________________
अहम् । न्यायविशारद-न्यायाचार्य महामहोपाध्याय-श्रीयशोविजयगणिमणिविरचितः
स्वोपज्ञनयामृततरङ्गिणीव्याख्यासमलङ्कतो
नयोपदेशः।
तदुपरिश्रीमत्तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेन श्रीविजयलावण्यसूरिणा विरचिता
तरङ्गिणीतरणिः
यो विश्वं वेत्ति विश्वप्रथनपरवचा ध्वस्तकामादिशत्रः, पूज्यानां पूजनीयो नय-मितिधिषणैः सर्वदोपासनीयः । भकानां कामदाता परमपदगतो नित्यशुद्धप्रबुद्धो विघ्नवातान् स वीरोऽपहरतु नितरां मङ्गलागारमूर्तिः ॥१॥ यामासाद्यैव सर्वा व्यवहृतिघटना निर्विरोधात्मलाभा, मन्तव्यं दर्शनानामपि समनुगतं यत्र वादावबद्धम् । सा स्याद्वादावदाता जिनवरगदिता भारती सुप्रसन्ना, भूयादिष्टार्थसिद्धय निज-परमननोद्वारकान्ता नितान्तम् ॥२॥ येषां निर्माणशैली स्व-परसमयगा नव्य-प्राचीनमान्याऽनल्पार्थोद्बोधदक्षा नवनवमननास्वादकान्ता बुधानाम् । श्रीमन्तस्ते बुधेन्द्रा जिनमतप्रथनैकान्तदीक्षाः स्मृतिस्थाः, सन्त्विष्टार्थानुगत्यै यश इति महितां संदधाना अभिख्याम् ॥३॥ तीर्थोमत्येकवार्ता प्रचलति सततं यत्समीपे नराणां, विद्वांसो मोदपूर्णा यदुदितवचनावाप्ततत्त्वार्थबोधाः । श्रीमन्तो नेमिसूरीश्वरगुरुप्रवराः सर्वतन्त्रस्वतन्त्राः, सन्तु प्रत्यूहशान्त्यै सुविमलचरणाः सेविताऽऽचार्यमन्त्राः ॥४॥ नयामृततरङ्गिणी निजनयोपदेशार्थगां यशोविजयवाचकैः सुरचितां बुधाऽऽनन्दिनीम् ।
शिशूपकृतये गुरुकमकजालिराप्तानुगो वरां तरणिसंयुतामनु करोति लावण्यकः ॥ ५ ॥ नयामृततरङ्गिणी
ऐन्दवीव विमला कलाऽनिशं भव्यकैरवविकाशनोद्यता ।
तन्वती नयविवेकभा-रती भारती जयति विश्ववेदिनः ॥ १ ॥ शिष्टाचारपरम्पराप्राप्तकर्तव्यताकं विघ्नौघविध्वंसनावन्ध्यकारणसर्वज्ञमुखाम्भोजसमुद्भुतवाणीस्तुतिलक्षणं मङ्गलं शिष्यशिक्षायै ग्रन्थादौ निबध्नाति-पेन्दवीवेति- विमला ऐन्दवी कलेवानिशं भव्यकैरवविकाशनोद्यता नयविवेकभा-रती तन्वती विश्ववेदिनो भारती जयतीति सम्बन्धः । 'ऐं'इतिसरस्वतीमन्त्राराधनाऽवाप्तकवित्व-वित्त्वगुणस्यैतद्न्थकर्तुः श्रीमतो यशो. विजयोपाध्यायस्य स्वरचितग्रन्थमात्र एवाऽऽदौ तन्मन्त्रग्रहणात्मकमङ्गलपूर्विकैव प्रवृत्तिरित्यतोऽत्रापि 'ऐन्दवी 'इत्येतत्पदघटकतया तद्ब्रहणमिति, [ मन्त्रशन्दे 'अर्ह, अहम्' इतिवत् सानुनासिकत्व-मान्तत्वयोरभ्युपगमः ] | विश्ववेदिनः सर्वज्ञस्य तीर्थकृतो जिनस्य । भारती वाणी । जयति सर्वोत्कृष्टतया वर्तते, अतः सर्वैरप्यहमहमिकया पूजनीया सा । नहि ज्ञानावरणाद्यत्यन्तक्षयमन्तरेण विश्ववेत्तत्वं सम्भवतीति 'विश्ववेदिनः' इत्यनेन ज्ञानाऽतिशयः साक्षात्, तद्वाराऽपायापग
aaharana