________________
२२२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः।
%3D
एतन्मूलकमेव निषादस्थपत्यधिकरणं मीमांसायां प्रवृत्तेः( त्तम् ), तथाहि-" निषादस्वपति याजयेत्” इत्यत्र निषादानां स्थपतिरिति न षष्ठीसमासः, किन्तु निषादश्चासौ स्थपतिरिति कर्मधारयो लाघवात्, न चाध्ययनाभावादनधिकारो निषादस्य, एतद्विधिबलादेवैतदिष्टौ यावदपेक्षितपठनानुझानात्, यथा-' वर्षासु रथकारोऽमीनादधीत ' इत्यत्र चापशूद्राधिकरणविरोधः, तस्यैतदतिरिक्तविषयत्वात् ; न चैवं " स्त्री-शूद्रौ नाधीयेताम्" इत्यत्र निषादीयतत्तदध्ययनविध्यर्थनिषेधवाधादध्ययमपदे निषादीयतत्तद. ध्ययनपरतया सङ्कोचः कल्प्यत इति शूद्रपदे एव निषादेतरशूदपरतया सङ्कोचः किमिति न कल्प्यत नैवान्वय इति नियमात् कर्मधारयेऽपि नाभेदप्रकारको बोधः किन्त्वभेदसंसर्गक एव, सप्तमीतत्पुरुषेऽपि अभेदसंसर्गक एव बोधः, किन्तु कर्मधारये न लक्षणा तत्पुरुषे तु पूर्वपदे लक्षणेति लाघवात् कर्मधारयसमासाश्रयणमित्याशयः। पतन्मूलकमेव तत्पुरुषे पूर्वपदलक्षणासत्त्वात् तदपेक्षया लक्षणाऽभावतो लाघवात् कर्मधारयाश्रयणमिति समभिरूढनयमूलकमेव । पूर्वमीमांसागतं निषादस्थपत्यधिकरणविचारमुपदर्शयति-तथाहीति । षष्ठीसमासः षष्ठीतत्पुरुषसमासः । लाघवात् षष्ठीतत्पुरुषे पूर्वपदे लक्षणा कर्मधारये न सेत्येवं लाघवात् । ननु “न स्त्रीशद्रो वेदमघोयाताम्" इति श्रुत्या सकरजातिविशेषस्य निषादस्य शूदजात्यन्त्यन्तर्गतस्य वेदाध्ययननिषेधाद् यागो ग्युक्तमन्त्रपठनानधिकारित्वेन न यागाधिकार इति निषादाभिन्नस्थपर्याजनान्वयासम्भवान कर्मधारयस्तत्राश्रयणीयः, किन्तु निषादस्वामिनः क्षत्रियस्य याजनान्वयसम्भवेन षष्ठीतत्पुरुष एव समाश्रयणीय इत्याशय प्रतिक्षिपति- न चेति । अध्ययनाभावात् वेदाध्ययना सम्भवात् । अनधिकारः यागकरणेऽयोग्यता । निषादस्य निषादाभिन्नस्थपतेः । निषेधे हेतुमाह-पतद्विधिवला. देवेति-'निषादस्थपति याजयेत्' इति बलादेवेसर्थः । एतदिष्टौ यावदपेक्षितपठनानुज्ञानात् निषादस्थपतिकर्नुकयागे यद् यन्मन्त्रपठनं तद् यागकर्तुनिषादस्यावश्यक तन्मन्त्रपठनस्य निषादकर्तृकस्यानुमतत्वात् । यश्च शुदविशेषकर्तृको यागस्तत्र तदुपयुक्तमन्त्राध्ययनस्य तत्कशूदकर्तृकस्यानुमतत्वे दृष्टान्तमाह- यथेति- तथा च वर्षासमये शूदविशेषस्थकारकर्तृकाग्न्याधानकर्माङ्गमन्त्रपठनं शूदस्यापि रथकारस्य यथाऽनुमतं तथा प्रकृते निषादस्यापि तत्कर्तृकयागोपयुक्तमन्त्राध्ययनमनुमतमित्यर्थः । शूदस्य यागानधिकारप्रति पदकापशूदाधिकरणविरोधमाशय प्रतिक्षिपति-न चेति। निषेधे हेतुमाहतस्येति- अपशूदाधिकरणस्येत्यर्थः । एतदतिरिक्तति- वेदविहितनिषादादिकर्तृकयागव्यतिरिक्तेयर्थः । ननु 'खोशूदौ नाघीयताम्' इत्यत्र निषादकर्तृकयागोपयुक्तमन्त्रातिरिकवेदाध्ययनपरमध्ययनपदमित्येवमध्ययनपदस्य सङ्कचितार्थकत्वं यदाधीयते तदपेक्षया लाघववाच्छूद्रपदस्यैव निषादातिरिक्तशूद्रपदत्वं किमिति नोपयत इति शूदपदस्यैव सङ्कचितार्थत्वमस्त्विति तटस्थाशवं प्रतिक्षिपति-न चैवमिति-अस्य 'शङ्कनीयम्' इत्यनेनान्वयः । एवं सङ्कोचस्यावश्यकर्तव्यत्वे सति । निषादीयेति'निषादीयतत्तदध्ययनपरतया' इत्यस्य स्थाने 'निषादीयतत्ताध्ययनातिरिकाध्ययनपरतया" इति पाठो युक्तः, तथा च 'निषादस्थपति याजयेद्' इत्यतः प्राप्तो यो निषादकर्तृकयागोपयोगिमन्त्रस्य निषादकर्तृकाध्ययनल क्षणविध्यर्थस्तस्य 'स्त्री-शूद्रौ नाधीयताम् ' इत्यनेन यो निषेधस्तस्य बाधात् निषादकर्तृकयागोपयोगिमन्त्राध्ययने निषादरूपशूदकर्तृकत्वस्याभावेन तत्र तदभावस्यासम्भव त् , अध्ययनपदे "स्त्री-शूद्रौ नाधीयेताम्' इत्यत्राध्ययनार्थकं यत् पदं तस्मिम् , निषादीयं- यन्निषादकर्तृकयागोपयोगिमन्त्राध्ययनं तदतिरिक्तवेदाध्ययनपरतयेत्यर्थः । शद्रपदे एव 'स्त्रीशूद्रौ' इत्येतङ्कटकशदपद एव । निषेधे हेतुमाह-निषादस्येति- शूद्रपदेन निषादातिरिक्तशूदस्व ग्रहणे तस्यैव वेदमात्राध्ययनं निषिद्धं न तु निषादजातीयशूद्रस्येति निषादस्य निषादकर्तृकयागोपयोगिमन्त्राध्ययनस्येव तादृशयागानुपयोगिवेदवचनाध्ययनस्यापि प्रसाः 'स्वाध्यायोऽध्येतव्यः' इत्यध्पयनविधेस्तं प्रत्यप्यबाधितप्रसरत्वादित्यर्थः । यदि च प्रकारविधयाऽभेदस्य बोधार्थमेव कर्मधारयाश्रयणं न लाघवात् तर्हि समासघटकस्याभेदवावकपदस्याभावात् कर्मधारयेऽपि पूर्वपदे लक्षणाऽऽवश्यकी, एवं च निषादस्थपति याजयदित्यत्र निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिकर्तृकयागान्यथानु पत्त्या तस्याप्राप्तविद्याप्रयुक्तिः कल्पनीया स्यात्, निषादानां स्थपतिरिति तत्पुरुषाश्रयणे तु ब्राह्मणादित्रैवर्णिकोऽपि निषादस्थपतिपदबोध्य इति नाप्राप्तविद्याप्रयुक्ति कल्पनम् , तदनुरोधेन स्नोशूदौ नाधोयेतामित्यत्राध्ययनपदस्य निषादीयाध्ययनातिरिसाध्ययनपरतया सङ्कोचोऽपि न कर्तव्य इति तत्पुरुषसमास एवाश्रयणीयः स्यादिति निषादस्थपत्यधिकरणाप्रवृत्तिप्रसा