________________
२०६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
पर्युदासे- सादृश्ये च, तत्र संश्रिते- तात्पर्यविषयीकृते, पुद्गलप्रभृति- पुद्गलादिकं द्रव्यम् , 'अजीव' इति पदेन संज्ञितम्, पर्युदासानाश्रयणे तु जीवस्य गुण-पर्याययोरपि भेदनयाश्रयणेनाजीवपदप्रयोगप्रसा इति भावः ॥ ४२ ॥
नोजीव इति नोशब्देऽजीवः सर्वनिषेधके ।
देश-प्रदेशौ जीवस्य तस्मिन् देशनिषेधके ॥ ४३ ॥ नयामृत-नो इति । 'नोजीव' इति शब्दवाच्ये नोशब्दे सर्वनिषेधके विवक्षिते अजीव एव, देशनिषेधके तु नोशब्दे आश्रीयमाणे देशनिषेधस्य देशाभ्यनुज्ञानान्तरीयकत्वाज्जीवस्य देश-प्रदेशावेव नोजीवशब्दव्यपदेश्यावभ्युपगन्तव्यौ ।। ४३ ॥
जीवो वाऽजीवदेशो वा, प्रदेशो वाप्यजीवगः ।
अनयैव दिशा ज्ञेयो, नोअजीवपदादपि ॥ ४४ ॥ नयामृत-जीवो वेति । अनयैव -उक्तयैव दिशा, नोअजीवपदादपि नोशब्दस्य सर्वनिषेधकत्वे जीवो-जीवपदार्थो वा बोध्यः, तस्य देशनिषेधकत्वे चाजीवदेशो वा, अजीवगः- अजीवाश्रितः प्रदेशो वा, द्वादे द्रव्येण सह गुण-पर्याययोर्भेदाभेदलक्षणाविष्वग्भावोऽनुमतः, तत्र पर्युदासानाश्रयणे भेदनयाश्रयणेन जीवस्वावच्छिन्नप्रतियोगिताकभेदवान् जीवस्य गुणः पर्यायश्चेति तयोरप्य जीवपदप्रयोगप्रसङ्गः, सादृश्यार्थकायुदासाश्रयणे तु जीवद्रव्येण समं पुद्गलादिद्रव्यस्यैव द्रव्यत्वेन सादृश्यमिति जीवसदृशो जीवत्वावच्छिन्न प्रतियोगिताकमेदवान् अजीवपदार्थो न जीवस्य गुणः पर्यायो वेति न तत्र जीवपदप्रयोगप्रसङ्ग इत्यर्थः ॥ ४२ ॥
नोजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नोजीव इति नोशो" इति त्रिचत्वारिंशतमपद्यं विवयोति-नो इतीति । 'नोजीव इति शब्दवाच्ये' इत्यस्य स्थाने 'नो जीव इति शब्दवाच्यो' इति पाठो युक्तः, तस्य 'अजीव एव' इत्यनेनान्वयः। 'सर्वनिषेधके' इत्यस्य 'जीवत्वावच्छिन्नप्रतियोगिताकभेदवदर्थ के' इत्यर्थः, अत्र पर्युदासाश्रयणं न कृतम्, अजीव एवेति सामान्येनोक्तम्, तेन जीवस्य गुण-पर्याययोरपि नोजीवपदप्रयोगो भेदनयाश्रयणेनेष्ट इति ज्ञायते, यदि च जीवस्य गुण पर्याययोनों जीवशब्दप्रयोगो नेष्टस्तदा पूर्ववत् सादृश्याश्रयणं कर्तव्यमिति । 'विवक्षिते' इति 'आश्रीयमाणे' इति च पूरितम् । तस्मिन्' इत्यत्र तच्छन्देन नोशब्दग्रहणमवलम्ब्य 'तस्मिन् ' इत्यस्यार्थकमनम्-नोशब्द इति । देशनिषेधके नोशब्दे आश्रीयमाणे नोजीव इत्यनेन जीवदेशनिषेध एव प्रतीयेत जीवदेश-प्रदेशी कथं नोजीवशन्दव्यपदेश्यावित्यपेक्षायामाह-देशनिषेधस्येति । 'नान्तरीयकत्वाद' इत्यस्य व्याप्यत्वादित्यर्थः ।।४३ ॥
नोजीवपदार्थः क इत्यत्रोत्तरप्रतिपादकं चतुश्चत्वारिंशत्तमं "जीवो वा” इति पद्यं विवृणोति-जीवो वेतीति । नोअजीवपदादुक्तदिशा जीवपदार्थो यथा ज्ञायते तथोपदर्शयति-नोशब्दस्येति - नोअजीवशब्दघटकस्य नोशन्दस्य, सर्वनिषेधकत्वे-अजीवत्वावच्छिन्न प्रतियोगिताकान्योन्याभाववदर्थकत्वे, जीवपदार्थो नो अजीवशब्दव्यपदेश्यः, यतोऽजीवशब्दप्रतिपायो जीवत्वावच्छिन्नप्रतियोगिताकभेदवान् , तत्सर्वनिषेधो निरुक्तान्योन्याभाववत्त्वावच्छिन्नप्रतियोगिताकभेदवान् ; स च जीव एव, यावन्तोऽजीवास्तवेदस्य जीवादन्यत्राभावादित्यर्थः । अजीवदेशो यथा नोअजीवशब्दव्यपदेश्यस्तथोपदर्शयति--तस्य देशनिषेधकत्वे चेति- नो जीवशब्दघटकस्य नोशब्दस्य, देशनिषेधकत्वे- देशनिषेधार्थकत्वे एकदेशनिषेधस्यापरदेशाभ्यनुज्ञाना न्तरीयकत्वादजीवदेशो नो अजीवपदाज्ज्ञेयः, वा- अथवा अजीवदेशो निषिध्यते तेनाजीवदेशनिषेधैनाजीवप्रदेशोऽनुमन्यत इति अजीवप्रदेशो नोअजीवपदाज्ज्ञेयः । 'अजीवगः' इत्यस्य विवरणम् - 'अजीवाश्रितः' इति । उक्कमर्थमभिप्रायस्फो. रणेन स्पष्टयति- "अ मा नो ना प्रतिषेधे” इत्यनुशासनतौल्येऽपीति- प्रतिषेधे इत्यत्र सप्तम्यर्थो वाचकत्वम्, तथा च अशब्दो माशब्दो नोशब्दो नाशब्दश्च प्रतिषेधवाचक इति निरुकानुशासनार्थः, तथा च निरूकानुशासनं