________________
नय।म्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
१९१
,
भवेऽतिप्रसङ्गादिति वाच्यम्, पूर्वपूर्वतरज्ञानविषयत्वस्यैव सम्बन्धत्वात्, तस्य चानादित्वादिति वाच्यम् ; उक्तानुभव - स्मरणजनकत्वमेव शक्तत्वमित्यभ्युपगमे गङ्गापदादेश्तीरत्वप्रकारकती राद्यनुभवजनकत्वेन तत्र शक्तिप्रसक्तौ लक्षणामात्रोच्छेदप्रसङ्गात्; अथ लाक्षणिकमननुभावकमेव ' गङ्गायां घोष: ' इत्यत्र घोषादिपदस्यैव लक्षणास्मारिततीररान्वयानुभवजनकत्वात् तस्य च शक्तत्वादेव नोक्तदोष इति चेत् ? - तथापि तत्प्रकारकतद्विषयक ज्ञानजनकत्वा प्रतिसन्धानेऽपि देवदत्तादिपदादसौ बोद्धव्यः' इत्यभि प्रायप्रतिसन्धानादर्थोपस्थितेर्दर्शनात् सर्वत्र तत्तदर्थविशेषेऽभिप्रायविशेषविषयत्वस्यैव पदानां वाचकत्वस्य व्यवस्थितेः न च देवदत्वादिपदे सङ्केतज्ञानस्य कारणतावधारणात् पूर्वं गवादिपदेषु सङ्केतकल्पकप्रमाणा
"
9
चेति - अस्य ' वाच्यम्' इत्यनेनान्वयः । तदभावे अतिरिक्त शक्त्यभावे । असम्बद्धस्यानुभावकत्वं स्मारकत्वं वा नाङ्गीक्रियते येनातिप्रसङ्गः स्यात्, किन्तु पूर्वपूर्वतरज्ञानविषयत्वमेवार्थेन सह पदस्य सम्बन्धः, ज्ञानं च समूहालम्बनं पदार्थयोप्रह्यमिति नातिप्रसङ्ग इति निषेधहेतुमुपदर्शयति- पूर्वेति । तस्य च पूर्वपूर्वतरज्ञानविषयत्वलक्षणसम्बन्धस्य पुनः । अनादित्वात् ज्ञानस्य सादिले तत्समानकालीनस्य तद्विषयत्वस्थापि यद्यपि सादित्वमेव तथापि पूर्वपूर्वतर ज्ञानपरम्पराया अनादित्वेन तदाश्रयणेन तद्विषयत्वस्य प्रवाहृतोऽनादित्वमिति बोध्यम् । पद्मत्वप्रकारकपद्म विशेष्यकानुभवजनकत्व - तथाविधस्मरणजनकत्वयोः शक्तित्वप्रतिषेधे हेतुमुपदर्शयति- उक्तानुभवेति- पद्मत्वप्रकारकपद्म विशेष्य कानुभवेत्यर्थः । गङ्गापदादेरिति 'गङ्गायां घोष:' इत्यत्र ' गङ्गातीरे घोष:' इति शाब्दबोधानुरोधेन गङ्गापदस्य गङ्गातीरत्वप्रकारकतीर विशेष्यकानुभव जनकत्वमवश्यमेषितव्यमिति गङ्गापदस्यो क्तानुभवजनकत्व लक्षणं गङ्गातीरशक्तत्वमेव भवेत् एवं यस्य पदस्य यस्मिन्नर्थे लक्षणा शाब्दानुभवानुरोधेनोपेयते तस्य पदस्य तदर्थविषयकानुभव जनकत्वलक्षणतच्छकत्वमेव स्यादिति लक्षणात्मकशब्द ते रुच्छेदप्रसङ्गादित्यर्थः । ननु पदानां शक्ति लक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्वराक्यार्थबोधं प्रति जनकत्वमेवानुभावकत्वम् ' गङ्गायां घोष:' इत्यत्र गङ्गापदस्य घोषपदार्थान्वितस्वशक्यार्थशाब्दबोध जनकत्वाभावेन नानुभावकत्वं किन्तु घोषपदस्यैव गङ्गापदार्थगङ्गातीरान्वितस्वशक्यार्थ घोषविषय कशाब्दबोधजनकत्वेनानुभावकत्वमिति तत्र घोषपदस्यैव शकत्वं न तु गङ्गापदस्य, किन्तु तस्य गङ्गातीररूपार्थे लाक्षणिकत्वमेवेति न लक्षणोच्छेद इति शङ्कते - अथेति । लाक्षणिकस्याननुभावकत्वे कथं लाक्षणिकार्थस्य शाब्दबोधे भानमित्यपेक्षायामाह - गङ्गायां घोष इत्यत्रेति तथा च यस्मिन् वाक्ये सर्वाण्येव पदानि शक्तानि तत्र सर्वेषामेव पदानां तद्धटकानामनुभावकत्वम्, यत्र तु किञ्चिदेव पदं शकं तत्र तस्यैव शक्तस्य पदस्यानुभावकत्वम् तथा च गङ्गायां घोष:' इत्यत्र घोषपदस्य लक्षणया गङ्गापदस्मारितगङ्गातीररूपार्थान्वयानुभवजनकत्वाल्लाक्षणिकार्थस्य शाब्दबोधे भानं संभवतीत्यर्थः । तस्य च घोषपदस्य च । नोकदोषः न लक्षणामात्रोच्छेदप्रसङ्गः । समाधत्ते नेति । तथापि उक्तदिशा लक्षणोच्छेदप्रसङ्गपरिहारेऽपि, पदस्य शक्तिलक्षणवृत्तिज्ञान सहकारणार्थोपस्थितिद्वारा शाब्दबोधजनकत्वं भवति, तथा च यज्ज्ञानमर्थोपस्थितौ पदस्य सहकारि भवति तस्यैव शक्तित्वं कल्पयितुमुचितम् तथा च देवदत्तपदादसौ बोद्धव्य इत्याकारकस्याभिप्रायस्य ज्ञानाद् देवदत्तपदाद् देवदत्तरूपार्थोपस्थित्या देवदत्तरूपार्थान्वियबोधो भवतीति तादृशाभिप्रायस्य शक्तित्वम् एवमन्यत्रापीति सङ्केत एव शक्तिः, देवदत्तत्वप्रकारक - देवदत्तविषय कानुभव जनकत्वस्य ज्ञानाभावेऽपि निरुक्ताभिप्रायज्ञानाद् देवदत्तान्वयानुभवोत्पादेन व्यभिचारेण नोकानुभवजनकत्वज्ञानस्यार्थोपस्थितौ पदस्य सहकारित्वमिति नोकानुभवजनकत्वं निरुक्तस्मृतिजनकत्वं वा शक्तिरिति पङ्कजपदस्य पद्मत्वप्रकारकपद्मविषयकानुभव जनकत्वेऽपि तथाविधस्मृतिजनकत्वेऽपि वा न समुदायशक्तेरावश्यकत्वं शक्तेर्निरुतानुभव - जनकत्वादितो भिन्नत्वादित्याशयेनाह - तत्प्रकारकेति देवदत्तत्त्रप्रकार केत्यर्थः । तद्विषयकेति - देवदत्तविषय केत्यर्थः । सर्वत्र घट-पट | दिपदेऽपि । ननु देवदत्तादिपदे उक्ताभिप्रायविशेषलक्षणसङ्केतज्ञानस्य देवदत्तपदाद् देवदत्तोपस्थितौ कारण-त्वेऽवधृते एव तद्दृष्टान्ताद् गवादिपदाद् गवाद्यर्थोपस्थितावपि निरुक्तसङ्केतज्ञानस्य कारणत्वावधारणतो गवादिपदस्य गवाद्यर्थे सङ्केतलक्षणा शक्तिः सिद्धयेत् यदा तु देवदत्तादिपदस्यानुपस्थित्या न ततोऽर्थोपस्थितौ निरुक्तशक्तिज्ञानस्य कारणत्वमवधृतं खदानीं प्रमाणाभावान्न निरुताभिप्रायविशेषलक्षणसङ्केतस्य गवादिपदेषु सिद्धिः, अथापि गवादिपदादर्थविशेषप्रतिपत्तिरनुभूयत इति व्यभिचारेण नोक्ताभिप्राय विशेषज्ञानस्यार्थोपस्थिती हेतुत्वमिति नोकाभिप्रायस्य शक्तित्वमित्याशङ्कां प्रतिक्षि-