________________
१९०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
प्रतिबन्धकत्वं कल्पनीयं ' गो-बलीवौ ' इत्यत्र बलीवईसमभिव्याहृतगोपदस्य बलीवर्दस्मरण इव, तेन न कुमुदप्रियस्य कुमुदस्मरणेन पद्म एव प्रयोगप्रतिबन्धः। न चैवं लक्षणयापि पङ्कजपदात् कुमुदानुपस्थितिप्रसङ्गः, शक्या तदुपस्थितावेव तत्प्रतिबन्धकत्वात् , अत एवावयवशक्तावेव केचित् कोन्ज्यं कल्पयन्ति; न च, पद्मत्वप्रकारकपद्मविषयानुभवजनकत्वात् तादृशस्मरणजनकत्वाद् वान्यत् पदस्य शक्तत्वम् , तदशा( तज्ज्ञा)नस्य नैयायिक-मीमांसकयोः पदार्थप्रत्यये व्यभिचारेणाकरणत्वात् , तदनुपयुक्तायाश्च शक्तित्वस्य परिभाषामात्रत्वादिति समुदायशक्तेरावश्यकत्वम् , न च तदभावेऽनुभावकत्वस्यैवानुपपत्तिः, असम्बद्धानु.
धुत्तरजपदस्य कुमुदादिस्मारकत्वमपि संभवति. ततो न तस्य कुमुदादिस्मरणप्रतिबन्धकत्वमित्येवकारेण तस्यापि व्यवच्छेदः, एवं पद्मस्वस्मरणस्य कुमुदादौ पङ्कजादप्रयोगप्रतिबन्धकत्वस्य व्यवच्छेद इति लाघवम् । उक्तप्रतिबन्धकत्वकल्पनस्य सम्यक्त्वावगतये दृष्टान्तमाह-गो-बलीव वित्योति- यत्र 'गौरस्ति' इति वाक्ये केवलं गोपदमस्ति तत्र गोपदादू गोत्वेन रूपेण बलोवर्दस्यापि स्मरणं भवत्येवेति बलोवर्दपदासमभिव्याहृतस्य गोपदस्य न बलीवर्दस्मरणप्रतिबन्धकत्वं किन्तु बलीवर्दसमभिव्याहृतगोपदस्थेति बोध्यम् । पद्मत्वस्मरणस्य कुमुद पङ्कजपदप्रयोगप्रतिबन्धकत्वे यस्य प्रमातुः कुमुदमेव कमलापेक्षयाऽतिप्रियं तस्य पङ्कजपदात् कुमुदस्मरणमपि पने पङ्कजपदप्रयोगप्रतिबन्धक किमिति न भवेदिति दोषोऽपि पङ्कपदो. ताजपदत्य कुमुदस्मरणप्रतिबन्धकत्वपक्षे न सम्भवति, ज्ञाते पकपदोत्तरजपदे कुमुदस्मरणस्यैवाभावादित्याह-तेनेति- पहपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वेनेत्यर्थः । नञः 'प्रयोगप्रतिबन्धः' इत्यनेनान्वयः । प्रयोगप्रतिबन्धः पङ्कजपदप्रयोगप्रतिबन्धः । ननु यदि पवादोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वं तदा यत्र लक्षणया पङ्कजपदं कुमुदे प्रयुज्यते तत्र लक्षणारूपवृत्तिग्रहसहकारेण पङ्कजपदाद् यत् कुमुदस्मरणं भवति तदपि न स्यात् तत्रापि पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकस्य सद्भावादित्याशङ्का प्रतिक्षिपति-न चैवमिति। एवं पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वकल्पने । शक्त्यात्मकवृत्तिग्रह जन्मकुमुदस्मरणं प्रयेव पङ्कपदोत्तर जपदस्य प्रतिबन्धकत्वं कल्प्यते, एवं च लक्षणात्मकवृत्तिप्रहजन्यकुमुरस्मरणस्य निरुक्तप्रतिबध्यतावच्छेदकधर्मानाकान्तत्वादेव पङ्कजपदादुत्पत्तावपि न क्षतिरिति निषेधहेतुमुपदर्शयति-शक्त्येति । तदुपस्थितावत्र स्मरणात्मककुमुदोपस्थि-नवेव, एवकारेण लक्षणया कुमुदोपस्थितेव्यवच्छेदः । तत्प्रतिबन्धकत्वात् पङ्कपदोत्तरजपदस्थ प्रतिबन्धकत्वात् । अत एव शक्तिग्रह जन्यकुमुदस्मरणे पङ्कपदोत्तरजपदस्य प्रतिबन्धकत्वकल्पनादेव । यदि पङ्कजपदस्य पझे समुदायशक्ति भ्युपेयते तदाऽवयवशक्तेः कुमुदे सत्त्वात् किमिति न कुमुदप्रतीतिरिति न वाच्यम् , शक्तिमहजन्यकुमुदस्मरणे पङ्कपदोत्तरजपदस्य प्रतिबन्धकत्वेन तत्र सत्या अप्यवयवशक्तेः कुण्ठितत्वादि. त्येवं केचित् कल्पयन्तीत्यर्थः । ननु पकजपदस्य पद्मे समुदायशक्तिर्नास्तीत्येवमुक्तदिशा व्यवस्थापनमयुक्तम्, यतः पकजपदस्य पद्मत्वप्रकारकपद्मविशेष्यकानुभवं प्रति यत् कारणत्वम् , यद्वा पद्मत्वप्रकारकपद्मविशेष्यकस्मरणं प्रति यत् कारणत्वम्, तस्यैव शक्तित्वं न तूक्तकारणत्वादतिरिक्ता शक्तिः समस्ति, तज्ज्ञानाभावेऽपि पदार्थानुभवस्य पदार्थस्मरणस्य वा भावेन व्यभिचारेण तज्ज्ञानस्य कारणत्वासम्भवात्, तथा च निरुक्तानुभवजनकत्वरूपाया निरुक्तस्मरणजनकत्वरूपाया वा समुदायशक्तेः पङ्कजपदे सद्भावात् समुदायशक्तिर्नास्तीति कथनमयुक्तमित्याशय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इति व्यवहितेन सम्बन्धः । 'तादृशस्मरणजनकत्वाद वाऽन्यत पदस्य शक्तत्वम्' इत्यस्य स्थाने "तादृशस्मरण जनकत्वाद् वा नान्यत् पदस्य शक्तत्वम्" इति पाठो युक्तः । निरुक्तजनकत्वलक्षणशक्तिश्च स्वरूपसत्येवोपयुक्ता न तु ज्ञाता, तज्ज्ञानाभावेऽपि पदार्थप्रत्ययोदयेन व्यभिचारादित्याह- तज्ज्ञानस्येति-निरुक्तशक्तिज्ञानस्येत्यर्थः । निरुतानुभवजनकत्व-निरुक्तस्मरणजनकत्वव्यतिरिक्ता च शक्तिर्न पदार्थप्रत्यये उपयुज्यते इति तां परिकल्प्य तस्याः शक्तित्वस्य परिभाषामात्रत्वेन न परीक्षकैरुपादेयत्वमित्याह- तइनुपयुकायाश्चेति-पदार्थप्रत्ययानुपयुक्तायाश्चेत्यर्थः । ननु पद्मत्वप्रकारकपद्मविशेष्यकानुभवजनकत्व पद्मत्वप्रकारकपद्मविशेष्यकस्मरणजनकत्वाभ्यां व्यतिरिका या समुदायशक्तिस्तस्या एवानावश्यकत्वं समभिरूढनयवादिनोऽभिमतम् , यश्च भवद्भिनिरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वस्यैव समुदायशक्ति-मभिप्रेत्य समुदायशकेरावश्यकत्वं प्रतिपाद्यते तन्न युक्तं समुदायशकेरभावे निरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वयोरेवानुपपत्तेः, नहि बच्छन्दो येनार्थनासम्बद्धः स शब्दस्तमर्थमनुभावयितुं स्मारयितुं वा समर्थोऽतिप्रसङ्गादिति तटस्थान प्रतिक्षिपति-न.