________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
३६७
भादेरपि तथाज्ञानात्, रासभादेर्व्यभिचारज्ञानान्न तगह इति चेत् ? न- वह्नयादेरपि व्यभिचारशङ्कासाम्राज्यादिति, धूमाद्यर्थिनो वह्नयादौ प्रवृत्तिश्च सम्भावनयैवोपपद्यत इति परमतमिति चेत् ? नसामान्यव्यभिचारा-ऽनुगतागुरुविशेषान्तरानुपस्थितिदशायां यत्किश्चिद्धमवतयोस्तद्भहसामग्र्या एव वह्निधूममात्रे तदाहकत्वात् , सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात्, रासभादौ तु व्यभिचारनिर्णय एव, असति तन्निर्णये तत्र धूमहेतुत्वग्रहेऽपि भ्रमत्वमेव ग्राह्याभावात् , अन्यथासिद्धनियत. पूर्ववर्तित्वं हि हेतुत्वम् , तथा च वक्षयादेरवधिभूतस्य धूमादिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवारम् । यागा-ऽदृष्टादौ स्वर्गादिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेदकविनिर्मोकेण शब्दानुमानादिनैव, तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात्। तृणा-ऽरणि-मण्यादीनां वहिकारणताग्रहेऽपीयमेव रीतिः,
www
भादेरिति । न तहः न धूम-रासभयोः कार्यकारणभावग्रहः । देशान्तरे कालान्तरे वा वहिं विनाऽपि धूमो भविष्यतीति व्यतिरेकव्यभिचारशङ्कया वह्नि धूमयोरपि कार्यकारणभावग्रहो न स्यादिति समाधत्ते- न-वह्नयादरपीति । ननु धूमवन्योने यदि कार्यकारणभावस्तदा धूमरूपेष्टसाधनत्वस्य वह्नौ ज्ञानाभावाद् धूमार्थिनो वयानयनादौ प्रवृत्तिर्न स्याद्, एवं भोजनादेरपि तृप्त्यादिकं प्रति कारणत्वाभावेन तृप्त्याद्यर्थिनो भोजनादपीष्टसाधनत्वज्ञानाभावात् प्रवृत्तिन भवेदित्यत आहधूमार्थिन इति । सम्भावनयैव प्रायो वयादे—मादिर्भवतीति सम्भावनयैव इष्टसाधनत्वसंशयादपि कृषीवलादेः कृष्यादिकरणे प्रवृत्तिदर्शनेनेष्टसाधनत्वप्रमितित्वेनेष्टसाधनतानिश्चयत्वेन वेष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वभावादित्याशयः । इति परमतम् एवंस्वरूपं कार्यकारणभावापलापिमतम् । समाधत्ते-नेति । सामान्येति-धूमं प्रति वहेर्द्रव्यत्वेन तेजस्वादिना वा कारणत्वे व्यभिचारः सकलवह्नयनुगतवह्नित्वापेक्षयाऽगुरोर्विशेषान्तरस्यावान्तरसामान्यस्यानुपस्थितिश्चेति तद्दशायां यत्किञ्चिद्धूमवयोः कार्यकारणभावग्रहस्य या यत्किञ्चिद्धमवढ्यन्वयव्यतिरेकग्रहसहकृतवह्निधूमादिप्रत्यक्षलक्षणा सामग्री तस्या एव वह्निधूममात्रे वह्निसामान्य धूमसामान्ययोः, तह्राहकत्वात् कार्यकारणभावग्राहकत्वात् , वहयाद्यन्यतमत्वापेक्षया वह्नित्वं लध्विति लाघवज्ञाने सति धूमं प्रति वह्निसामान्यस्य वह्नित्वेन कारणत्वग्रहे क्वचिद् वह्नि विनाऽपि धूमो भविष्यतीति व्यभिचारशङ्कायाः अप्रतिबन्धकत्वादित्यर्थः। ननु रासभत्वादिकमपि रासभादावनुगतं सामान्यरूपत्वाचातद्वयावृत्त्याद्यपेक्षया लधिति तेनाविरूपेण रासभादेवूमं प्रति कारणत्वग्रहः किं न स्यादित्यत आह-रासभादौ त्विति । व्यभिचारनिर्णय एव रासभाद्यभावेऽपि वह्नयादिघटितसामग्र्या धूमोत्पत्तेदर्शनाद् व्यभिचारनिर्णय एव, स च कारणत्वग्रहं प्रति प्रतिबन्धक इति न धूमं प्रति रासभादेः कारणत्वग्रह इत्यर्थः। यदा च निरुक्तव्यभिचारग्रहो नास्ति तदा निरुक्तसामच्या रासभादेरपि धूमं प्रति कारणत्वग्रहो भवत्येव, किन्तु रासभादौ धूमकारणत्वाभावेऽपि धूमकारण ग्रहो भवन् भ्रम एव, स च न वस्तुसाधक इति न ततो धूमं प्रति रासभादेः कारणत्वं सिद्धयतीत्याह-असतीति । तन्निर्णये व्यभिचार. निर्णये । तत्र रासभादौ । ग्राद्याभावात् ग्राह्यस्य धूमं प्रति रासभादेः कारणत्वस्याभावात् । कारणत्वं निरुच्य तस्य धूमं प्रति वह्नयादौ सद्भावमावेदयति - अन्यथेति- अन्यथासिद्धिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमित्यर्थः। तथा च कारणत्वस्य निरुक्तस्वरूपत्वे च । तत कारणत्वम् । ननु स्वर्गवादेर्दुःखासम्मिनसुखविशेषादिरूपस्यादर्शनात् कथं यागत्वेन स्वर्गत्वेन कार्यकारणभावग्रहः, धर्माधर्मगतमदृष्टत्वं त्वतीन्द्रियत्वादेव न प्रत्यक्षमिति कथं स्वर्गत्वेनादृष्टत्वेन कार्यकारणभावोऽप्यन्वयव्यतिरेकग्रहसहकृतप्रत्यक्षप्रमाणग्राम इत्यत आह-यागादृष्टादाविति । ननु कार्यकारणभावापलापिना चार्वाकेण प्रत्यक्षस्यैव प्रामाण्यं स्वीक्रियते, न शब्दानुमानादेरिति कथं ततो यागा-ऽदृष्टादौ स्वर्गादिजनकत्वग्रह इत्यत आह-तत्प्रामाण्यस्यापीति- शब्दा-ऽनुमानादिप्रामाण्यस्यापीत्यर्थः । तत्र उदयनाचार्यादिप्रणीतकुसुमाञ्जल्यादौ, तत्रानुमानप्रामाण्यव्यवस्थापको ग्रन्थश्चायम्
" शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥१॥” इति. कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कत, तदाकलनं च नानुमानमवधीर्य कस्यचित् , मुहूर्तयामा-ऽहोरात्र-पक्ष-मास-वयन-संवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् ,