________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
जन्यतावच्छेदकम् , कारण-कार्यैकार्थप्रत्यासत्तिभेदात्, इति तस्यैव द्वित्वादिपरार्द्धपर्यन्तसंख्यावृत्तिजातिविशेषितस्य तथात्वम् । व्यङ्गयत्वनये चैकत्वान्यसंख्याप्रत्यक्षत्वम् , उक्तजातिविशेषप्रत्यक्षत्वं वाऽपेक्षाबुद्धेर्जन्यतावच्छेदकं वाच्यम्, द्वयोरप्यनयोर्मतयोः ‘एको धान्यराशिः' इत्यादिप्रत्ययसिद्धे सामूहिकैकत्वे व्यभिचारः । न च तत्रैकत्वं गौणमेव, वस्तुतस्त्वपेक्षाबुद्ध्या राशि-सेना-वनादौ बहुत्वविशेष एवोत्पाद्यते व्यज्यते वेति वाच्यम् , स्वारसिकैकत्वानुभावविरोधात् , ' एते बहवः कणाः, एते बहवः करि-तुरग-रथ पदातयः, एते बहवः आम्र-निम्ब-धव-खदिराः' इत्यादौ राशित्व-सेनात्व-वनत्वाद्यनापत्तेश्च, अपेक्षाबुद्ध्या तत्र राशित्वादिरूपस्यैव बहुत्वस्योत्पत्तिरभिव्यक्तिर्वेति त्वयोपगमात् । न च बहुपदशक्यतावच्छे दकं बहुवचनप्रवृत्तिनिमित्तं वा बहुत्वत्वमेकत्वद्वित्वान्यसंख्यात्वम् , त्रित्वमारभ्य परापर्यन्ते वृत्तिर्जातिविशेषो वा, राशित्वादिरूपबहुत्वे चापेक्षाबुद्धिविशेषजन्यतावच्छेदकस्तव्याप्य.. एव जातिविशेषो बहुत्वत्वम् , तदवच्छिन्नोपस्थितिश्चैकवचनान्तराश्यादिपदादेवेति शाब्दबोधस्थले नानुपपत्तिः, प्रत्यक्षे च 'बहवः' इत्यादौ कचित् दोषवशात् तदप्रहान्नानुपपत्तिरिति वाच्यम् , अनुभूयमानतस्यैवेति । 'जातिविशेषितस्य' इति स्थाने 'जातिविशेषस्य' इति पाठो युक्तः। तथात्वम् एकत्वजन्यतावच्छेदकत्वम् । व्यङ्गयत्वनये च द्वित्वादिकमपेक्षाबुद्धिब्यङ्गयमिति प्रभाकरमते तु । 'एकरवान्यसङ्ख्याप्रत्यक्षत्वम्' इत्यत्र 'एकत्वान्य' इति विशेषणोपादानादेकत्वप्रत्यक्षस्यापेक्षाबुद्धयजन्यत्वेऽपि न क्षतिः। उक्तजातिविशेषप्रत्यक्षत्वमितिद्वित्वमारभ्य परार्द्धपर्यन्तं यैका जातिस्तद्विशिष्टप्रत्यक्षत्वमित्यर्थः । धान्यसमूहगतैकत्वं यद् उत्पद्यते तत्रोक्तसङ्खयावृत्तिजातिविशेषो न वर्तते, नवा तत्प्रयक्षं तादृशजातिविशिष्टप्रत्यक्षं भवति, अथापि तदेकत्वमेकत्वेन जन्यते, अपेक्षाबुद्धया तु नैकत्वं नवा तत्प्रत्यक्षमिति तत्रोक्तकार्यकारणभावो नास्ति, नवा तदुपपादको मतद्वयेऽपि कश्चित् कार्यकारणभावोऽस्ति, यच समवायेनैकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनैकत्वं कारणम् , तथा कारणस्यैकत्वस्याभावेऽपि तदेकत्वं तदेकत्वप्रत्यक्ष चोपजायत इति व्यभिचारो मतद्वयेऽपि दुरुधर इत्यतो व्यङ्गयत्व-जन्यत्वपक्षी न समीचीना वित्याह-द्वयोरपीति । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः । तत्र धान्यसमूहे, उत्पाद्यत इति न्यायमते, व्यज्यत इति प्रभाकरमते ‘एको धान्यराशिः' इत्येवमेकत्वमेव स्वरसतोऽनुभूयते, न च स्वरसतोऽनुभूयमानस्य गौणत्वं युक्तम् , नवा तत्राप्रतीयमानस्य बहुत्वविशेषस्य कल्पनं युक्तमिति निषेधे हेतुमुपदर्शयति- स्वारसिकैकत्वेति । अपि च 'एते बहवः कणा राशिः' इति, 'एते बहवः करि-तुरग-रथ-पदातयः सेना' इति, 'एते बहव आम्र-निम्ब-धव-खदिरादयो वनम्' इति च प्रतीतिरुपजायते. उक्तमतद्वये तु राशित्वं सेनात्वं वनत्वं च बहुत्वविशेषरूपमपेक्षाबुद्धयोत्पद्यतेऽभिव्यज्यते वेत्युपेयते, तथा च 'बहवः' इत्यनेनैव बहुत्वस्यावभासमानत्वाद्राशित्वादिकं तदनधिकं तत एव लन्धमिति तथाप्रतीतिर्न स्यादित्याह-एत इति । त्वया नैयायिकेन प्रभाकरेण वा । ननु बहुपदशक्यतावच्छेदकं यद् बहुत्वत्वं तद्वयाप्यजातिविशेष एव राशित्वादिरूपबहुत्वे इति सामान्यरूपेण बहुत्वत्वेन विशिष्टस्याश्रये तद्व्याप्यबहुत्वत्वविशेषविशिष्टस्यावच्छिन्नान्वयसम्भवाद् 'एते बहवः कणा राशिः, एते बहवः करि-तुरग-रथ-पदातयः सेना, एते बहव आम्र-निम्ब-धव-खदिरा वनम्' इत्यादौ शाब्दबोधस्य नानुपपत्तिः, उक्तबहुत्वद्वयस्य सत्त्वेऽपि प्रत्यक्षे यदेकमेव बहुत्वत्वमनुभूयते तत्र सौसादृश्यलक्षणदोषविशेष एव बहुत्वत्वान्तरप्रहप्रतिबन्धक इति तदप्रतिभासनमप्युपपद्यत इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । 'राशित्वादि' इत्यादिपदात् सेनात्व-वनत्वादेरुपग्रहः । तद्वयाप्य एव त्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषव्याप्य एव । तदवच्छिन्नोपस्थितिश्च त्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषव्याप्यजातिविशेषावच्छिन्नोपस्थितिश्च, तथा च यत्र 'एते बहवः कणाः' इत्यायेव प्रयुज्यते न तु राश्यादिपदमपि तत्र प्रयुज्यते तत्रोकजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्य प्रतीतिर्न भवति, यत्र तु 'एते बहवः कणा राशिः' इत्यादि प्रयुज्यते तत्रोक्तजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्यापि शाब्दबोधो भवति । शब्दाऽनियन्त्रितविषये प्रत्यक्षे च कथमुक्कजातिद्वयावच्छिन्नस्य क्वचिदनवभासनमित्यपेक्षायामाह- प्रत्यक्षे चेति । तद्ग्रहात् उक्तजातिविशेषव्याप्यजातिविशेषाऽप्रहात् । निषेधे हेतुमाह- अनुभूय