________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
२०५
तिर्यगू-नराऽ मर-सिद्धिगतिलक्षणासु, हि-निश्चितम् , पञ्चभिर्भावैः- औदायिक क्षायिक-क्षायोपशमिकोपशमिक-पारिणामिकलक्षणैः, जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपारि. णामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात् , न चात्मत्वप्रवृत्तिनिमित्तोपादानेनैवानतिप्रसङ्गे किं व्युत्पत्तिनिमित्तोपलक्षणग्रहणेन ? इति वाच्यम् , संभवति तदुपलक्षकभावे तत्त्यागस्यान्याय्य. त्वात् , अन्यथा मण्डपा-ऽश्वकर्णादिपदतुल्यताप्रसङ्गादिति दिक् ॥ ४१ ।।
नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते ।
पुद्गलप्रभृति द्रव्यमजीव इति संज्ञितम् ॥ ४२ ॥ नयामृत-ननीति । सर्वनिषेधार्थे- जीवत्वावच्छिन्नान्योन्याभाववदर्थे, नबि- विवक्षिते, विचारविषयीकृते इति । 'सिद्धान्तिना' इत्यस्य 'इष्टः' इत्यनेनान्वयः। गतिमार्गणायां कस्यां गतौ केन भावेनालिङ्गितो जीव इष्ट इत्यन्वेषणायाम्। व्युत्पत्तीति-जीवपदव्युत्पत्तिनिमित्तो यो जीवनलक्षण:-प्राणधारणस्वरूप औदयिकभावस्तेनोपलक्षितः-प्रतियोगिव्यधिकरणतदभावासमानाधिकरणो यदा कदाचित्तेन सममेकाधिकरणवृत्तिर्य आत्मत्वरूपपारिणा मिकभावस्तद्विशिष्टस्येत्यर्थः । भावपश्चकात्मनः अनन्तरोपदर्शितौदयिकादिभावपञ्चकस्वरूपस्य, जैनराद्धान्ते धर्मधर्मिणोः कथञ्चित्तादात्म्यमिति भावपञ्चकात्मकत्वं जीवस्य युज्यते, 'नच' इत्यस्य 'वाच्यम्' इत्यननान्वयः । आत्मत्वेति- आत्मत्वं यजोवपदस्य प्रवृत्तिनिमित्तं तदुपादानेनैव-तद्रहणेनैव, अर्थादात्मत्वविशिष्टो जीवपदार्थ इत्युक्त्यैव । अनतिप्रसले आत्मभिने घट-पटादिपदार्थ जीवपदार्थत्वप्रसङ्ग भावे । 'किम्' इति काकूक्तेर्न किश्चिद् व्युत्पत्तिनिमित्तोपलक्षगग्रहणेनेत्यर्थो लभ्यते, व्यत्पत्तिनिमितं यजीवपदस्य जीवनं तदात्मकोपलक्षणग्रहणेन न किश्चित् प्रयोजनमित्यर्थः। निषेधे हेतुमाह-संभवतीतिजीवनलक्षणं यदात्मत्वस्योपलक्षकं-ज्ञापकं तद्भावे संभवति सति, जीवनस्यात्मत्वोपलक्षकत्वे सम्भवतीति यावत् , जीवपदार्थ. स्वरूपव्यावर्णने तत्त्यागस्य जीवनलक्षणव्युत्पत्तिनिमित्तत्यागस्य। अन्याय यात्वात् न्यायापेतत्वात् , यत्रार्थे व्युत्पत्तिनिमित्तधर्मो न घटते तत्र बाधात् तत्परित्यागस्य न्यायादनपेतत्वेऽपि जीवपदार्थे आत्मनि प्राणधारणस्वरूपजीवनस्य घटमानत्वात् तत्त्यागोऽनुचित इत्याशयः। अन्यथा व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तोपलक्षकभावे सम्भवत्यपि तत्परित्यागेन प्रवृ. त्तिनिमित्तविशिष्टस्यैव पदार्थत्वाभ्युपगमे। मण्डपति-मण्डपे-गृहविशेषे मण्डपानकर्तृत्वस्य बाधात् तत्परित्यागेन गेहत्व. व्याप्यमण्डपत्वविशिष्टस्य वाचकं यन्मण्डपपदम् , यच्चाश्वस्य पशुविशेषस्य कर्णोऽश्वकर्ण इति व्युत्पत्तिनिमित्तमश्वसम्बन्धि कर्णत्वं तस्यौषधिविशेषे बाधात् तत्परित्यागेनौषधित्वव्याप्याऽभकर्णत्वविशिष्टस्य वाचकं यदश्वकर्णपदम् , तदादितुल्यत्वस्य जीवपदे प्रसङ्गादित्यर्थः । एतेनात्मा पञ्चस्वपि गतिषु वर्तमानो जीवपदार्थ इति भावितम् ॥ ११॥ ___अजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नञि सर्वनिषेधार्थ" इति द्विचत्वारिंशत्तमपद्यं विवृणोति-नाजीतीति । 'सर्वनिषेधार्थ' इति मूलस्य विवरणम्-'जीवत्वावच्छिन्नान्योन्याभाववदर्थे' इति । नजि जोवो नेत्यजीव इति समस्तेऽजीवशब्दे अकारस्य नअस्थानीयत्वेन तेन नम्पदमुपस्थाप्यते, तस्मिन् नभदे, यदि नत्र एव जीवत्वावच्छिन्नप्रतियोगिताकमेदवानर्थस्तदा जीवपदमनर्थकं प्रसज्यत इति न शङ्कनीयम् . यतो नमोऽन्योऽन्याभाव एवार्थः अन्योऽन्याभाववति तु तस्य लक्षणव, तदैकदेशेऽन्योऽन्याभावे जीवत्वविशिष्टस्य जीवपदार्थस्य प्रतियोगितासम्बन्धनान्वये जीवत्वस्यापि स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धनान्वय इति तद्वलादेव जीवत्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थः, अथवा नमो लक्ष. णाया आवश्यकत्वे जीवत्वावाच्छिन्नप्रतियोगिताकभदवत्येव तस्य लक्षणा, उक्तार्थे नअपदस्य तात्पर्यग्राहकत्वाच्च जीवपदं सार्थकमिति । 'नमि' इत्यस्य 'संश्रिते' इत्यनेनान्वयं प्रतिसन्धाय 'विवक्षिते' इत्युक्तम् । 'पर्युदासे' इति मूलस्य विवरणम्-'सादृश्ये' इति, 'पर्युदासः सदृग्ग्राही इति वचनात् । तत्र जीवत्वावच्छिन्नप्रतियोगिताकान्योन्याभाववति । 'संश्रिते' इति मूलस्य विवरणम् -'तात्पयेविषयीकृते' इति, 'पुदलप्रभृति' इत्यस्य विवरणम्-पुद्लादिकार पूरणम् । सादृश्यार्थकस्य पर्युदासनत्रः कथमाश्रयणमित्यपेक्षायामाह-पर्युदासानाश्रयणे विति-भेदाहिनयेन द्रव्येण सह गुण-पर्याययोर्भेद इष्यते, अभेदग्राहिनयेन द्रव्येण सह गुण-पर्याययोरभेद इष्यते, इति नयदययोजनया स्या