SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। साधनं वा । यत् तु- 'नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकम् , नवा ? इति विप्रतिपत्तिः' इति, तन्न- नीलरूपासमवायिकारणस्य नीलस्य पक्षत्वे बाधात् , चित्ररूपस्य पक्षत्वे आश्रयासिद्धेः । यदपि- 'नीलरूपासमवाथिकारणकवृत्तित्वविशिष्टरूपत्वं पीतरूपासमवायिकारणवृत्ति, नवा ?' इति केषा. करण्येन साध्याभावनिश्चयलक्षणश्च बाधः प्रतिबन्धक इति पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितौ तु पक्षतावच्छेदकावच्छेदेन साध्याभावनिश्चयलक्षणबाध एव प्रतिबन्धको न पक्षतावच्छेदकसामानाधिकरण्यन साध्याभावनिश्चयलक्षणो बाधः प्रतिबन्धकः, प्रकृते तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वलक्षणसाध्यानुमितिरभिमतेति तत्र नीलात्वावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः प्रतिबन्धको न तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वाभावनिश्चय इति भावः । सिद्धसाधनं वेति- पक्षतावच्छेदकावच्छेदेन साध्यानुमितौ पक्षतावच्छेदकावच्छेदेन साध्यनिश्चय एव सिद्धसाधनविधया प्रतिबन्धको न तु पक्षतावच्छेदकसामानाधिकरण्येन साध्यनिश्चयः, पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितौ तु पक्षतावच्छेदकावच्छेदेन साध्यनिश्चयः पक्षनावच्छदेकसामानाधिकरण्येन साध्यनिश्चयश्च प्रतिबन्धकः, तत्र प्रथमे प्रतिबध्यप्रतिबन्धकभावश्च प्रकृतपक्षतावच्छेदकव्यापकविधेयप्रतियोगिकविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्न प्रतिबध्यतानिरूपितप्रकृतपक्षतावच्छेदकव्या कविधेयप्रतियोगिकविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकत्व. मिति. द्वितीये प्रतिबध्य-प्रतिबन्धकभावश्च निर्विशेषितविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्नप्रतिबध्यतानिरूपितविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेति, प्रकृते तु नीलत्वावच्छेदेन नीलान्यरूपासमवायिकारणत्वाभावविधेयकानुमितिर्नव्यमतेऽभिमता, तां प्रति नीलत्वावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः सिद्धसाधनविधया विरोधी, न च स प्राचीनमते समस्ति, किन्तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः समस्ति, न च स प्रतिबन्धक इत्याशयः। अस्यां विप्रतिपत्तौ प्रसिद्धमेव नीलरूपं पक्षीकृतम् , नीलान्यरूपासमवायिकारणत्वमपि पीतादौ प्रसिद्धमेव, तच्चेन्नीले चित्ररूपासमवायिकारणत्वमादायैव सिद्धयति तदभावोऽपि नीले चित्ररूपासत्त्वमुपादायैव सिद्धयतीति युक्तेयं विप्रतिपतिः। विप्रतिपत्त्यन्तरं पराभिप्रेतमुद्भाव्य प्रतिक्षिपति- यत् त्विति । 'नीलरूपासमवायिकारणकम् ' इति पक्षनिर्देशः, 'पीतरूपासमवायिकारणकम्' इति साध्यनिर्देशः प्राचाम्, 'नवा' इति साध्यनिर्देशो नव्यानाम्, अत्र नीलरूपासमवायिकारणकत्वेन प्राचीन नवीनोभयमतसिद्धं नीलरूपमैव, तद् यदि पक्षस्तर्हि तत्र पीतरूपासमवायिकारणकत्वं नास्ति, नहि कोऽपि नीलं प्रति पीतरूपस्याऽसमवायिकारणत्वं स्त्रीकरोतीति प्राचीनैस्तथासाधने बाध एव, नवीनैस्तदभावसाधने सिद्धसाधनमेव, प्राचीनैरपि नीलरूपे पीतरूपासमवायिकारणकत्वाभावस्योपगमात्, प्राचीनमतेन नीलरूपासमवायिकारणकत्वेन सिद्ध चित्ररूपमपि, तस्य पक्षत्वे आश्रयासिद्धिरेव, वादि-प्रतिवाद्युभयसिद्धस्यैव पक्षत्वं नैकतरमात्रसिद्धस्येत्याशयेनोक्तविपत्तिं प्रतिक्षिपति-तन्नेति - सिद्धसाधनदोषापेक्षया बाधदोषस्य प्रबलत्वात् तन्मात्रोपन्यास इति बोध्यम् । अन्यामपि वाद्यन्तराभिमतां विप्रतिपत्तिमुद्भाव्य प्रतिक्षिपति-यदपीति, 'नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वम्' इति पक्षनिर्देशः, 'पीतरूपासमवायिकारणवृत्ति' इति स्थाने स्पष्टप्रतिपत्तये 'पीतरूपासमवायिकारणकवृत्ति' इति पाठो युक्तः, स च प्राचीनमते साध्यनिर्देशः, 'नवा' इति निषेधकोटिनव्यानाम् , अत्र नीलरूपासमवायिकारणक नीलरूपं चित्ररूपं च प्राचीनमते, तत्र नीलरूपमुपादाय नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वमुभयमतसिद्धं भवति पक्षः, पीतरूपासमवायिकारणकमपि प्राचीनमते पीतरूपं चित्ररूपं च, तत्र पीतरूपमुपादाय पीतरूपासमवायिकारणकवृत्तित्वलक्षणं साध्यं प्राचीन-नवीनोभयमतेऽपि रूपत्वे पीतरूपत्वे च सिद्धम् , तद्वत्तित्वविशिष्टस्य तत्रैव सत्त्वमिति नियमेन नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वं नीलरूपासमवायिकारणकवृत्त्येव भवितुमर्हति, एवं च तत्र पीतरूपासमवायिकारणकवृत्तित्वं तदेव सेद्धमहति यदेव रूपं नीलरूपासमवायिकारणकं तदेव यदि पीतरूपासमवायिकारणकमपि भवेत्, न च नीलरूपं पोतरूपं वा तथा, नीलरूपस्य नीलरूपासमवायिकारणकत्वेऽपि पीतरूपासमवायिकारणकत्वाभावात् , पीतरूपस्य पीतरूपासम
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy