SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । कत्वप्रतीतेर्बहुत्वविशेषेण समर्थने द्वित्वादिप्रतीतेरप्येकत्वविशेषेणैव समर्थयितुं शक्यत्वात्, वास्तवाभावे गौणानुपपत्तेरप्युक्तत्वाच्च । न च ' 'द्वाविमौ नील-पीतौ' इति गौणद्वित्वाद् विलक्षणं 'द्वाविमौ घट-पटौं' इत्यत्र द्वित्वमनुभूयते, न चैकत्र ज्ञाने द्वित्वं प्रकारः, अन्यत्र तु नेत्यपि विनिगन्तुं शक्यम् , विजातीयज्ञानविषयत्वसंबन्धेन स्वस्थितस्वप्रकारतया बुद्धिवैलक्षण्योपपादनमप्युभयत्र तुल्ययोगक्षेमम् । एकत्रापि च घटे नीलत्व-घटत्वाभ्यां द्वित्वमनुभूयत एव, अनुभूयत एव च 'एते वृक्षा वनम्' इति बहुत्वावच्छिन्नेऽपि केनचिदुपाधिनैकत्वमिति, स्वसामग्रीप्रभवैकत्वद्वित्वाद्यनन्तपर्यायोपेतद्रव्य एवापेक्षाबुद्धिहेतोरपेक्षात्मकभावे यथाक्षयोपशमं कदाचिदेकत्वप्रकारकं कदाचिच्च द्वित्वादिप्रकारकं ज्ञानं जायत इत्यपेक्षाबुद्धिगम्यत्वमेव द्वित्वादेर्युक्तम् । अत नयरूपत्वादस्या नयान्तरसंयोजनया सप्तभङ्गीसंगतिरपि सङ्गता, यादृशविषयतामानैकत्वप्रतीतेरिति- 'एको धान्यराशिः' इत्यत्रैकशब्देनैकवचनेनैकत्वप्रतीतेत्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिबहुत्वत्व. व्याप्यापेक्षाबुद्धिविशेषजन्यतावच्छेदकजातिविशेषविशिष्टबहुत्वविशेषात्मकराशित्वविषयकत्वेनोपपादने द्वित्व-त्रित्वादिप्रतीतेरप्येकत्वत्वव्याप्यजातिविशेषविशिष्टैकत्वविशेषेणैवोपपादयितुं शक्यत्वाद् वास्तवद्वित्व-त्रित्वादेरप्युच्छेदः प्रसज्येत, यदि च वास्तवद्वित्वादि न भवेत् तदैकत्वविशेषलक्षणगौणद्वित्वादि कल्पयितुं न शक्यत इति विभाव्यते तर्हि सामूहिकैकत्वस्यानुभूयमानस्य वास्तवत्वे बाधाभावेन तत्रापि तदैकत्वं वास्तवं विहाय गौणं बहुत्वविशेषादिरूपं न कल्पयितुं शक्यं क्वचिदपि सामूहिकैकत्वस्य वास्तवस्याभावे तद्वौणानुपपत्तरित्यर्थः । उक्तत्वाच्चेति- 'अथैकत्व-द्वित्वादि तत्तद्धर्मप्रकारकबुद्धिविषयत्वादिकं गौणमेव' इत्याद्याशङ्कय अन्ते 'वास्तवद्वित्वाद्यभावे ज्ञानाकारतापर्यवसानेन साकारवादप्रसङ्गाच्च' इत्यनेन प्रन्थेनोक्तत्वाचेत्यर्थः । 'नच' इत्यस्य 'अनुभूयते' इत्यनेनान्वयः, द्वाविमौ नील-पीती' इत्यत्र गौणं नील-पीतगतं द्वित्वं विषयः, 'द्वाविमौ घट-पटौ' इत्यत्र मुख्यं द्वित्वं विषय इति कल्पना तदा स्याद् यदि प्रतीत्योबेलक्षण्यं तद्विषययोर्वा वैलक्षण्यमनुभूयेत, न च तथा वैलक्षण्यमनुभूयत इति, एवं च यदि 'द्वाविमौ नील-पीतौ' इत्यत्र गौणं द्वित्वं विषयस्तर्हि 'इमौ घट-पटौ' इत्यत्र गौणमेव द्वित्वं विषयोऽस्तु, 'द्वाविमौ घट-पटौ' इत्यत्र मुख्यद्वित्वस्य विषयत्वे 'द्वाविमौ नील-पीतौ' इत्यत्रापि मुख्यस्यैव द्वित्वस्य विषयत्वं भवतु. अनुभवस्य समानस्यैवोभयत्र सद्भावादिति भावः । 'न च' इत्यस्य ‘शक्यम्' इत्यनेनान्वयः । एकत्र ज्ञाने 'द्वाविमौ घट-पटौ' इत्यस्मिन् ज्ञाने घट-पटरूपविशेष्ये द्वित्वं प्रकारः, अन्यत्र तु न 'द्वाविमौ नील-पीतौ' इति ज्ञाने पुनर्नील-पीतरूपविशेष्ये द्वित्वं न प्रकारः, इत्यपि एवंप्रकारेणापि, विनिगन्तुं न च शक्यं विनिगमकहेतोरभावात् , इत्युभयत्रैव प्रकारतया भासमानस्य द्वित्वस्यैकत्र गौणत्वमपरत्र मुख्यत्वमित्यपि कल्पयितुं न शक्यमिति भावः । 'द्वाविमौ नील-पीतौ' इत्यत्र द्वित्वं स्वस्मिन्नेव प्रकारतया भासते, 'द्वाविमौ घट-पटौ' इत्यत्र तु द्वित्वं पट-पटयोः प्रकारतया भासते, इत्येवं बुद्धिवलक्षण्यकल्पनमपि न विशेषकम् , यतः 'द्वाविमौ घट-पटौ' इत्यत्र द्वित्वं स्वस्मिन् प्रकारतया भासते, 'द्वाविमौ नील-पीतौ' इत्यत्र तु द्वित्वं नील-पीतयोः प्रकारतया भासते इत्यपि वक्तुं शक्यत एव, द्वित्वे द्वित्वस्य विजातीयज्ञानविषयत्वसम्बन्धस्य प्रकारतावच्छेदकस्योभयत्र सम्भवादित्याहविजातीयज्ञानविषयत्वसम्बन्धेनेति । 'स्वस्थितस्वप्रकारतया' इति स्थाने 'स्वस्मिन् स्वप्रकारतया' इति पाठो युक्तः । यद्यनुभवमुखप्रेक्षाविदग्धो भवति विपश्चित् तदाऽपेक्षाभेदेनैकत्रापि द्वित्वं बहृष्वप्येकत्वमनुभूयमानं नापलपनीयम् , एकत्रापि द्रव्येऽपेक्षात्मकभावे सतामेकत्वाद्यन्तपर्यायाणां मध्यादपेक्षाबुद्धिरूपकारणबलतो यथाक्षयोपशमं कदाचिदेकत्वप्रकारकै ज्ञानं कदाचिद् द्वित्वादिप्रकारकं ज्ञानं जायत इत्यतोऽपेक्षाबुद्धिगम्यत्वमेव द्वित्वादेर्युक्तमित्युपदर्शयति- एकत्रापि च घट इति। 'अनुभूयत एव' इत्यनुभवप्रमाणमावेदितम् , एवमग्रेऽपि । एकस्मिन् द्रव्येऽनन्तपर्यायसम्भवाऽऽवेदनायोक्तम्- स्वसामग्रीप्रभवेति- स्वस्वसामग्रीप्रभवेत्यर्थः । 'अपेक्षात्मकभावे' इति द्रव्यस्य विशेषणम् , अपक्षात्मको भावः स्वभावो यस्य सोऽपेक्षात्मकभावः, तस्मिन्नित्यर्थः, यत एवापेक्षात्मकस्वभावमनन्तपर्यायोपेतद्रव्यं तत एव तत्रापेक्षाबुद्धिरूपकारणात् कस्यचित् पर्यायस्य कदाचिदभिव्यक्तिरित्यभिसन्धिः । अत एव द्वित्वादेरपेक्षात्मकबुद्धिगम्यत्वादव । अस्या अपेक्षाबुद्धः, एफयापेक्षाबुद्धयैकः पर्यायोऽभिव्यज्यते, द्वितीयया तया द्वितीयः पर्यायस्तत्पर्यायप्रतिक्षेपात्माऽभिव्यज्यते, ताभ्यां सम्मिलिताभ्या क्रमेण युगपद् वा तादृशपर्यायद्वयं तथाऽभिव्यज्यत इति तथाऽभिव्यज्यमानपर्यायकदम्बकावगतये सप्तभङ्गीवाक्यं
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy