________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यञ्जकत्वं वाऽभ्युपगम्यते तादृशविषयतानिरूपितापेक्षात्वाख्यविषयता द्वित्वादौ नास्माकमसुलभा। सामान्य विशेषत्वादेरापेक्षिकत्वेऽपीयमेव रीतिरनुसतव्या । न चैवमनपेक्षकत्व-द्वित्वादिप्रत्यक्षानुपपत्तिः, द्रव्यनयालम्बनेनानपेक्षात्मकविषयतान्तरस्यापि स्वीकारात् । अत एव सापेक्षत्वा-ऽनपेक्षत्वाभ्यामपि स्याद्वादः, अस्मदुक्त पक्ष एवापेक्षाबुद्धि-द्वित्वबुद्ध्योः पौर्वापर्यानवभासोपपत्तिः, अनन्तकार्यकारणभाव-प्रतिबध्यप्रतिबन्धकभावादिकल्पनागौरवदूषणानवकाशश्चेति सर्वमवदातम् । तस्मात् स्वसमये परसमये एकत्व-द्वित्वादिप्रकारकनानाविधलौकिकव्यवहारे च नयापेक्षयैव विविक्तो बोध इति स्थितम् ॥ ४ ॥ फलितमाह
तेन सापेक्षभावेषु प्रतीत्यवचनं नयः ।
अभावाभावरूपत्वात् सापेक्षत्वं विधावपि ॥ ५॥ नया०-तेनेति- तेन उक्तहेतुना, सापेक्षभावेषु परस्परप्रतियोगिकेषु, धर्मेषु प्रतीत्यवचनम् अपेक्षात्मकं वाक्यम् , नय इति सिद्धम् । नन्वेवं 'स्यान्नास्त्येव' इत्येकवचनं नयः स्यात्, न तु 'स्यादस्त्येव' इति, तदर्थस्य विधेरप्रतियोगिकत्वादत एवाह-विधावपि अस्तित्वादिभावेऽपि, अभावाभावरूपत्वात नास्तित्वाद्यभावस्वरूपत्वात् , तेन रूपेण प्रतियोगिनिरूपणाधीननिरूपणतया सापेक्षत्वमस्त्येव । अयं प्रवर्तत इत्येवमेकस्या अपेक्षाबुद्धेर्नयरूपाया द्वितीयापेक्षाबुद्धयात्मकनयसंयोजनया सप्तभङ्गीप्रवृत्तिः सङ्गतिमङ्गतीत्यर्थः। परैः नैयायिकैः प्रभाकरानुयायिभिर्वा । अस्माकं जैनानाम् , नासुलभा किन्तु सुलभव । यथा चोक्कापेक्षात्वाख्यविषयताशालित्वाद् द्वित्वादनामापेक्षिकत्वं तथा सामान्यत्व-विशेषत्वादेरप्यपेक्षाबुद्धिगम्यत्वात् तत्तदपेक्षाबुद्धिवैलक्षण्यप्रयोजकविषयताविशेषनिरूपितापेक्षात्वविषयताशालित्वादापेक्षिकत्वमित्याह- सामान्य विशेषत्वादेरिति । ननु यद्येकत्व-द्वित्वादीनामुक्तापेक्षात्वाख्यविषयताशालिवादापेक्षिकत्वं तर्हि किञ्चिदपेक्षयैकत्व-द्वित्वादिप्रत्यक्षस्यापेक्षाबुद्धिप्रभवस्य सम्भवेऽप्यनपेक्षकत्वबुद्धः ‘एको घटः' इत्याद्याकारिकायाः, अनपेक्षद्वित्वबुद्धेः 'द्वाविमौ घट-पटौ' इत्याद्याकारिकायाश्चानुपपत्तिरित्याशङ्कां प्रतिक्षिपति-न चेति । एवं द्वित्वादावपेक्षात्वाख्यविषयत्वोररीकारे । निषेधे हेतुमाह- द्रव्यनयावलम्बनेनेति । अत एव सापेक्षत्वाख्या-ऽनपेक्षत्वाख्यविषयत्वद्वयस्वीकारादेव । अन्यमतापेक्षया स्वाभ्युपगतपक्षे विशेषमुपदर्शयति- अस्मदुक्तपक्ष एवेति- अपेक्षाबुद्धयाऽनन्तपर्यायोपेतद्रव्ये यथाक्षयोपशमं कदाचिद् द्वित्वप्रत्यक्षं कदाचित् त्रित्वप्रत्यक्षमित्युपगमे क्षयोपशमविशेषादेव द्वित्व-त्रित्वादिप्रत्यक्षसम्भवे न विभिन्नकार्यकारणभावकल्पना, त्रित्वप्रत्यक्षकाले क्षयोपशमविशेषस्य द्वित्वप्रत्यक्षनियामकस्याभावादव नं द्वित्वप्रत्यक्षमिति न त्रित्वादिप्रत्यक्षसामग्या द्वित्वादिप्रत्यक्षप्रतिबन्धकत्वम्, अपेक्षाबुद्धिद्वित्वबुद्धयोरत्यन्ताव्यवधानाच्च पौर्वापर्यानवभासनमित्यर्थः। उपसंहरति- तस्मादिति ॥४॥
पञ्चमपद्यमवतारयति- फलितमाहेति- अनन्तराभिहितविचारेण यत् फलितं तदाहेत्यर्थः । पञ्चमपद्यं विवृणोतितेनेतीति । ननु निषेधस्य सप्रतियोगिकत्वेन तत्प्रतिपादकवचनस्यापेक्षात्मकवाक्यत्वेन नयत्वस्य सम्भवेऽपि विधेरप्रतियोगिकत्वात् तत्प्रतिपादकवचनस्यापैक्षात्मकवाक्यत्वाभावात् कथं नयत्वमिति शङ्का-समाधानपरतयोत्तरार्द्धमवतारयति- नन्वेवमिति । एवम् अपेक्षात्मकवाक्यस्य नयत्वे । तदर्थस्य 'स्यादस्त्येव' इतिवचनार्थस्य । तेनेति- नास्तित्वाद्यभावत्वेन रूपेणास्तित्वादिलक्षणभावस्य प्रतियोगिनो नास्तित्वस्य यन्निरूपणं- तद्विषयकज्ञानानुकूलच्यापारः, तदधीनं- तत्प्रयोज्यं निरू. पणं यस्य तत्त्वेन- तत्प्रयोज्यज्ञानविषयत्वेन, नास्तित्वाभावप्रतियोगिज्ञानजन्यनास्तित्वाभावज्ञानविषयत्वेनेति यावत् । ननु नास्तित्वस्य नियमतोऽस्तित्वाभावरूपतया प्रतीयमानत्वात् तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वेऽपि विधिरूपस्यास्तित्वस्य विधिस्वरूपेणापि प्रतीयमानत्वात् तद्रूपेण तत्प्रतीतौ प्रतियोगिज्ञानापेक्षाभावात् कथं तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वम् , अतो