SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १९३ कत्वादिना तदक्षा(तज्ज्ञा)नस्य पूर्वमपि गवादिपदे सम्भवेन व्यभिचाराभावात्, न च पूर्वोक्तरीत्यानुभ. वजनकत्वस्याप्यव्यभिचारः, 'इदं पदमेतदर्थानुभवजनकम्' इति स्वातन्त्र्येण पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव हेतुतायाः परेणाभ्युपेतत्वात् तस्य चाधुनिकसङ्केतस्थले व्यभिचारदर्शनादिति दिक् । . . न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य " पङ्कजमानय " इत्यत्रान्वये पनत्वव्याप. कानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम्, शब्दसम्बन्धोपगमेऽपि संस्कारप्राकट्यस्यावश्योपजीव्यः त्वात् , 'घटमानय' इत्यत्र छिद्रेतरघटत्वस्येव प्रकारस्यापि भाने न लक्षणोच्छेद इति तूतप्रायम्, न च ............ anrn... इत्यभिप्रायस्थले । व्यभिचारदर्शनात् तत्र प्रथमत ' एतर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानं यद्यप्यस्ति तथापि तद् 'एतदर्थज्ञानमैतत्पदजन्यम्' इत्याकारालिङ्गितमेव, न तु 'एतत्पदमेतदर्थविषयकानुभवजनकम्' इति स्वरूपाकलितमिति देवदत्तरूपार्थविषयकानुभवजनकत्वज्ञानाभावेऽपि देवदत्तपदादु देवदत्तरूपार्थविषयकानुभवभावेन व्यतिरेकव्यभिचारदर्शनात्, एवं च पद्मत्वप्रकारकपद्मविषयकानुभवजनक पद्मत्वप्रकारकपद्मविषयस्मरणजनकत्वं वा न पड्कजपदस्य पद्मरूपाय शक्तियन समुदायशक्तिस्तस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकस्य स्यात् , किन्तु ततो व्यतिरिकैव सङ्केतलक्षणा शक्तिः, सा पङ्कजपदस्य पद्मरूपाय नेष्यते. किन्तु व्युत्पत्तिग्रहापेक्षितपद्मत्वनियतशक्तिमहाहितसंस्कारादेव फलबलकल्प्योरोधितात पनत्वोरस्थितिरिति । ननु यदि पङ्कजपदस्य न पद्मत्वेन रूपेण पद्मरूपार्थे शक्तिः किन्तु पद्मवनियतशक्तिग्रहाहितसंस्कारमात्रादेव पद्म. स्वोपस्थितिस्तर्हि पङ्कजनिकर्तृरूपार्थे या तस्यावयवशक्तिः सा यथा पद्मत्वनियता तथा पद्मत्वव्यापकद्रव्यत्वादिनियताऽपीति तादृशक्तिमहाहितसंस्कारात् पद्मत्वस्येव द्रव्यत्वादीनामप्युपस्थितिसम्भवात् पङ्कजमानयेत्यत्र पकजपदासम्बदस्य संस्कार. मात्रोपस्थितस्य , पद्मत्वस्येव पङ्कजपदासम्बद्धानां पद्मत्वव्यापकानां द्रव्यत्वादीनामपि संस्कारमात्रोपस्थितानामन्वयबोधः स्यादित्याशकय प्रतिक्षिपति-न चेति- अस्य — वाच्यम्' इत्यत्रान्वयः । पङ्कजपदावयवशक्तेर्यथा पद्मत्वनियतत्वं पङ्कजनिकर्तरि पद्मे पद्मत्वस्य सत्त्वात् तथा पद्मत्वव्यापकद्रव्यत्वादिनियतत्वमपि द्रव्यत्वादीनामपि तत्र सत्त्वादित्यावेदयितुं 'पद्मत्वव्यापकानाम्' इति 'द्रव्यत्वादीनाम्' इत्यस्य विशेषणम् । शब्दस्य शक्तिलक्षणसम्बन्धस्यार्थे सत्त्वेऽपि पूर्वानुभवाहितशक्तिविषयकसंस्कारः प्राकट्यलक्षणोद्बोधशाली यावन्न भवति तावच्छक्तिस्मरणं न भवतीति शक्तिस्मरणे तत्संस्कारोद्धोधोऽवश्यमपेक्षितव्यः शक्तिस्मरणाचार्थस्मरणं तदैव भवति यदि तदर्थविषयकसंस्कारः प्रकटो भवति नान्य. थेति संस्कारप्राकव्यस्य संस्कारोबोधस्वभावस्थावश्यमर्थोपस्थितावुपजीव्यत्वेन पङ्कजपदस्य पद्मत्वे समुदायशक्तिलक्षणसम्ब. न्धाभावेऽपि पद्मत्वनियतावयवशक्तिमहाहितपद्मत्वविषयकात् संकारादुरोधलक्षणप्राकट्यालिङ्गितात् पद्मत्वोपस्थितिः सम्भवति, द्रव्यत्वादीनां चोकशक्तिव्यापकत्वेऽपि न तद्विषयकः संस्कारस्तादृशशक्तिपहाहितो नवा ततः प्रकटितः स इति 'पङ्कज. मानय' इत्यत्र सस्कारमांत्रोपस्थितस्य पनत्वस्यैवान्वयबोधो न द्रव्यत्वादीनामिति प्रतिक्षेपहेतुमुपर्शयति-शब्दसम्ब. न्धोपगमेऽपीति-शब्दस्यार्थेन सह शक्तिलक्षणसम्बन्धोपगमेऽपीत्यर्थः । ननु पङ्कजपदस्य न पद्मत्वे शतिर्नवा लक्षणाऽ. थापि पद्मत्वस्य प्रकारविधयाऽन्वयबोधे भानं यदि तदा 'गङ्गायां घोषः' इत्यत्रापि गङ्गापदस्य गङ्गातीरे लक्षणात्मक. सम्बन्धाभावेऽपि तस्यान्वयबोधे भानसम्भवाल्लक्षणोच्छेद इत्यत आह - “घटमानय' इत्यत्रेति- जलधारणादिकार्यार्थ घटस्यानयनमभिप्रेतम्, न च च्छिद्रघटेन जलधारणादिकं सम्भवति ततश्छिद्रे,तरघटत्वेन घटे घटपदस्य शत्यभावेऽपि 'घटमानय' इति वाक्यजन्यशाब्दबोधे छिद्रेतरघटत्वं प्रकारतया भासते तथा पद्मत्वरूपप्रकारस्य पदासम्बद्धस्य शाब्दबोधे भानऽपि प्रकारिणो धर्मिणो न पदासम्बद्धस्य शाब्दबोधे भ.नमिति गङ्गातीरत्वस्य लक्ष्यतावच्छेदकाय प्रकारीभूतस्य पदासम्बद्धस्य शाब्दबोधे भानसम्भवात् तत्र लक्षणाभावेऽपि धार्मणो गङ्गातीरस्य पदासम्बद्धत्वे तद्भानासम्भवात् तद्भानाथ गहातीरे गहापदस्य लक्षणाऽऽवश्यकीति न लक्षणोच्छेद इत्यर्थः। उक्तप्रायमिति-'अथ लाक्षणिकमननुभावकमेव' इत्यादिग्रन्थेन प्रकारान्तरेण लक्षणाया आवश्यकत्वमुक्कमित्यत उक्तप्रायमित्युकम्, 'भाने न' इत्यत्र 'प्रकारस्यापि' इत्यपेः 'भाने' इत्यनन्तरं सम्बन्धः तेन प्रकारस्य भानेऽपि न लक्षणोच्छेद इत्यन्वये उत्कोऽर्थः स्पष्टमेवावभासत इति । ननु
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy