________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः । २०७ ' मा नो ना प्रतिषेधे' इत्यनुशासनतोश्येऽपि संसर्गाभावोऽन्योन्याभाव नमोऽर्थः, नोशब्दस्य त्वभाव एकदेशो वा, तत्र चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं तदेकदेशत्वादि व्युत्पत्तिबललभ्यमिति सिद्धान्तपरिभाषेति निगर्वः ॥ ४४ ॥ उकं मतं कियतां नयनामित्याह
नैगमो देशसङ्ग्राही, व्यवहारर्जुसूत्रको।।
शब्दः समभिरूढ-श्चेत्येवमेते प्रचक्षते ॥ ४५ ॥ नयामृत-नैगम इति । नैगमो- नैगमनयः, देशसङ्ग्राही- अवान्तरसङ्ग्रहः, सर्वसङ्ग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः, व्यवहारर्जुसूत्रको- व्यवहारनय ऋजुसूत्रनयश्च, शब्दः समभिरूढश्चेत्येते नया एवं पचक्षते ॥ ४५॥
भावमौदयिकं गृह्णन् , एवम्भूतो भवस्थितम् ।
जीवं प्रवक्त्यजीवं तु, सिद्धं वा पुद्गलादिकम् ॥ ४६॥ नयामृत-भावमिति। एवम्भूतनयस्तु औदयिक भावं व्युत्पत्तिनिमित्तमेष प्रवृत्तिनिमित्ततया गृहन् , भवस्थितं-संसारिणं जीवम् , प्रवक्ति- जीवशब्देन व्यपदिशति, अजीवम्- अजीवपदार्थ तु सिद्धं वा पुद्गलादि द्रव्यं वेच्छत्यसौ ॥ ४६ ।।
चतुर्णामपि अमानोनाशब्दानामविशेषेण सामान्यतः प्रतिषेधार्थकत्वमनुशास्तीत्येवं निरुक्तानुशासनस्याविशिष्टत्वेऽपीत्यर्थः । नञोऽर्थः अजीवशन्दसन्निविष्टन कारस्थानीयाकारस्यार्थः । 'नोशब्दस्य' अजीवशब्दाव्यवहितपूर्ववर्तिनो नोशब्दस्य । तत्र च नोशब्दार्षे अभावे एकदेशे च। अन्वयितेति- यदा अभावो नोशब्दार्थस्तदा अन्वयितावच्छेदकं यजीवत्वावच्छिन्नप्रतियोगिताकभेदरूपमजीवत्वं तदवच्छिन्न प्रतियोगिताकत्वमभावे व्युत्पत्तिविशेषबललभ्यम् , यदा तु नोशब्दस्यकदेशोऽर्थस्तदाऽन्वयितावच्छेदकं यनिरुतमजीवत्वं तदवच्छिन्नैकदेशत्वं तदवच्छिन्न प्रदेशत्वं वा व्युत्पत्तिविशेषबललभ्यमिति जैनसिद्धान्तसंकेत इति तदमिज्ञस्य नोअजीवपदव्यपदेश्य उक्तदिशा जीवो वा अजीवदेशो वा अजीवप्रदेशो वा सम्भवतीति भावार्थ इत्यर्थः ॥ १४ ॥
पञ्चचत्वारिंशत्तमपद्यमवतारयति -उक्त मतमिति- 'जीवः' इत्याकारिते पञ्चस्वपि गतिषु औदयिकादिभावपञ्चकलक्षितो जीवो जीवपदव्यपदेश्यः प्रतीयते, अजीवपदाच्च पुद्गलप्रभृत्यजीवद्रव्यं प्रतीयते, नोजीवपदादजीवो जीवदेशो जीवप्रदेशो वा प्रतीयते, नोअजीवपदाच जीवो अजीवदेशोऽजीवप्रदेशो वा प्रतीयत इत्येवमुपदर्शितमतं कियतां नयानामित्याकालानिवृत्तये वकीत्यर्थः ।
“ मैगमो देशममाही" इति पश्चचत्वारिंशत्तमपद्यं विवृणोति- नेगम इतीति । अवान्तरसङ्गहः महासामान्यसत्ताध्याप्यद्रव्यत्वादिरूपेण सकलद्रव्यादीनामैक्याभ्युपगन्ताऽपरसङ्ग्रहः । सदेवैकमिति महासामान्यसत्तारूपेण सर्ववस्तूनामैक्ययमेवैत्यभ्युपगन्तृपरसङ्घहस्तु सन्मात्रग्राहित्वात् प्रत्येक जीवाजीवादि वस्तु तदर्थकजीवाऽजीवादिशब्दं च नाङ्गीकरोती त्यतस्तत्परित्याग इत्याह-सर्वसङ्ग्रहस्येति । तत्यागः सर्वसमहत्यागः । अन्यत् स्पष्टम् ॥ ४५ ॥ ___एवम्भूतनयवक्तव्यप्रतिपादकं षट्चत्वारिंशत्तमं "भावमौदयिकं गृहन्" इति पद्यं विवृणोति-भावमितीति । असी एवम्भूतनयः । अन्यत् सुगमम् ॥ ४६ ॥