________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः।
पर्यविषयस्यापि शक्यतयाऽनियतानुभवविषयताप्रसङ्गात् , शक्यानेकोपस्थितौ तात्पर्य नियामकमिति चेत् ? न- अशक्योपस्थितावपि तस्यैव तथात्वात् , न च कुमुदाद्यप्रतीत्यर्थ समुदायशक्तिकरूपनमित्यपि युक्तम् , तत्राशक्तेरेव तदप्रतिपत्तेः, नहि घट-पटादावपि पटाद्यप्रतिपत्त्यर्थ शक्तिकल्पनम् , न च योगस्य कुमुदादिसाधारणत्वात् तत्रापि प्रयोगप्रसङ्गः, योगपुरस्कारेणेष्टत्वात् , नहि 'पङ्कजशैवालमान' 'पङ्कजकुमुदमानय 'इति प्रयोगं कश्चिद् बाध्यतया व्यवहरति, अस्तु वा परस्य समुदायशक्तिरिव मम पद्मत्वस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्धकत्वम् , यद्वा पङ्कज(पक)पदोत्तर'ज'पदस्यैव कुमुदादिस्मरण
अन्यथा तात्पर्यविषयत्वस्यानुभवविषयत्वनियामकत्वमनभ्युपगम्य शक्यत्वस्यैवानुभवविषयत्वनियामकत्वाभ्युपगमे। 'शक्य तयाऽनियत' इति स्थाने 'शक्यतया नियत' इति पाठो युक्तः, यदि शक्यत्वमेव शाब्दबोधात्मकानुभवविषयत्व. नियामकं तर्हि अश्वानयनबोधेच्छयोचरिते 'सैन्धवमानय' इति वाक्येऽपि सैन्धवपदस्याश्व इव लवणेऽपि शक्यत्वस्य भावेनाश्वानयनबोधवल्लवणानयनबोधोऽपि प्रसज्येतेयर्थः । ननु नानार्थस्थले शक्यत्वाविशेषात् सर्वेषां शक्यार्थानामुपस्थिता. वपि यस्य शक्यार्थस्यान्वयबोधे तात्पर्यस्य ग्रहस्तस्यैव शक्यार्थस्यान्वयबोधो नान्यस्य शक्यार्थस्योपस्थितस्यापीत्याशङ्कतेशक्यानकोपस्थिताविति । तात्पर्य तात्पर्यग्रहः । नियामक शाब्दबोधविषयत्वनियामकम् । नानार्थस्थले तात्पर्यग्रहविषयत्वस्य शाब्दबोधविषयत्वनियामकत्वव्यवस्थितौ लाघवात् सर्वत्रैव तस्य तन्नियामकत्वमित्यशक्यानेकोपस्थितावपि यस्यैवा. शक्यस्यान्वयबोधेच्छयोच्चरितत्वग्रहस्तस्यैवान्वयबोधो नान्यस्येति नियमोपपत्तरिति समाधत्ते-नेति । तस्यैव तात्पर्यग्रह. स्यैव । तथात्वात शाब्दबोधविषयत्वनियामकत्वात् । ननु पङ्कजपदस्य यथा न पद्मत्वे शक्तिस्तथा कुमुदत्वेऽपि एवं सत्यपि यथाऽशक्यस्यापि पद्मत्वस्यान्वयबोधस्तथा कुमुदत्वस्यापि स्यात्, तदापत्तिपरिहारार्थ पङ्कजपदस्य पद्मत्वे समुदायशक्तिकल्पनमावश्यकम् , एवं सति समुदायशक्त्योपस्थितस्य पद्मत्वस्यान्वयबोधो न तु कुमुदत्वस्य, तत्र समुदायशक्त्यभावादि. त्याशङ्कय प्रतिक्षिपति-न चेति- अस्य ‘युक्तम्' इत्यनेनान्वयः । शक्ती सत्यामपि कस्यचिदेव शक्यस्य भानमित्यत्र तात्पर्य नियामकम्, शक्यभिन्नस्यापि कस्यविदर्थस्य भाने तात्पर्यमेव नियामकम् , कुमुदत्वे तु न शकिर्नवी तात्पर्यम्, पद्मत्वे तु शक्त्यभावेऽपि तात्पर्य समस्तीति पद्मवप्रतीतिः सम्भवति, न तु कुमुदत्वप्रतीतिरिति निषेधहेतुमुपदर्शयति-तत्रेति- कुमुदत्वे इत्यर्थः। तदप्रतीनेः कुमुदत्वेन पङ्कजनिकर्तुरप्रतीतेः । समभिरूढनये घटादिपदेनापि जलाहरणादिलक्षणक्रियात्मकचेष्टावत्वरूपयोगार्थमुपादायैव घटाद्यर्थप्रतीतिः, तत्र घटत्वस्याशक्यस्य भानं तात्पर्यबलादेव, तात्पर्याभावादेव न घटादिपदतः पटाद्यर्थप्रतीतिरित्येतावतैवोपपत्तौ न घटादिपदस्य घटलादौ शक्तिकल्पनमित्याहनहीति-अस्य 'शक्तिकल्पनम्' इत्यनेनान्वयः । 'घट-पटादापि' इति स्थाने 'घटपदादावपि' इति पाठो युक्तः । ननु पङ्कजपदस्यावयवशक्तिलक्षणयोगतो लभ्यस्य पङ्कजनिकर्तृत्वरूपार्थस्य कुमुदादावपि पङ्कजाते सत्त्वात् कुमुदादिकमुपा. दायापि पङ्कजमस्तीति प्रयोगः स्थादित्याशङ्कामिष्टापत्त्या परिहरति-न चेति । तत्रापि कुमुदादावपि । प्रयोगप्रसका पडुजपदप्रयोगप्रसङ्गः। निषेधे हेतुमाह-योगपुरस्कारेणेति-पङ्कजनिकर्तृरूपार्थे या पङ्कजपदस्यावयवशक्तिस्तदालम्बनेने. त्यर्थः । इष्टत्वात् कुमुदादौ पङ्कजपदप्रयोगस्येष्टत्वात् । इष्टापत्तिमेव द्रढयति-नहीति- अस्य 'व्यवहरति' इत्यनेना. न्वयः, 'पङ्कजशैवालमानय' इत्यत्र पङ्कजपदस्य पङ्कजनिकर्तृरूपार्थादरणे सत्येव तस्याभेदेन शैवालपदार्थेऽन्वयो घटते, एवं 'पङ्कजकुमुदमानय' इत्यत्रापि, पद्मरूपसमुदायशक्त्यार्थाश्रयणे तु तदभेदस्य शैवालादौ बाधात् 'पङ्कजशैवालमानय ' इत्यादिप्रयोगस्य बाधितार्थकचेन-बाध्योऽयं प्रयोग इत्येवं व्यवहारः स्यात्, न च कश्विदेवं व्यवहरतीत्यतो ज्ञायते योगपुरस्कारेणायं प्रयोग इतीष्ट एवायमित्यर्थः । पङ्कजसदस्य पद्मे शक्तिरित्यभ्युपगन्तृमते यया समुदायशक्तिग्रहस्य कुमुदादौ पङ्कजपदप्रयोगप्रतिबन्धकत्वं तथा समभिरूढमते पद्मत्वस्मरणस्य तथातमित्याह - अस्तु वेति । परस्य समुदायशक्त्यभ्युपगन्तुः, 'मते' इति शेषः। 'समुदायशक्तिरित' इति स्थाने 'समुदायशक्तरिव' इति पाठो युकः, पङ्कजपदस्थ पद्मे शक्तिमजानानः कुमुदादौ पङ्कजपदं प्रयुत एवेति समुदायशकेरियस्य समुदायशकिग्रहस्येत्यर्थः । लाघवादाह- यद्वेति- यद्यपि पङ्कपदोत्तरजपदस्य यथा कमलशकत्वेन कमलस्यैव स्मास्कत्वेन कुमुशादिस्मरणप्रतिबन्धकत्वं तथा नीरपदोत्तरजपदस्य, एवं जलादिपदोत्तरजपदस्यापि, तथापि कर्दमपदा