________________
नयामृततरङ्गिणी-तरङ्गिणीतर्राणभ्यां समलहतो मयोपदेशः ।
२०३
=
चावयवद्योत्य समुदायशक्यार्थबोधकत्वेन तथात्वं युक्तम् , एवं सति 'प्रजयति' इत्यत्र प्रोत्तरजित्वेन प्रकृष्टजय इव पङ्कजपदोत्तर'ड'प्रत्ययत्वेन पङ्कजनिकर्तृपद्म एव निरूढलक्षणासम्भवे समुदायशको माना. भावाद् , अनन्यलभ्यस्यैव शब्दार्थत्वाद्, अन्यथा समासे न शक्तिरिति मतभङ्गप्रसङ्गात्, न चेदेवं राजवाचके भूधनादिशब्दे भूधनवति लक्षण या यौगिके राजत्वेन पृथग् बोधकतया योगरूढत्वप्रसङ्गः कथकारं वारणीयः, विशिष्टरूढयेकान्तनयो विशिष्टयोगैकान्तनयो वा तत्र समानप्रसर इति तयोर्महायोधयोरिव युद्धं वारयितुं स्याद्वादमहाराजं विना कोऽन्यः समर्थ इति विभावनीयम् । __ एतेन योगार्थस्य नियमतोऽभानप्रसङ्गेन मीमांसकनयैकान्तोऽपि निरस्त; इति नययोजनयैव सर्वा शाब्दी प्रक्रियाऽनाविला ॥ ३९ ॥ युक्तः। न्यायनयकान्ताभ्युपगमस्यायुक्तत्वे हेतुमाह - तन्नर इति- न्यायनये इत्यर्थः । नाम-धात्वोः पङ्कनाम जनिधात्वोः। सम्भूयाबोधकत्वेन मिलित्वाऽर्थबोधकत्वाभावेन, पति नाम कर्दमरूपार्थ बोधयति, जनिधातुश्चोत्पत्तिरूपार्थ बोधयति, न तु मिलितयोस्तयोः पङ्कविशिष्टोत्पत्तिरूपार्थबोधकत्वं नामार्थ-धात्वर्थयोरभेदातिरिकसम्बन्धेनान्वयस्याव्युत्पन्नत्वात्. प्रकृते च पङ्कपदार्थस्य नाभेदसम्बन्धो जनिधात्वर्थोत्पत्ती घटतेऽतो जन्यजनकभाव एव सम्बन्धः स च व्युत्पत्तिविरोधान शाब्दे भासितुमर्हतीति । तयोः नाम-धात्वोः। तात्पर्यग्राहकतायाः पङ्कोपपदकजनिधातूतरडप्रत्ययस्य पजनिकर्तृरूपायें यत् तात्पर्य तदाहकतायाः, अस्य 'स्वीकाराद' इत्यनेनान्वयः, कर्नरूपार्थे डप्रत्ययविधानं न तु पङ्कजनिकर्तृरूपार्थे इति डप्रत्ययस्य न पङ्कजनिकर्तरि शक्तिः किन्तु तस्य तत्र लक्षणैवेति डप्रत्ययस्य पङ्कजनिकर्तरि लक्षणायाः स्वीकारादित्यर्थः । न च' इत्यस्य ‘युक्तम् ' इत्यनेनान्वयः। अश्यत्रयोत्येति- नाम-धातु-प्रत्ययलक्षणाक्यवद्योत्येत्यर्थः । समुदायशक्तया उपपद-धातु-प्रत्ययनिष्पनपङ्कजपदशक्त्या, शक्येति पाठे अवयवद्योत्यो यः समुदायशक्यार्थस्तोषकत्वे. नेत्यर्थोऽत्र प्रायः । तथात्वं पङ्कजपदस्य योगरूढत्वम् । युक्तत्वनिषेधे हेतुमाह-एवं सतीति- अवयवानां द्योतकत्वं समु. दायस्यार्थबोधकत्वमित्यभ्युपगमे सतीत्यर्थः । प्रकृष्टजय इवेति - प्रकृष्टजयरूपार्थे प्ररूपोपसर्गोतरजित्वेन जयार्थकजिधातोर्यथा लक्षणा तथेत्यर्थः । ननु पङ्कजनिकर्तृपद्मरूपार्थप्रतीतिरेव समुदायशको मानमित्यत आह- अनन्यलभ्यस्यैवेति, शब्दार्थस्वात शब्दशक्यार्थत्वात् , तेन लक्षणया लक्ष्यस्य शब्दजन्योपस्थितिविष पत्वलक्षणशब्दार्थत्वेऽपि न क्षतिः, यथा 'गङ्गायां घोषः' इत्यत्र गङ्गापदाद् गङ्गातीररूपार्थप्रतीतावपि न गङ्गापदस्य गङ्गातीररूपा) शक्तिः, गङ्गातीररूपार्थस्य तत्र लक्षण. यैवावगतिसम्भवेन तस्य शक्तिभिन्नलक्षणालभ्यत्वेनानन्यलभ्यत्वाभावात् , तथा प्रकृतेऽपि पङ्कजनिक पद्मरूपार्थस्य शक्ति. मिनलक्षणया प्रतीतिसम्भवेनान्यलभ्यस्य तस्यानन्यलभपस्वाभावेन पङ्कजपदशक्यार्थत्वाभावेन न पङ्कजपदस्य समुदायशकि. रित्यर्थः । अन्यथा अन्यलभ्येऽपि समुदायशकेरभ्युपगमे । समाल इति- समासघटकप्रत्येकपदक्लप्तशक्त्यैव समासप्रतिपाद्यार्थस्यावगतिसम्भवात् समासे न शकिरिति नैयायिकमतस्य भाप्रसङ्गात् , तथा च समासशक्त्यभ्युपगन्तारो वैयाकरणा एवं विजयेरनित्याशयः। लक्षणया निर्वाहे सत्यपि पङ्कजपदस्य योगरूढस्वाभ्युपगमे भूर्धनं यस्य स भूधन इत्येवं व्युत्पन्नस्य भूषनशब्दस्य भूस्वाभिराजरूपार्थकत्वतो योगरूढत्वं प्रसज्यत इत्याह-नरेवमिति- उक्तदिशोपपादितमर्थ नाभ्युपैति यदा तदेत्यर्थः। राजत्वेन पृथयोधकतया गजत्वेन राजनि भूधनपदस्य समुदायशक्तिरित्युपगमतो राजत्वेन राजरूपार्थस्य भूधनवद्रपार्थतः पृथग्बोधकतयेत्यर्थः । कथङ्कारं वारणीयः? न कश्चिद्वारयितुं शक्यः। विशिष्ट रूढयेकान्तनयः पाजपदस्य पङ्कजनिकर्तृत्वविशिष्ठपने रूढिरेवेत्येकान्ताभ्युपगन्तृनयः। विशिष्ठयोगकान्तनयः पङ्कजनिकर्तत्वविशिष्टपग्रेडवयवशक्तिरेवेत्येकान्ताभ्युपगन्तृनयः । तत्र परमपदे । समानप्रसरः तुल्ययुक्त्योपपादयितुं शक्यः । इति एतस्मात् कारणात् । तयोः विशिष्टरूत्येकान्तनय-विशिष्टयोगैकान्तनययोः, अत्य 'युदम्' इत्यनेनान्वयः । अत्र स्टान्तमाहमहायोधयोरिवेति- यषा महायोधयोर्मल-प्रतिमल्ल भावेन युद्धं कुर्वनो: सामन्त-महीग्त्योयुदं वारयितुं तदधिकशक्तिमान् महाराज एव प्रभुतं विनाऽन्यो न तयोयुद्ध वारयितुं समर्थस्तथा प्रकृतेऽपि निरुकनययोरन्योऽन्यमतखण्डनलक्षणयुद्ध बारयितं 'स्पाद यौगिक एव शब्दः, स्यान्ट एवं शब्दः' इत्यादिसप्तभत्रीलक्षणत्याद्वादमहाराज एव समर्थो न त तदन्यः कश्चित् समर्थ इत्यर्थः ।