SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २२३ इति नीयम्, निषादस्य वेदान्तराध्ययनप्रसङ्गात् । यदि च तत्पुरुषवत् कर्मधारयेऽपि स्यात् तदा पीसमास एव युज्येत, त्रैवर्णिकस्यैव निषादस्थपतितया बोधनेनाप्राप्त विद्याप्रयुक्तेर कल्पना निषेधविधौ सङ्कोचाभावादिति । अत्र शब्दनयानुसारिणो नव्याः- तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एवाद्रियते, न तत्पुरुषः, शक्ति-लक्षणयोरुभयोरपि शाब्दबोधप्रयोजकतायाः क्लृप्तत्वेन गौरवानवकाशात्, अथ शक्यसम्बन्धरूपलक्षणाज्ञाने विशेषणज्ञानविधया हेतोः शक्तिज्ञानादेव शाब्दबोधोपपत्तेर्न लक्षणाज्ञानहेतुः कल्प्यते, गौरवादिति चेत् ? भवेदेवं यदि षष्ठीसमासेनापि कस्यचिद् बोधो न स्यात्, न चैवम्, तादृशबोधसहस्रस्याप्यनुभवसिद्धत्वादिति यदि च साक्षात्परम्परा साधारण सम्बन्धेन शक्तिज्ञानमेव शाब्दबोध सामान्ये हेतुरिति सूक्ष्ममीक्ष्यते, तदा न शक्तिविषयकत्वापेक्षया लक्षणाविषयकत्वे गौरवमुद्भावयितुमपि शक्यम्, सम्बन्धगौरवस्यादोषत्वात् । अथासति विशेषतो बाधके स्वशक्यार्थविधयैव इत्याशयेनाह - यदि चेति । 'कर्मधारयेऽपि स्यात्' इत्यस्य स्थाने 'कर्मधारयेऽपि लक्षणा स्यात्' इति पाठो युक्तः । षष्ठीसमास पत्र निषादानां स्थपतिर्निषादस्थपतिरिति षष्ठीतत्पुरुषसमास एव । तस्य युकत्वे हेतुमाहत्रैवर्णिकस्यैवेति- ब्राह्मण क्षत्रिय-वैश्यजातीयान्यतमस्यैवेत्यर्थः । अप्राप्तविद्याप्रयुक्तेः सङ्करजातीयत्वेन शूद्रे निषादे तस्कर्तृकयागोपयोगि मन्त्राध्ययनं लक्षणविद्याया वेदवचनादिप्रमाणान्तराप्राप्तस्य सम्बन्धस्य 1 अकल्पनात् निषादकर्तृकयागान्यथानुपपत्त्या यत् कल्पनं तस्याभावात् । तथा च निषेधविधौ स्त्रीशूद्रौ नाधीयेतामित्यत्र । सङ्कोचाभावात् अध्ययनपदस्य निषादकर्तृकयागो ग्युक्तमन्त्राध्ययनातिरिक्ताध्ययनपरत्वाभावात् । अस्मिन् विचारे महोपाध्यायो ग्रन्थकारः समभिरूढनयवादिनं प्रति प्रतिमहतयोपस्थितानां नव्यानां साम्प्रतनयानुसारिणामाकूतमुद्घाटयति- भत्रेति । ' तत्पुरुषे लक्षणापक्षेऽपि' इत्यारभ्य पक्षपातमात्रमेवेति दिकू' इत्यन्तं तदाशयप्रकटनम् । विशेषणज्ञानविषयेति - विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वमिति शक्यसम्बन्धरूपलक्षणाज्ञानं शक्तिविषय सम्बन्धज्ञानम्, तत्र विषये शक्तेर्विशेषणत्वेन शक्तिविशिष्टबुद्धिरूपं तत् अतस्तत्र विशेषणोभूतायाः शक्तेर्ज्ञानस्य हेतुत्वमिति लक्षणाज्ञानस्य शाब्दबोधहेतुत्वेऽपि तद्वारा शक्तिज्ञानस्य हेतुत्वमावश्यकमेव, तथा च निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिविषय कशाब्दबोधस्य लक्षणाज्ञानमन्तरेणैवोपपत्तिरिति लाघवम्, निषादानां स्थपतिरिति षष्ठीतत्पुरुषाश्रयणे तु निषादपदस्य निषादसम्बन्धिस्थपतिबोधार्थ निषाद सम्बन्धिनि लक्ष गाssवश्यकीति तज्ज्ञानं शक्तिज्ञानं चौकशाब्दबोधहेतुतया कल्पनीयमिति कर्मधारयपक्षो लाघवादाश्रयणीय इति शङ्कार्थः, 'लक्षणाज्ञानहेतुः ' इत्यस्य स्थाने 'लक्षणाज्ञानं शाब्दबोधे हेतुः' इति पाठो युक्तः । यस्य प्रमातुर्निषादानां स्थपतिरिति षष्ठीतत्पुरुषसमासरूपतयैव तच्छन्दा. वधारणं तस्य प्रमातृसहस्रस्य निषाद सम्बन्धि धरतिबोधस्य, प्यनुभवसिद्धस्यापलपितुमशक्यतया तदर्थ लक्षणाज्ञानस्यापि तत्र शाब्दबोधहेतुत्वकल्पन मावश्यकमेवेति समाधत्ते - भवेदेवमिति - लक्षणाज्ञाने विशेषणज्ञानविषया कारणतया क्लृप्तस्य शक्तिज्ञानस्यैव शाब्दबोधहेतुत्वं न तु लक्षणाज्ञानस्येति तदा स्यादित्यर्थः । न चैवमिति षष्ठीसमासेन कस्यचित् प्रमातुर्बोधो न भवत्येवेति न चेत्यर्थः । तादृशत्रोध सहस्त्रस्यापि षष्ठीतत्पुरुष समासतयाऽवधारितवाक्यप्रभवशाब्दबोध सहस्रस्यापि यक्षणिकार्थविषयकस्य । तत्पुरुषे पूर्वग्दस्य शक्यसम्बन्धरूपलचणाज्ञानस्य लक्ष्यार्थोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्वकल्पने यद् गौरवं तदपि वास्तीत्याह यदि बेति- शक्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र साक्षाद्विषयतासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वम्, यत्र च लक्ष्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र स्वविषयसम्बन्धित्वलक्षणपरम्परासम्बन्धेन शक्तिप्रकारकज्ञावस्य कारणत्वमित्येवं पृथक् कार्यकारणभावो नाङ्गीक्रियते, किन्तु साक्षात्परम्परासाधारण सम्बन्धसामान्येन शक्तिप्रकारकज्ञानत्वेन शक्तिज्ञानस्योपस्थितिसामान्यद्वारैकविधमेव शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एवं च प्रकारविधया शक्तिविषयकत्वमेव कारणतावच्छेदकं न तु लक्षगाविषयत्वमपि शक्तिलक्षणो भयसाधारणान्यतरत्वादिना सम्बन्धविषयकत्वस्य तत्र कारणतावच्छेदकत्वेऽपि तत्कृतगौरवस्य न दोषावहत्वमिति तत्पुरुषसमासोऽप्याश्रयितुं शक्य इत्यर्थः ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy