________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वस्तुन्येकानेकरूपतया चित्रे प्रमाण-नयभेदेन द्विविधा बुद्धिराहतैरिष्टा, अनुभवसिद्धेऽर्थे विरोधाभावादिति भावः।
__ यथा च सर्वस्य वस्तुनश्चित्रत्वं तथोक्तमस्माभिरात्मख्याती विस्तरभिया नेह प्रतन्यते, चित्ररूपे तु मतभेदं तर्करसिकव्युत्पत्त्यर्थमुपदर्शयामः- तत्र 'नीलं नीलान्यरूपासमवायिकारणम् , नवा ?' इति चित्ररूपे विप्रतिपत्तिः, विधिकोटिः सामानाधिकरण्येन निषेधकोटिरवच्छेदेन, तेन नांशतो बाधः सिद्धन त्वेकं विजातीयं चित्ररूपमिति, अत एव- " लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर-विषाणाभ्यां स नीलो वृष उच्यते " ॥१॥
] इति वचनादेकस्मिन् नीलवृषे नानारूपसमावेशोऽवच्छेदकभेदेन प्रतिपादितः सङ्गच्छत इत्येवं प्राचीन-नवीननैयायिकमतभेदाश्रयणाद् वेत्यर्थः, एतन्मतद्वयाभिप्रायोऽनन्तरमेव ग्रन्थकृता स्पष्टीकृतो वेदितव्यः। 'एकानेकरूपतया चित्रे' इति 'वस्तुनि' इत्यस्य विशेषणम् । प्रमाण नयभेदेनेतिप्रमाणेनानेकाकारा बुद्धिः, नयेन चैकाकारा बुद्धिजैनैरभ्युपगतेत्यर्थः। नन्वेकाकारबुद्धिविषयत्वा-ऽनेकाकारबुद्धिविषयत्वयोविरोधात् कथमेकस्मिन् वस्तुनि सम्भव इत्यत आह- अनुभवसिद्ध इति- ययोरेकत्र नानुभवस्तयोरेव विरोधः, प्रकृते चापेक्षाभेदेनैकत्र वस्तुन्येकाऽनेकाकारबुद्धिविषयत्वयोरनुभव एवेति न विरोध इत्यर्थः । यथा घटादेर्नील-पीतादिना चित्रत्वं तथा सर्वस्य वस्तुनो यदि चित्रत्वं स्यात् तदा स्यादुक्तदिशैकाऽनेकाकारबुद्धिविषयत्वम्, तत्रैव तु प्रमाणं न पश्याम इत्यत आह - यथा चेति-आत्मख्यातिनामा कश्चिद् ग्रन्थोऽनेन ग्रन्थकृता कृतोऽस्ति, यत्र वस्तुमात्रस्य चित्रत्वं व्यवस्थापितम् , परमिदानीं न स दृष्टिपथमस्माकमुपयातीति ।
'मतभेदाश्रयणाद् वा' इति यदुक्तं तत्र मतभेदोपदर्शनमधिकरोति-चित्ररूपेत्विति । यद्यपि वादि-प्रतिवादिनौ स्वस्वपक्षनिर्णयवन्तावेव, तथाप्याहार्यसंशयोत्पादनार्थ कथाङ्गसंशयहेतुवादि-प्रतिवाद्यभिमतपरस्परविरुद्धधर्मद्वयावबोधकविप्रतिपत्तिमध्यस्थेनाऽवश्यं विधेयेत्याशयेन चित्ररूपे विप्रतिपत्तिमुपदर्शयति-तत्रेति-मतदयप्ररूपककथायामित्यर्थः । प्राचीनमते यत्राऽवयव. मात्रे नीलमेव रूपं तत्रावय विनि नीलरूपमेवोत्पद्यत इति नीलरूपं नीलरूपस्याऽसमवायिकारणं भवति, यत्र तु कुत्रचिदवयवे नीलं कुत्रचिदवयवे पीतादिरूपं तत्राऽवयविनि चित्ररूपमेव विजातीयमुत्पद्यते, तत्राऽवयवगतं नीलरूपं नीलान्यचित्ररूपं प्रत्यसमवायिकारणं भवतीति नीलं नीलान्यरूपाऽसमवायिकारणमिति विधिकोटिः प्राचीननैयायिकस्य; नव्यनैयायिकमते तु यत्रावयवेष्वेकजातीयमेव नीलादि तत्रावयविनि तत्समानजातीयमेकरूपमेवोत्पद्यते, यत्र त्ववयवेषु नानाजातीयनील-पीतादिकं तत्र नानव नील-पीतादिकमुत्पद्यते, तत्रावयवगतं नीलमवयविगतनीलं प्रत्यसमवायिकारणम् , एवमवयवगतपीतादिकमवयविगतपीतादिकं प्रत्यसमवायिकारणम्, न तु नीलं नीलान्यरूपं प्रत्यसमवायिकारणमिति निषेधकोटिनव्यनैयायिकस्येत्याह-नीलमिति । प्राचीनमते नीलत्वरूपपक्षतावच्छेदकसामानाधिकरण्येनैव नीलरूपासमवायिकारणत्वस्य विधिः, न तु नीलत्वावच्छेदेन, तथा सति यत्रावयवेषु नीलमेव रूपं तस्य नीलरूपस्य नीलान्यरूपासमवायिकारणत्वाभावेन तन्मते बाधः स्यात् , एवं नवीनमते नीलत्वरूपपक्षतावच्छेदकावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वस्य निषेधः, न तु नीलत्वसामानाधिकरण्यन, तथा सति यत्रावयवेषु नीलमेव रूपं तत्र प्राचीनमतेऽपि तस्मिन्नवयवनीले नीलान्यरूपासमवायिकारणत्वनिषेधस्य सत्त्वेन तत्साधने तं प्रति सिद्धसाधनं स्यादित्याह-विधिकोटिरिति । 'निषेधकोटिरवच्छेदेन' इति स्थाने 'निषेधकोटिरवच्छेदकावच्छेदेन' इति पाठः समीचीनः, अथवाऽवच्छेदेनेत्यतः, सामानाधिकरण्येनेत्यस्य पक्षतावच्छेदकसामानाधिकरण्येनेत्यर्थः, अवच्छेदकावच्छेदेनेत्यस्य पक्षतावच्छेदकावच्छेदेनेत्यर्थः, पक्षतावच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकव्यापकविधेयप्रतियोगिकसम्बन्धी विधेयतावच्छेदकतया भासते, पक्षतावच्छेदकसामानाधिकरण्येनानुमितौ तु शुद्ध एव सम्बन्धी विधेयतावच्छेदकतया भासत इति तयोविवेकः । तेन विधिकोटेः पक्षतावच्छेदकसामानाधिकरण्येन निषेधकोटेः पक्षतावच्छेदकावच्छेदेन साधनेन । नांशतो बाधयिताक्छेदकसामानाधिकरण्येन साध्याभावनिश्चयलक्षणबाधो न भवतीत्यर्थः, पक्षतावच्छेदकावच्छेदेन समस्यामा प्रतादेविच्छेदन मध्याभावनिश्चयलक्षणः पक्षतावच्छेदकसामानाधि