SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । संस्कारप्राकट्यात् प्रकारिणोऽप्युपस्थितेर्लक्षणोच्छेद एव, अत्रोक्त गङ्गापदान्यथानुपपच्या शक्य तात्पर्यस्यैव लक्षणाकल्पकत्वात्, यद्यपि गच्छ गच्छसि चेत् कान्त !' इत्यादावशक्य मरणतात्पर्य कत्वेऽपि न लक्षणा, अनुमानेनैव निर्वाहात्, तथाप्यसति गत्यन्तरे तात्पर्यस्य लक्षणाकल्पकत्वमित्यदोषः । १९४ ऋजुवस्तु - " घटादिपदानां विशेषतात्पर्य साहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्तृ विशेष पद्मतात्पर्य ग्रह साहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न वत्र शक्तिः, न चैवं पङ्कजनिकर्तु - स्वेनैव तदुपस्थितिः स्यान्न पद्मत्वेनेति वाच्यम्, इष्टापत्तेः कथमन्यथा कदाचित् कुमुदेऽपि प्रयोगस्तव लक्षणया, मम तु तत्क्लृप्तयाऽवयवशक्त्यैवाकाङ्क्षादिसमवहितया शक्यार्थविषयी कुमुदबोधसम्भव इति महान् विशेषः " इत्याहुः । यथा प्रकारे लक्षणाभावेऽपि संस्कारप्राकट्यात् तदुपस्थित्या शाब्दबोधे तस्य भानं तथैव धर्मिणोऽपि संस्कारप्राकट्यादुपस्थितितः शाब्दबोधे भानसम्भवात् प्रकारिण्यप्यशक्ये लक्षणा नाश्रयणीयेति लक्षणोच्छद इत्याशङ्कय प्रतिक्षिपति न चेति । प्रकारिणोऽपि धर्मिणोऽपि । यदि ' गङ्गायां घोष:' इत्यत्र गङ्गापदस्य गङ्गातीरे शक्त्यभाववलक्षणाभावोऽपि तर्हि गङ्गापदं तत्रानर्थक्यान्नोच्चारणीयं स्यात् उच्चार्यते च वृद्धपरम्परया तंत्र गङ्गापदमिति तदन्यथानुपपत्त्या तत्प्रयोक्तुर्यदशक्ये गङ्गातीरे तात्पर्य ' गङ्गापदं गङ्गातीररूपार्थं बोधयतु' इत्याकारकं तदेव गङ्गापदस्य गङ्गातीररूपार्थे लक्षणां कल्पयतीति न लक्षणोच्छेद इति प्रतिषेधहेतुमुपदर्शयति- अत्रेति गङ्गायां घोष:' इत्यादिवाक्य इत्यर्थः । अशक्यतात्पर्यस्यैवेति-' पङ्कजमानय' इत्यादौ तु पद्मत्वाबोधनेऽपि पङ्कजनिकर्तृरूपार्थबोधकतया सार्थकं पङ्कजपदमिति न तस्यान्यथानुपपत्तिरित्यशक्ये पद्मलेन तस्य तात्पर्य किन्तु दर्शितयुक्तयैव संस्कारप्राकट्यादुपस्थितस्य पद्मत्वस्यान्वयबोधे भानमिति पद्मत्वविषयक तात्पर्याभावान्न तत्र लक्षणा करूप्यत इत्याशयः । गत्यन्तराभावे सत्यशक्यतात्पर्यस्य लक्षणाकल्पकत्वं न तु अशक्यतात्पर्यमात्रस्येत्याह- यद्यपीति । गच्छ गच्छसि चेत् कान्त !" इत्यादाविति - अत्रादिपदात् " पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् " ॥ इति चरणत्रयस्य परिग्रहः, [ साहित्यप्रन्थे ] इयं च स्वामिनं प्रति तत्परदेशगमन प्रतिषेधार्थं भार्याया उक्तिः, त्वं चेत् गच्छसि चेत् तदानीमेवाहं म्रिये तस्मान्मम जीवनं बाञ्छसि चेद् मा गच्छेति वक्त्रया भार्यायास्तात्पर्यम्, इत्थं चोक्तवाक्यघटकस्य कस्यापि पदस्य मरणं न शक्यमित्यशक्ये मरणे उक्त वाक्यस्य तात्पर्यसत्वेऽपि न तत्र लक्षणा, तामन्तरेणैव मरणरूपार्थप्रतीतिसम्भवात् उक्तवाक्यप्रयोगकाले जीवन्त्यास्तस्या भर्तुर्यत्र गमनं तत्र जन्म तदैव सम्भवति यदि तद्गमनसमनन्तरमेव तस्या मरणं भवेदिति भर्तृगन्तव्य देशीयतज्जन्मना तदीयमरणमनुमीयत इत्यनुमानादेव मरणावगतिसम्भवान्न तत्र लक्षणया प्रयोजनमिति न मरणतार्पयस्य लक्षणाकल्पकत्वमित्यर्थः । तथापि तत्रानुमानेन तात्पर्यविषयीभूताशक्यमरणरूपार्थावगति सम्भवेऽपि । असतीतियस्य तात्पर्यविषयीभूताशक्यार्थस्य नानुमानादितोऽवगति सम्भवस्तस्मिन्नर्थे ऽशक्ये तात्पर्यस्य गत्यन्तरविरहेण तदवगतये लक्षणाया आवश्यकत्वमिति तादृशतार्त्ययस्य लक्षणाकल्पकत्वेन न लक्षणोच्छेदलक्षणो दोष इत्यर्थः । 46 पङ्कजपदस्य पद्मत्वेन पद्मवोधने समुदायशक्ति प्रकारान्तरेण निराकुर्वतामृजूनां मतमुपदर्शयति - ऋजवस्त्विति - अस्य 'आहु:' इत्यनेन सम्बन्धः । विशेषतात्पर्य साहाय्येनेति-' घटपदं नीलघटं बोधयतु, पीतघटं बोधयतु' इत्यादिविशेषतात्पर्य सद् कारेणेत्यर्थः । न तत्र शक्तिः न पङ्कजपदस्य पद्मरूपार्थे समुदायशक्तिः । ननु पङ्कजपदस्य यदि पद्मत्वेन पद्मरूपार्थे न समुदायशक्तिः, किन्तु पङ्कजनिकर्तृत्वेन रूपेणावयवशक्तिरेव तर्हि पङ्कजनिकर्तृत्वेनैव रूपेण पद्मोपस्थिति: स्यान्न तु पद्मत्वेन रूपेण पद्मोपस्थितिरित्याशङ्कानिष्टावच्या प्रतिक्षिपति न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । एवं पङ्कजपदस्य पद्मत्वेन रूपेण पद्मे समुदायशक्त्यनभ्युपगमे । तदुपस्थितिः पद्मोपस्थितिः । इष्टापत्तेरितिपङ्कजपदात् पङ्कजनिकर्तृत्वेनैव पद्मस्य बोधो न तु पद्मत्वेने त्यापादनस्येष्टापत्तिरूपत्वेना दोषत्वादित्यर्थः । यदि भवन्मते पङ्कजपदात् पद्मत्वेन रूपेण बोधस्तदा पद्मत्वस्य कुमुदे बाध. त् कुमुदे पङ्कजपदप्रयोगः कदाचिज्जायमानो विरुध्येत, अतः कुमुदे लक्षणया तत्प्रयोगः कल्पनीयः अस्मन्मते तु पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वाच्छत्तयैव तत्र तत्प्रयोगस्य सम्भवालक्षणा - श्रयणं न कर्तव्यमिति भवन्मतापेक्षयाऽस्मन्ते विशेषोऽपीत्याह- कथमिति । अन्यथा पङ्कजपदात् समुदायशक्त्या पद्मत्वेन
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy