________________
૨૦૨
नयामृततरङ्गिणी-तरबिणीतरणिभ्यां समलतो नयोपदेशः ।
भानु-शब्दादावावापोद्वापक्रमेण तत्र शक्तिः कल्या, तद्वरं रूढिरेव, नहि धेन्वादिपदे योगरूढिरिति गौतमवचनमस्ति, येन योगत्यागेऽपसिद्धान्तः स्याद् " इति । ___ व्यवहारनमानुसारिणस्तु-" पङ्कजादिपदेऽपि रूढिरेव, व्युत्पत्तेः सर्वत्र साधुस्वार्थस्वात्, अत एष योगत्यागेन स्थलपझे पङ्कजपदस्य(प्रयोगः)” इत्याहुः।।
षयं तु ब्रूमः-व्युत्पसिरहितस्वं रूढित्वम् , व्युत्पत्तिसहिष्णुत्वं यौगिकत्वम् , तदसहिष्णुत्वं च मिश्र. स्वम्, इति पदानां यौगिकादिविभागः पारिभाषिक एव, परमार्थतस्तु योग-रूढिनययोः स्वस्वजन्य. शाब्दबोधे मिथः प्रतिबन्धकत्वेन ' स्याद् यौगिक एव शब्दः, स्याद्रुढ एव' इत्यादिरीत्या सप्तभङ्गी. प्रवृत्तिरेव युक्ता, नयद्वयजन्याकाङ्क्षयोः सप्तभङ्गयुत्थापकत्वस्य सर्वसिद्धत्वात् , अत एवावयव समुदाय. शक्तिभ्यां बोधकत्वम् ; पङ्कजादिपदे योगरूढित्वमिति न्यायनयकान्तो न युक्तः, तन्नये नाम-धात्वोः सम्भूयाबोधकत्वेन तयोस्तात्पर्यप्राहकतायाः, 'ड'प्रत्ययस्यैव च पङ्कजनिकर्तरि लक्षणायाः स्वीकारात्, न लौकिक-परीक्षकाभ्यां गौरित्यनेन गोत्वविशिष्ट एवार्थः प्रतीतिगोचरीक्रियत इति । नन्वेवं धेन्वादिपदस्यापि गोत्वविशिष्ट एव रूढिः सान्न तु धानकर्मत्वविशिष्टे योगोऽपीत्याशङ्कामिष्टापत्या परिहरति-न चेति । एवं स्यात् गवादिपदवढिरेव स्यान्न तु योगोऽपि । अत्रेष्टापत्तिरेव निषेधहेतुरित्याह-जान्विति-जान्वादिषदे नुशब्दसत्त्वेऽपि धेशब्दासत्त्वे धानकर्मत्वं न प्रतीयते, तत्रैव जादिस्थाने धेशब्दोपादाने धानकर्मत्वं प्रतीयते इत्यन्वय-व्यतिरेकलक्षणावापोद्वापाभ्यां धानकर्मत्वविशिष्टे धेनुपदस्यावयवशक्तिः प्रकल्पनीया, तदपेक्षया गोत्वविशिष्टे समुदायशक्तिमात्रमेव तस्य वरमित्यर्थः, यथा च पक जादिपर्द योगरूढमिति नैयायिकवृद्धानामनुशासनं नैवं धेन्वादिपदं योगरूढमित्यनुशासनं तेषां समस्ति यद्बलाद्योगरूढिरपि तस्याभ्युषेया स्यादित्याह-नहीति । कस्यचिन्नव्यनैयायिकस्य धेन्वादिपदे योगरूढाक्तिर्न न्यायदर्शनसिद्धान्तो येन तस्य योगत्यागेऽ. पसिद्धान्तो भवत्, न्यायदर्शनप्रणेतुमहर्षेौतमस्यैव वचनं न्यायसिद्धान्तः, न च धेन्वादिपदं योगारूढमिति गौतमवचनं समस्तीति योगपरित्यागेऽप्यपसिद्धान्तो नात्र पई धते इत्यावेदनाय 'गौतमवचनम्' इत्युक्तिः ।
पकजपदं योगरूढमित्यभ्युपगच्छतां नैगमन यानुसारिणां नैयायिकानां मामुपदर्थ पकजादिपदं रूढमेवेत्यभ्युपगन्तृणां व्यवहारनयानुसारिणां मतमुपदर्शयति-व्यवहारनयानुसारिणस्त्विति-अस्प 'आहुः' इत्यनेन सम्बन्धः । ननु पकजपदे रूढेरेव भावे पक्का जायत इति पङ्कजमिति व्युत्पत्तिरनार्थका स्यादित्यत आह-व्युत्पत्तरिति-यथा गच्छतीति गौरित्येवं गवादिपदव्युत्पत्तिौरित्यादिपदस्य साधुत्वार्थिका न तु ततो गमनकर्ताद्यर्थः परिकल्प्यत एवं पङ्कजादिपदेऽपीत्यर्थः । मत एक 'पका जायते इति व्युत्पत्तिः साधुत्वार्थिकैव, न त्ववयार्थबोधिकेत्यभ्युपगमादेव, अन्यत् सुगमम् । ___अत्र जैनानां सिद्धान्तं ग्रन्थकृदावेदयति-वयं तु ब्रूम इति । 'तदसहिष्णुत्वं च 'इति स्थाने 'तत्सहिष्णुत्वे सति तदसहिष्णुतं च' इति पाठो युक्तः । 'रूढित्वम्' इत्यत्र रूढत्वमिति पाठः सम्यग्। मिश्रत्वं योगरूढत्वम् , तथा च व्युत्पत्तिसहितत्वे सति व्युत्पत्तिरहितत्वं योगरूढत्वमित्यर्थः । इति एवंप्रकारेण। पारिभाषिक एव स्वेच्छाकल्पित एव । तर्हि कोऽत्र वास्तविक इत्यपेक्षायामाह-परमार्थस्थिति। योग-रूढिनययोः अवयवशक्त्यभ्युपगन्त-समुदायशक्त्यभ्युपगन्तनययोः । स्वस्वेति-अवयवशक्त्यभ्युपगन्तनयस्य समुदायशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन समुदायशक्त्यभ्युपगन्तृनयस्यावयवशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन च यौगिक एव शब्दो रूढ एव च शब्द इत्येवमे. कान्तवचनप्रवृत्तिर्न सम्भवति, किन्तु स्याद् यौगिक एव शब्दः १ स्याद्रूढ एव शब्दः २ स्याद् यौगिक एव स्याढ एव च शब्दः ३ स्यादवकव्य एव शब्दः ४ स्याद् योगिक एव स्यादवक्तव्य एव च शब्द: ५ स्यादूढ एव स्यादवक्तव्य एव च शब्दः ६ स्याद् यौगिक एव स्याद्रूढ एव स्यादवक्तव्य एव च शब्दः . इत्येवं सप्तभनीववनप्रवृत्तिरेव युक्तेत्यर्थः । कथमित्थमत्र सप्तभङ्गोप्रवृत्तिरित्यपेक्षा यामाह -नयद्वयेति-योगाभ्युपगन्तृनयरून्यभ्युपगन्तृनयद्वयेत्यर्थः । बस एव नयद्वयजन्याकालयोः सप्तमप्रयत्थापकत्वादेव । 'योगरूढित्वमिति' इति स्थाने 'योगरूढत्वमिति' इति पाठो