________________
३६८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नवोपदेशः ।
अनाकलने वा कमाश्रित्य व्यभिचारः शङ्कयेत, तथा च सुतरामनुमानस्वीकारः, एवं च देशान्तरेऽपि वक्तव्यम्, स्वीकृतमनुमानं सुहृद्भावेन पृच्छामः कथमाशङ्का निवर्तनीयेति चेत् ? न- यावदाशक तर्कप्रवृत्तः, तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते, विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्य लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् । ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम् , न- शङ्काया व्याघातावधित्वात् , तदेव ह्याशङ्कयते यस्मिन्नाशयमाने स्वक्रियाव्याघातादयो नावतरन्तीति लोकमर्यादा, नहि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते, तथा सति शङ्कव न स्यात्, सर्व मिथ्या भविष्यतीत्यादिवत्, तथाप्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् ? न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम् , केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते, ततः शङ्कव फलतः स्वरूपतश्व निवर्तनीया, तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्तते, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्व सुस्थम्, न चैतदागमम् , न्यायाङ्गतया तर्क व्युत्पादयतः सूत्रकारस्याभिमतत्वात् , अन्यथा तद्वयुत्पादनवैयर्थ्यादिति । अनुमानस्य प्रामाण्य तत एव संवादिप्रवृत्तिजनकत्वहेतुना शब्दजधियोऽपि प्रामाण्यं सिद्धयत्येव, प्रमाणं भवतु शब्दः किन्तु तस्यानुमानेऽन्तर्भाव इति न पृथक् प्रमाणमिति वैशेषिकमतं चाशङ्कच कुसुमाञ्जलावेव दूषितम्, तद्न्थश्चायम्- "शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः, तथाहि- यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणम् , पदार्थत्वादिति चानैकान्तिकम्, पदैः स्मारितत्वादित्यपि तथा, यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः, नक्षत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषण-विशेष्यभावो वा संभवति, ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाववादिभिर्नेष्यते, न च लिङ्गतया ज्ञापकत्वम् , यल्लिङ्गस्य विषयस्तदेव तस्य, परस्पराश्रय प्रसङ्गात् तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति, तथाप्याकालादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात्, न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमा विशेषादेव विशिष्टत्वात् , यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकानि आकाङ्खादिमत्त्वे सति तत्स्मारकत्वात् , गामभ्याजेतिपदवत् , न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तत्सिद्धेः, तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति, अत्रोच्यते- " अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः । आकाङ्खासत्तया हेतुर्योग्यासत्तिरबन्धना ॥१॥" एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः ? सम्भावितसंसर्गा वा ? न प्रथमः- अनाप्तपदकदम्बस्मारितैरनेकान्तात् , आप्तोक्त्या विशेषणीयमिति चेत् ? न- वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः न विप्रलम्भकत्वमिहाप्तशब्देन विवक्षितम् , तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनुभवप्रामाण्यमपि, न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात् , यत्र क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः, ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम्, न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् , बुद्धरर्थभेदमन्तरेण निरूपयितुमशक्यात् , पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित् , अनाप्तसाधारण्यात् , एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत् ?, न- एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धः, अननुभूतचरे स्मरणायोगात् , तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति । नापि द्वितीयः- योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात् , योग्यतामात्रस्य प्रागेव सिद्धेः, अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्यैव हेतुः स्यात्, तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनेकान्तः, तथाविधानां सर्वथा संसर्गायोग्यत्वादिति । द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति, तत्र केयमाकाङ्क्षा नाम, न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् नापि तद्योग्यता, योग्यतयेव गतार्थत्वात् ?, नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् , तत्रापि सामान्याक्षिप्तविशेषयोरविनाभावोऽस्तीति चेत् ?, न- अहो विमलं जलं नद्याः, कच्छे महिषश्वरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् ?, नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात् , गुण-क्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा, पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा, तत्र भवतीत्युक्ते किं करोतीत्येव परस्मारितविषया, न तु किंरूप इत्यादिपि, यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् , इति न किञ्चिदनुपपन्नमिति चेत् ? एवं तर्हि चक्षुषी निमील्य, परिभावयतु भवान्- किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति, तत्र प्रथमे नानया व्यभिचार