________________
२०४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः।
तदेवं नयमतस्य विचित्रत्वात् प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूतनयप्रवृत्तिरिति व्यवस्थापितम् , एवं च सति यत् सिद्धं तदाह
सिद्धो न तन्मते जीवः, प्रोक्तः सत्त्वादिसंइयपि ।
महाभाष्ये च तत्वार्थभाष्ये धात्वर्थबाधतः ॥ ४० ॥ नयामृत-सिद्ध इति । तन्मते- एवम्भूतनयमते, सत्त्वादिसंज्यपि- 'सत्तायोगात् सत्स्वः, अतति स्वान् पर्यायानित्यात्मा' इत्यादिसंज्ञाधार्यपि, सिद्धो महाभाष्ये- विशेषावश्यके, तत्त्वार्थभाध्ये च, धात्वर्थबाधतो- ‘जीव प्राणधारणे' इति धात्वर्थानन्वयाज्जीवो न प्रोक्तः, तथा च विशेषावश्यकवचनम्- “ एवं जीवं जीवो संसारी पाणधारणानुभवो । सिद्धो पुणो अजीवो जीवणपरिणामरहिउ ति" [विशेषावश्यकभाष्यगाथा-२२५६ ] ॥ ४०॥ एतदेव तत्त्वार्थवचनमनूध व्यवस्थापयति
जीवोऽजीवश्च नोजीवो, नोअजीव इतीहिते।
जीवः पञ्चस्वपि गतिष्विष्टो भावैर्हि पञ्चभिः ॥४१॥ नयामृत-जीव इति । जीवोऽजीवो नोजीवो नोअजीवश्चेति चतुर्भिः समः पदैः कोऽर्थः प्रतिपाद्य इति ईहिते- प्रश्नयोग्यविचारविषयीकृते, सिद्धान्तिना गतिमार्गणायां पञ्चस्वपि गतिषु-नारक
रूढिज्ञानस्य योगार्थभानप्रतिबन्धकत्वमिति मीमांसकमतमपि न युक्तम् , तथा सति पङ्कजपदजन्यशाब्दबोधे नियमतः पङ्कजनिकर्तृरूपयोगार्थस्य भानं न स्य त् , 'स्याद् यौगिक एव शब्दः, स्याद्रूढ एव शब्दः' इत्यादिसप्तमजीलक्षण. स्याद्वादजन्यशाब्दबोधे तु कथञ्चिद्योगार्थ कथञ्चिद्र्व्यर्थयोरुभयोरपि भानस्यानुभवसिद्धत्वादित्य ह- एतेनेति-स्याद्वादमहाराजस्य नयद्वययुद्धवारणसमर्थत्वेनेत्यर्थः, अस्य 'निरस्तः' इत्यनेनान्वयः । उपसंहरति- इनीति- एवंप्रकारेणेत्यर्थः, नययोजनयैव स्यात्पदलाञ्छितनयवाक्यघटितसप्तभङ्गीप्रवृत्तिलक्षणनययोजनयैव ॥३९॥
चत्वारिंशत्तमपद्यमवतारयति- तदेवमिति । 'प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूत' इति स्याने 'प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूत' इति पाठो युक्तः, व्यवस्थापितमित्यन्तोक्तिः पूर्वपद्येन सहोत्तरपद्यस्य सङ्गतिप्रदर्शनार्था । एवं च सति प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूतनयप्रवृत्तिरित्यस्य व्यवस्थापने च सति। "सिद्धो न तन्मते जीवः" इति चत्वारिंशत्तमपद्यं विवृणोति-सिद्ध इतीति- सत्त्वादिसंश्यपि सिद्धो धात्वर्थबाधतस्तन्मते न जोव इति महाभाष्ये तत्त्वार्थभाष्ये चोक इत्यन्वयः । 'तन्मते' इत्यस्य 'एवम्भूतनयमते' इति विवरणम् , एवमप्रेऽपि मूलमुल्लिख्य विवृतम् । सत्त्वसंज्ञाधारी कथं सिद्ध इत्या कामानिवृत्तये उक्तम्- सत्तायोगादिति । 'सरवादि इत्यादिपदग्राह्यात्मसंज्ञाधारित्वप्रतिपत्तये अततीत्यादि तद्युत्पत्त्युपदर्शनम्, 'अतति स्वान् पर्यायान्' इत्यस्य स्थाने 'अतति ताँस्तान् पर्यायान्' इति पाठः सम्यग् . ताँस्तान् पर्यायानित्यस्य प्रसिद्धान् ज्ञान-दर्शन-सुखादिपर्यायानित्यर्थः, अततीत्यस्य गच्छतीत्यर्थः । सिद्धो जीवो न प्रोक्तः कुत्रेत्यपेक्षायामाह-महाभाष्य इति। तस्य विवरणम् - विशेषावश्यक इति । 'धात्वर्थवाघतः' इत्यस्य विवरणम् - " जीव प्राणधारणे” इति धात्वर्थानन्वदिति । विशेषावश्यकवचनमुल्लिखति- एवमिति- "एवं जीवन् जीवः संसारी प्राणधारणानुभवः। सिद्धः पुनर्न जीवो जीवनपरिणामरहित इति" इति संस्कृतम् ॥ ४०॥ - एकचत्वारिंशत्तमपद्यमवतारयति- एतदेवेति-जीवनपरिणामरहितत्वात् सिद्धस्याजीवत्वमेवेत्यर्थः, अस्य 'व्यवस्थापयति' इत्यनेनान्वयः । 'जीवोऽजीवश्चेति' इति पद्यं विवृणोति-जीव इतीति । 'ईहिते' इत्यस्य विवरणम्-'प्रश्नयोग्य