________________
१९२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
भावादर्थप्रतीतेश्चानुभवसिद्धत्वाद् व्यभिचारेण नेदं हेतुः, किन्तु तद्विषयानुभवजनकत्वज्ञानमेव, न च देवदत्तादिपदे व्यभिचारान्न तस्यापि हेतुत्वम् 'एतदर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानेऽर्थशाने पदजन्यत्ववैशिष्ट्यभाने ध्रुवे पदेऽपि तजनकत्वज्ञानसम्भवादिति वाच्यम् , सङ्केतत्वेन रूपेण तदज्ञा. (तज्झा) नस्य हेतुत्वानभ्युपगमेन तेन रूपेण व्यभिचारज्ञानेऽप्यदोषात्, तद्धी जनकतावच्छेदकतावच्छेद
पति-न चेति-अस्य 'वाच्यम्' इत्युत्तरेण योगः । अर्थप्रतीतेश्च गवादिपदाद् गवादिरूपार्थप्रतीतेश्च । व्यभिचारणेति'गोपदाद् गोरूपार्थो बोद्धव्यः' इत्या कारकाभिप्रायरूपस्य सङ्केतस्य ज्ञानाभावेऽपि गोरूपार्थप्रतीतेर्भाव इत्येवं व्यतिरेकव्यभिचारेणेत्यर्थः। नेदं हेतुः निरुक्ताभिप्रायल्पसङ्केतज्ञानं नार्थप्रतीतिनिबन्धनम्, तथा च नाभिप्रायविशेषलक्षणसङ्केतः शक्तिरित्याशयः। यदि नोक्तसङ्केतज्ञानमर्थप्रतीति निबन्धनं तर्हि किमर्थप्रतीतिनिबन्धनमिति पृच्छति-किन्विति । उत्तरयति-तद्विषयेति- गोवप्रकारकगोविषयकानुभवजनकत्वज्ञानमेव गोरूपार्थप्रतीतिजनकमिति तद्विषयकानुभवजनकत्वमेव तत्र शक्तत्वमित्याशयः । ननु देवदत्तोऽस्तीत्यादिवाक्यस्थले 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषस्य ज्ञानादेव देवदत्तरूपार्थप्रतीतिर्न तु 'देवदत्तत्वप्रकारक-देवदत्तविषयकानुभवजनकं देवदत्तपदम् ' इत्याकारकाद् देवदत्तविषयकानुभवजनकत्वज्ञानादिति व्यभिचारेण तद्विषयकानुभवजनकत्वज्ञानमपि नार्थप्रतीतिनिबन्धनमिति तद्विषयकानुभवजनकत्वमपि न पदस्य तत्र शक्तत्वमित्याशय प्रतिक्षिपति-न चेति । न तस्यापि हेतुत्वं तद्विषय कानुभवजनकत्वज्ञानस्यापि न तदर्थप्रतीतिजनकत्वम् , एवं च न तद्विषयकानुभवजनकत्वस्य शक्तिरूपत्वमित्याशयः । निषेधे हेतुमाह - एतदर्थेति- 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषज्ञानस्य तत्रार्थप्रतीतिनिबन्धनतं यदुपेयते ततोऽपि 'तद्विषयकानुभवजनकमेतत् पदम्' इति ज्ञानस्यार्थप्रतीतिनिबन्धत्वमायात्येव, यतो 'देवदत्तरूपार्थज्ञानं देवदत्तपदजन्यत्वेनेच्छाविषयः' इत्येवं स्वरूपपर्यवसिते 'देवदत्तपदादसौ बौद्धव्यः' इत्यभिप्रायस्य ज्ञाने देवदत्तरूपार्थविषयक ज्ञाने देवदत्तपदजन्यत्ववैशिष्ट्यस्य भाने सति देवदत्तपदेऽपि देवदतरूपार्थविषयकज्ञानजनकत्वस्य ज्ञानसम्भवादित्यर्थः । निरुक्ताशङ्काप्रतिक्षेपहेतुमुपदर्शयति-सङ्केत. त्वेन रूपेणेति । तज्ज्ञानस्य सङ्केतज्ञानस्य । हेतुत्वानभ्युपगमेन अर्थप्रतीतौ कारणत्वानभ्युपगमेन । तेन रूपेण सङ्केतत्वेन रूपेण। व्यभिचारज्ञानेऽपि सङ्केनत्वेन रूपेण सङ्केतज्ञानाभावेऽपि गवादिपदाद् गत्राद्यर्थप्रतीतिभावेन व्यतिरेकव्यभिचारज्ञानेऽपि । अदोषात् देवदत्तादिपदे सङ्केतज्ञानस्येत्यादिनोपदर्शितस्य दोषस्याभावात् । तदर्थासङ्केतितपदज्ञानतोऽतिप्रसाभयतस्तदर्थविषयकानुभवस्यानभ्युपगन्तव्यत्वेन तदर्थसङ्केतितपदज्ञानमेव तदर्थप्रतीतिकारणमिति तदर्थप्रतीतिजनकता तदर्थसकेतितपदज्ञाननिष्ठा, विषयतासम्बन्धेन तन्निरूपिताऽवच्छेदकता पदनिघ्रा, तन्निरूपितावच्छेदकता सकेतनिष्ठेति तद्रूपेण सङ्केतज्ञानस्यार्थोपस्थितितः प्राग् गवादिपदतो गवाद्यर्थानुभवस्थले सम्भवेन तद्रूपेण सङ्केतज्ञानस्यार्थप्रतीतौ कारणत्वे व्यभिचाराभावादित्याह-तद्धीजनकतेति- अर्थप्रतीतिजनकतेत्यर्थः। तज्ज्ञानस्थ सङ्केतज्ञानस्य । पूर्वमपि देवदत्तादिपदे सकेतज्ञानस्य कारणत्वावधारणात् पूर्वमपि, यद्यपि सङ्केतितपदज्ञानत्वेनार्थोपस्थितौ पदज्ञानस्य कारणत्वे सड्केतत्वेन सङ्केतज्ञानस्य पूर्व सत्त्वमावश्यकमेवेति तेन रूपेण व्यभिचारज्ञानात् तद्रूपेण तज्ज्ञानस्य न कारणत्वमिति दोषः स्यादेव, तथापि शक्तिपदज्ञानत्वेनैव कारणत्वम् , शक्तिश्च तदर्थविषयकानुभवजनकत्वरूपा परेण स्वीक्रियते, तदतिरिक्तशक्तिवादिना च निरुक्ताभिप्रायविशेषलक्षणसङ्केतरूपा सा स्वीक्रियते, तज्ज्ञानं च सङ्केतत्वज्ञानं विनापि शक्तित्वेन रूपेण सम्भवतीति बोध्यम् । ननु यथोक्तदिशा सकेतज्ञानस्यार्थानुभवे व्यभिचारपरिहारो भवता क्रियते तथा 'एतदर्थज्ञान मेतत्पदजन्यत्वेन' इत्यादिग्रन्थेनेतदर्थविषयकानुभवजनकत्वज्ञानस्यापि व्यभिचारः परिहियते एवेति विनिगमनाविरहात् किमित्यर्थविषयकानुभवजनकत्वज्ञानस्यार्थविषयकप्रतीतौ न कारणत्वमित्यशाक्य परिहरति-न चेति । 'पूर्वोक्तरीत्याs. नुभवजनकत्वस्य' इति स्थाने 'पूर्वोकरीत्याऽनुभवजनकत्वज्ञानस्य' इति पाठो युक्तः । निषेधहेतुमाह- इदमिति । 'स्वातन्त्र्येण' इत्यनेन 'एतदर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति, ज्ञाने साक्षादर्थज्ञाने पदजन्यत्ववैशिष्ट्यभाने सति तदनन्तरं पदे यदर्थविषयकानुभवजनकत्वज्ञानं तस्य यत् पारतन्त्र्येण कारणत्वं तस्य व्यवच्छेदः । 'पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव' इति स्थाने 'पदेऽनुभवजनकत्ववैशिष्ट्यज्ञानस्यैव' इति पाठो युक्तः। परेण तदर्थविषयकानुभवजनकत्वमेव पदे तत्र शक्तत्वमिति वादिना। तस्य च 'इदं पदमेतदर्थविषयकानुभवजनकम्' इत्याकारकस्य स्वात. त्र्येण पदे तदर्थविषयकानुभवजनकत्ववैशिष्ट्य ज्ञानस्य च । आधुनिक सङ्केतस्थले 'देवदत्तपदादसौ बोद्धव्यः'