस्य विवक्षितस्य सकलजीवात्मकत्वं सकलपुद्गलस्कन्धात्म. कत्वं न सम्भवतीति जीवप्रदेशो जीव इत्येवं वदितुं न शक्यो नवा पुद्गलस्कन्धप्रदेशः पुद्गलस्कन्ध इति वक्तुं शक्यः, किन्तु जीवप्रदेशो नोजोवः स्कन्धप्रदेशो नोस्कन्ध इत्येवं वक्तव्य इत्यस्योपदर्शकं षष्टितमपद्यं विवृणोति-जीव इतीति । अपिश्चार्थ इति- 'स्कन्धेऽपि' इत्यत्र योऽयमपिशब्दः स चशब्दस्य समुच्चयरूपेऽर्थे वर्तते इत्यर्थः । अपिशब्दस्य चार्थकत्वे 'जीवे स्कन्धेऽपि' इति 'जावे स्कन्धे च' इति पर्यवसितमुङ्कितम् । कीदृशमवधारणमित्यपेक्षायामाहजीवे जीव इति वेति-जीवे प्रदेशो नोजीव इति सप्तमीतत्पुरुषेण, जीवश्चासौ प्रदेशो नोजीव इति कर्मधारयेण वाऽभिलाप: कर्तव्यः, स्कन्धप्रदेशस्यापि स्कन्धे प्रदेशो नोस्कन्ध इति सप्तमीतत्पुरुषेण, स्कन्धश्चासौ प्रदेशो नोस्कन्ध इति कर्मधारयेण वाऽभिलापः कर्तव्य इत्येवं पद्यपूर्वार्द्धस्यार्थोऽभिप्रेतार्थो ज्ञेय इत्यर्थः । “स्कन्ध इति वा" इत्यस्य स्थाने " स्कन्धे स्कन्ध इति वा" इति पाठो युक्तः। ननु धर्मास्तिकायप्रदेशादेर्धर्मास्तिकायादिशब्देनाभिलपनं जीवस्कन्ध-प्रदेशयोश्च नोजीव-नोस्कन्धशब्देनाभिलपनमित्येवमभिलापवित्र्यं कथमित्यपेक्षायामाह - धर्मास्तिकायादे. रिति- आदिपदादधर्मास्तिकाया-ऽऽकाशास्तिकाययोः परिग्रहः । अनतिप्रसका विवक्षितप्रदेशव्यतिरिक्तप्रदेश न वर्तते । इति एतस्मात् कारणात् । तथोक्तिः धर्मास्तिकायप्रदेशस्य धर्मास्तिकाय इति, अधर्मास्तिकायप्रदेशस्याधर्मास्तिकाय इति, आकाशास्तिकायप्रदेशस्याकाशास्तिकाय इत्येवमुक्तिः । प्रतिस्त्रमनन्तत्वात् जीवा अप्यनन्तसङ्खयकाः स्कन्धा अप्यनन्ता इत्येवं प्रत्येकमनन्तत्वात् । कथमिति- एकस्य जीवात्मकसन्तानस्य यः प्रदेशस्तस्य तज्जीवात्मकत्वमेव नान्य. जीवात्मकत्वमिति न विवक्षितैकजीवप्रदेशस्य सकल नीवसन्तानात्मकत्वसम्भवः, एवमेकपुद्गलस्कन्धस्य यः प्रदेशः स तत्पु. द्लस्कन्धात्मक एवेति न तस्य सकलपुद्गलस्कन्धात्मकत्वसम्भव इत्येतस्मात् कारणात् 'जीवप्रदेशो जीवः' इत्युक्तिने सम्भवति, एवं 'स्कन्धप्रदेशः स्कन्धः' इत्युक्तिर्न सम्भवति, किन्तु विवक्षितो य एकजीवसन्तानस्य प्रदेशस्तस्मिन् सकलजोवसन्तानस्यैकदेशो यो विवक्षितैकजीव मकसन्तानस्तदालकत्वप्रतिपादनाय नो नीव इत्युक्तिः, एवं विवक्षितो य एकपुद्गलस्कन्धस्य प्रदेशस्तस्मिन् सकलपुद्गलस्कन्धानामेकदेश एकपुद्गलस्कन्धस्तदात्मकत्वस्य प्रतिपादनाय नोस्कन्ध इत्येव.